सभापर्व

अध्यायः ८८

Sabha Parva (Sanskrit) · Adhyaya 88
अक्षर का आकार

शकुनिरुवाच।।

बहुवित्तं पराजैषीः पाण्डवानां युधिष्ठिर।
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम्।।

युधिष्ठिर उवाच।।

मम वित्तमसङ्ख्येयं यदहं वेद सौबल।
अथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि।।

अयुतं प्रयुतं चैव शङ्कुं पद्मं तथार्बुदम्।
खर्वं शङ्खं निखर्वं च महापद्मं च कोटयः।।

मध्यं चैव परार्धं च सपरं चात्र पण्यताम्।
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया।।

वैशम्पायन उवाच।।

एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत।।

युधिष्ठिर उवाच।।

गवाश्वं बहुधेनूकमसङ्ख्येयमजाविकम्।
यत्किञ्चिदनु पर्णाशां प्राक् सिन्धोरपि सौबल।
एतन्मम धनं सर्वं तेन दीव्याम्यहं त्वया।।

वैशम्पायन उवाच।।

एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत।।

युधिष्ठिर उवाच।।

पुरं जनपदो भूमिरब्राह्मणधनैः सह।
अब्राह्मणाश्च पुरुषा राजञ्शिष्टं धनं मम।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया।।

वैशम्पायन उवाच।।

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत।।

युधिष्ठिर उवाच।।

राजपुत्रा इमे राजञ्छोमन्ते यैर्विभूषिताः।
कुम्डलानि च निष्काश्च सर्वं राजविभूषणम्।
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया।।

वैशम्पायन उवाच।।

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत।।

युधिष्ठिर उवाच।।

श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः।
नकुलो ग्लह एवैकी विद्ध्येतन्मम तद्धनम्।।

शकुनिरुवाच।

प्रियस्ते नकुलो राजन्राजपुत्रो युधिष्ठिर।
अस्माकं वशतां प्राप्तो भूयः केनेह दीव्यसे।।

वैशम्पायन उवाच।।

एवमुक्त्वा तु तानक्षाञ्शकुनिः प्रत्यदीव्यत।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत।।

युधिष्ठिर उवाच।।

अयं धर्मान्सहदेवोऽनुशास्ति
लोके ह्यस्मिन्पण्डिताख्यां गतश्च।
अनर्हता राजपुत्रेण तेन
दीव्याम्यहं चाप्रियवत्प्रियेण।।

वैशम्पायन उवाच।।

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत।।

शकुनिरुवाच।।

माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया।
गरीयांसौ तु मन्ये भीमसेनधनञ्जयौ।।

युधिष्ठिर उवाच।

अधर्मं चरसे नूनं यो नावेक्षसि वै नयम्।
यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि।।

शकुनिरुवाच।।

गर्ते मत्तः प्रपतते प्रमत्तः स्थाणुमृच्छति।
ज्येष्ठो राजन्व्ररिष्ठोऽसि नमस्ते भरतर्षभ।।

स्वप्ने तानि न दृश्यन्ते जाग्रतो वा युधिष्ठिर।
कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव।।

युधिष्ठिर उवाच।।

यो नः सङ्ख्ये नौरिव पारनेता
जेता रिपूणां राजपुत्रस्तरस्वी।
अनर्हता लोकवीरेण तेन
दीव्याम्यहं शकुने फाल्गुनेन।।

वैशम्पायन उवाच।।

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत।।

शकुनिरुवाच।

अयं मया पाण्डवानां धनिर्धरः
पराजितः पाण्डवः सव्यसाची।
भीमेन राजन्दयितेन दीव्य
यत्कैतवं पाण्डव तेऽवशिष्टम्।।

युधिष्ठिर उवाच।।

यो नो नेता यो युधि नः प्रणेता
यथा वज्री दानवशत्रुरेकः।
तिर्यक्प्रेक्षी सन्नतभ्रूर्महात्मा
सिंहस्कन्धो यश्च सदाऽत्यमर्षी।।

बलेन तुल्यो यस्यप पुमान्न विद्यते
गदाभृतामग्र्य इहारिमर्दनः।
अनर्हता राजपुत्रेण तेन
दीव्याम्यहं भीमसेनेन राजन्।।

वैशम्पायन उवाच।।

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत।।

शकुनिरुवाच।

बहुवित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान्।
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम्।।

युधिष्ठिर उवाच।।

अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस्तथा।
कुर्यामहं जितः कर्म स्वयमात्मन्युपल्पुते।।

वैशम्पायन उवाच।।

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत।।

शकुनिरुवाच।

एतत्पापिष्ठमकरोर्यदात्मानं पराजयेः।
शिष्टे सति धने राजन्पाप आत्मपराजयः।।

वैशम्पायन उवाच।।

एवमुक्त्वा मताक्षस्तान् ग्लहे सर्वानवस्थितान्।
पराजयल्लोकवीरानुक्त्वा राज्ञां पृथक् पृथक्।।

शकुनिरुवाच।।

अस्ति ते वै प्रिया राजन् ग्लह एकोऽपराजितः।
पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर्जय।।

युधिष्ठिर उवाच।।

नैव ह्रस्वा न महती न कृशा नातिरोहिणी।
नीलकुञ्चितकशी च तया दीव्याम्यहं त्वया।।

शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया।
शारदोत्पलसेविन्या रूपेण श्रीसमानया।।

तथैव स्यादानुशंस्यात्तथ स्याद्रूपसम्पदा।
तथा स्याच्छीलसम्पत्त्या यामिच्छेत्पुरुषः स्त्रियम्।।

सर्वैर्गुणैर्हि सम्पन्नामनुकूलां प्रियंवदाम्।
यादृशीं धर्मकामार्थसिद्धिमिच्छेन्नरः स्त्रियम्।।

चरमं संविशति या प्रथमं प्रतिबुध्यते।
आगोपालाविपालेभ्यः सर्वं वेद कृताकृतम्।।

आभाति पद्मवद्वक्त्रं सस्वेदं मल्लिकेव च।
वेदीमध्या दीर्घकेशी ताम्रास्या नातिलोमशा।।

तयैवंविधया राजन्पाञ्चाल्याहं सुमध्यमा।
ग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौबल।।

वैशम्पायन उवाच।।

एवमुक्ते तु वचने धर्मराजेन धीमता।
धिग्धिगित्येव वृद्धानां सभ्यानां निः सृता गिरः।।

चुक्षुभे सा सभा राजन्राज्ञां सञ्जत्रिरे शुचः।
भीष्मद्रोणकृपादीनां स्वेदश्च समजायत।।

शिरो गृहीत्वा विदुरो गतसत्व इवाभवत्।
आस्ते ध्यायन्नधोवक्त्रो निः श्वसन्निव पन्नगः।।

`बाह्लीकः सोमदत्तश्च प्रातिपेयश्च सञ्जयः।
द्रौणिर्भूरिश्रवाश्चैव युयुत्सुर्धृतराष्ट्रजः।
आसुर्वीक्ष्य त्वधोवक्त्रा निश्वसन्त इवोरगाः'।।

धृतराष्ट्रस्तु संहृष्टः पर्यपृच्छत्पुनः पुनः।
किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत।।

जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः।
इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतञ्जलम्।।

सौबलस्त्वभिघायैव जितकाशी मदोत्कटः।
जितमित्येव तानक्षान्पुररेवान्वपद्यत।।

।। इति श्रीमन्महाभारते सभापर्वणि
द्यूतपर्वणि अष्टाशीतितमोऽध्यायः।।88।।