सभापर्व

अध्यायः ९५

Sabha Parva (Sanskrit) · Adhyaya 95
अक्षर का आकार

युधिष्ठर उवाच।।

राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः।
नित्यं हि स्थातुमिच्छामस्तव भारत शासने।।

धृतराष्ट्र उवाच।।

अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत।
अनुज्ञाताः सहधनाः स्वराज्यमनुशासत।।

इदं चैवावबोद्धव्यं वृद्धस्य मम शासनम्।
मया निगदितं सर्वं पथ्यं निःश्रेयसं परम्।।

वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर।
विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता।।

यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत।
नादारुणि पतेच्छस्त्रं दारुण्येतन्निपात्यते।।

न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान्।
विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः।।

स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि।
सन्तः परार्थं कुर्वाणा नावेक्षन्ति प्रतिक्रियाम्।।

संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः।
प्रत्याहुर्मध्यमास्त्वेतेऽनुक्ताः नराधमाः।

न चोक्ता नैव चानुक्तास्त्वहिताः परुषा गिरः।
प्रतिजल्पन्ति वै धीराः सदा तूत्तमपुरुषाः।।

स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि।
सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः।।

असम्भिन्नार्यमर्यादाः साधवः प्रियदर्शनाः।
तथा चरित्तंमार्येण त्वयाऽस्मिन्सत्समागमे।।

दुर्योधनस्य पारुष्यं तत्तात हृदि मा कृथाः।
मातरं चैव गान्धारीं मां च त्वं गुणकाङ्क्षया।।

उपस्थितं वृद्धमन्धं पितरं पश्य भारत।
प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम्।।

मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम्।
अशोच्याः कुरवो राजन्येषां त्वमनुशासिता।।

मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः।
त्वयि धर्मोऽर्जुने धैर्यं भीमसेने पराक्रमः।।

शुद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः।
अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश।
भ्रातृभिस्तेऽस्तु सौभ्रात्रं धर्मे ते धीयताम मनः।।

वैशम्पायन उवाच।।

इत्युक्तो भरतश्रेष्ठ धर्मराजो युधिष्ठिरः।
कृत्वाऽऽर्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह।।

ते रथान्मेघसङ्काशानास्थाय सह कृष्णया।
प्रययुर्हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम्।।

।। इति श्रीमन्महाभारते सभापर्वणि
द्यूतपर्वणि पञ्चनवतितमोऽध्यायः।।95 ।।