सभापर्व

अध्यायः ९

Sabha Parva (Sanskrit) · Adhyaya 9
अक्षर का आकार

नारद उवाच।।

युधिष्ठिर सभा दिव्या वरुणस्यामितप्रभा।
प्रमाणेन यथा याम्या शुभप्राकारतोरणा।।

अन्तः सलिलमास्थाय विहिता विश्वकर्मणा।
दिव्यै रत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता।।

नीलपीतैः सिताः श्यामैः सितैर्लोहितकैरपि।
अवतानैस्तथा गुल्मैर्मञ्जरीजालधारिभिः।।

तथा शकुनयस्तस्यां विचित्रा मधुरस्वराः।
अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः।।

सा सभा सुखसंस्पर्शा न शीता न च धर्मदा।
वेश्मासनवती रम्या सिता वरुणपालिता।।

यस्यामास्ते स वरुणो वारुण्या च समन्वितः।
दिव्यरत्नाम्बरधरो दिव्याभरणभूषितः।।

?द्वितीयेन तु नाम्ना वै गौरीति भुवि विश्रुता।
पत्न्या सवरुणो देवः प्रमोदति सुखी सुखम्'।।

स्रग्विणो दिव्यगन्धाश्च दिव्यगन्धानुलेपनाः।
आदित्यास्तत्र वरुणं जलेश्वरमुपासते।।

वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा।
कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान्।।

कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ।
मणिमान्कुण्डधारश्च कर्कोटकधनञ्जयौ।।

पाणिमान्कुण्डधारश्च बलवान्पृथिवीपते।
प्रह्रादो मुषिकादश्च तथैव जनमेजयः ।।

पताकिनो मण्डलिनः फणवन्तश्च सर्वशः।
` अर्थो धर्मश्च कामश्च वसुः कपिल एव च।।

अनन्तश्च महानागो यं दृष्ट्वा जलजेश्वरः।
अभ्यर्चयति सत्कारैरासनेन च तं विभुः।।

वासुकिप्रमुखाश्चैव सर्वे प्राञ्जलयः स्थिताः।
अनुज्ञाताश्च शेषेण यथार्हमुपविश्य च।।

एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर।
`वैनतेयश्च गरुडो ये चास्य परिचारिणः'।
उपासते महात्मानं वरुणं विगतक्लमाः।।

बलिर्वैरोचनो राजा नरकः पृथिवीञ्जयः।
संह्रादो विप्रचित्तिश्च कालखञ्जाश्च दानवाः।।

सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिस्ततः।
घटोदरो महापार्श्वः क्रथनः पिठरस्तथा।।

विश्वरूपः स्वरूपश्च विरूपोऽथ महाशिराः।
दशग्रीवश्च वाली च मेघवासा दशावरः।।

टिट्टिभो विटभूतश्च संह्रादश्चेन्द्रतापनः।
दैत्यदानवसङ्घाश्च सर्वे रुचिरकुण्डलाः।।

स्रग्विणो मौलिनश्चैव तथा दिव्यपरिच्छदाः।
सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः।।

ते तस्यां वरुणं देवं धर्मपाशधरं सदा।
उपासते महात्मानं सर्वे सुचरितव्रताः।।

तथा समुद्राश्चत्वारो नदी भागीरथी च सा।
कालिन्दी विदिशा वेणा नर्दमा वेगवाहिनी।।

विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती।
इरावती वितस्ता च सिन्धुर्देवनदी तथा।।

गोदावरी कृष्णवेणी कावेरी च सरिद्वरा।
किम्पुना च विशल्या च तथा वैतरणी नदी।।

तृतीया ज्येष्ठिला चैव शोणश्चापि महानदः।
चर्मण्वती तथा चैव पर्णाशा च महानदी।।

सरयूर्वारवत्याऽथ लाङ्गली च सरिद्वरा।
करतोया तथाऽऽत्रेयी लौहित्यश्च महानदः।।

लङ्घती गोमती चैव सन्ध्या त्रिस्रोतसी तथा।
एताश्चन्याश्च राजेन्द्र सुतीर्था लोकविश्रुताः।।

सरितः सर्वतश्चान्यास्तीर्थानि च सरांसि च।
कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर।

पल्वलानि तटाकानि देहवन्त्यथ भारत।
दिशस्तथा मही चैव तथा सर्वे महीधराः।।

उपासते महात्मानं सर्वे जलचरास्तथा।
गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः।।

स्तुवन्तो वरुणं तस्यां सर्व एव समासते।
महीधरा रत्नवन्तो रसा ये च प्रतिष्ठिताः।।

कथयन्तः सुमधुराः कथास्तत्र समासते।
वारुणश्च तथा मन्त्री सुनाभः पर्युपासते।।

पुत्रपौत्रैः परिवृतो गोनाम्ना पुष्करेण च।
सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते।।

एषा मया सम्पतता वारुणी भरतर्षभ।
दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु।।

।। इति श्रीमन्महाभारते सभापर्वणि
मन्त्रपर्वणि नवमोऽध्यायः।। 9।।