सभापर्व
अध्यायः ८०
त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः।
द्वेषा ह्यसुखमादत्ते यथैव निघनं तथा।।
अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम्।
अद्विषन्तं कथं द्विष्यात्त्वादृशो भरतर्षभ।।
तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप।
पुत्र कामयसे मोहान्मैवं भूः शाम्य मा शुचः।।
अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ।
ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम्।।
आहरिष्यन्ति राजानस्तवापि विपुलं धनम्।
प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च।।
अनार्याचरितं तात परस्वस्पृहणं भृशम्।
स्वसन्तुष्टः स्वधर्मस्थो यः स वै सुखमेधते।।
`मही कामदुघा सा हि वीरपत्नीति चोच्यते।
तथा वीरस्य भार्या श्रीस्ते इमे हि कलत्रवत्।।
तवाप्यस्ति हे चेद्वीर्यं भोक्ष्यसे हि महीमिमाम्।।
अयुक्तमिदमेतत्तु परस्वहरणं भृशम्।
उभयोर्लोकयोर्दुःखं सुहृदां काङ्क्षतोऽनयम्।।
अव्यापारः परार्तेषु नित्योद्योगः स्वकर्मसु।
रक्षणं समुपात्तानामेतद्वैभवलक्षणम्।।
विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः।
अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति।।
बाहूनिवैतान्मा च्छेत्सीः पाण्डुपुत्रास्तथैव ते।
भ्रातृणां तद्धनार्थं वै मित्रद्रोहं च मा कुरु।।
पाण्डोः पुत्रान्मा द्विषस्वेह राजं-
स्तथैव ते भ्रातृधनं समग्रम्।
मित्रद्रोहे तात महानघर्मः
पितामहा ये तव तेऽपि तेषाम्।।
अन्तर्वेद्यां ददद्वित्तं कामाननुभवन्प्रियान्।
क्रीडन्स्त्रीभिर्निरातङ्कः प्रशाम्य भरतर्षभ।।
।। इति श्रीमन्महाभारते सभापर्वणि
द्यूतपर्वणि अशीतितमोऽध्यायः।।80 ।।