सभापर्व
अध्यायः ७८
दुर्योधन उवाच।।
यन्मया पाण्डवोयानां दृष्टं तच्छृणु भारत।
आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः।।
नाविदं मूढमात्मानं दृष्ट्वाहं तदरेर्धनम्।
फलतो भूमितो वाऽपि प्रतिपद्यस्व भारत।।
और्णान्बैलान्वार्षदंशान् जातरूपपरिष्कृतान्।
प्रावाराजिनमुख्यांश्च काम्भोजः प्रददौ बहून्।।
अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान्।
अष्ट्रवामीस्त्रिगर्ताश्च पुष्टाः पीलुशमीङ्गुदैः।।
गोपाः स्वीयेन सहितास्तदादाय चतुष्पदम्।
वसातयोऽन्यद्द्रव्यं द्वारि तस्यावतस्थिरे।।
कमण्डलूनुपादाय जातरूपमयञ्छिवान्।
रत्नानि च हिरण्यं च सुवर्णं चैव केवलम्।
प्रीयमाणः प्रसन्नात्मा स्वयं स्वजनसंवृतः।
त्रैखर्वो रथमुख्येशः पाण्डवाय न्यवेदयत्।।
यश्च स द्विजमुख्येन राज्ञः शङ्खो निवेदितः।
प्रीत्या दत्तः कुविन्देन धर्मराजाय धीमते।।
तं सर्वे भ्रातरो भ्रात्रे ददुः शङ्खं किरीटिने।
तं प्रत्यगृह्णाद्बीभत्सुस्तोयजं हेममालिनम्।।
चित्रं निष्कसहस्रेण भ्राजमानं स्वतेजसा।
रुचिरं दर्शनीयं च पूजितं विश्वकर्मणा।।
अधारयच्च धर्मश्च तं नमस्य पुनः पुनः।
योऽनादनेऽपि नदति स ननादाधिकं तदा।।
प्रणादाद्भूमिपास्तस्य पेतुर्हीनाः खतेजसा।
धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः।।
सत्वेन स्वेन सम्पन्ना अन्योन्यप्रियकारिणः।
विसञ्ज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा।।
ततः प्रहृष्टो बीभत्सुरददाद्धेमशृङ्गिणः।
शताननडुहान्पञ्च द्विजमुख्याय भारत।।
सुमुखेन बलिर्मुख्यः प्रेषितोऽजातशत्रवे।
कुविन्देन हिरण्यं च वासांसि विविधानि च।।
काश्मीरराजो मार्द्वीकं शुद्धं च सरसं मधु।
बलिं च कुत्स्नमादाय पाण्डवायाभ्युटपागमत्।।
यवना हयानुपादाय पार्वतीयान्मनोजवान्।
आसनानि महार्हाणि कम्बलांश्च महाधनान्।।
नवान्सूक्ष्मांश्च हृद्यांश्च परार्थ्यान्सुप्रदर्शनान्।
अन्यच्च विविधं रत्नं द्वारि ते न्यवतस्थिरे।।
श्रुतायुरपि कालिङ्गो मणिरत्नमनुत्तमम्।
अङ्गः स्त्रियो दर्शनीया जातरूपविभूषिताः।।
वङ्गो जाम्बूनदमयान्पर्यङ्गाञ्छतशो नृप।
दक्षिणात्सागराभ्याशात्प्रावारांश्च परश्शतम्।।
औदकानि सरत्नानि बलिं चादाय भारत।
अन्येभ्यो भूमिपालेभ्यः पाण्डवाय न्यवेदयत्।।
दार्दुरं चन्दनं मुख्यं भारं षण्णवति द्रुतम्।
पाण्डवाय ददौ पाण्ड्यः शङ्खांस्तावत एव च।।
चन्दनागरु चानन्तं मुक्तावैडूर्यचित्रिताः।
चोलश्च केरलश्चोमौ ददतुः पाण्डवाय वै।।
अश्मको हेमशृङ्गीश्च दोग्ध्रीर्हेमविभूषितः।
सवत्साः कुम्भदोहाश्च सहस्राण्यददाद्दश।।
सैन्धवानां सहस्राणि हयानां पञ्चविंशतिम्।
अददात्सैन्धवो राजा हेममाल्यैरलङ्कृतान्।।
सौवीरो हस्तिभिर्युक्तान्रथांश्च त्रिशतं परान्।
जातरूपपरिष्कारान्मणिरत्नविभूषितान्।।
मध्यन्दिनार्कप्रतिमांस्तेजसा ज्वलितानिव।
बलिं च कृत्स्नमादाय पाण्डवाय न्यवेदयत्।।
अवन्तिराजो रत्नानि विविधानि सहस्रशः।
हाराङ्गदांश्च मुख्यान्वै विविधं च विभूषणम्।।
दासीनामयुतं चापि बलिमादाय भारत।
सभाद्वारि नरश्रेष्ठ दिदृक्षुरवतिष्ठते।।
दशार्णश्चेदिराजश्च शूरसेनश्च वीर्यवान्।
वस्त्राणि मुख्यान्यादाय रत्नानि विविधानि च।
बलिं च कृत्स्नमादाय पाण्डवाय न्यवेदयत्।।
काशिराजेन हृष्टेन बली राज्ञि निवेदितः।
अशीतिगोसहस्राणि शतान्यष्टौ च दन्तिनाम्।।
अयुतं च नदीजानां हयानां हेममालिनाम्।
विविधानि च रत्नानि काशिराजो बलिं ददौ।।
कृतक्षणश्च वैदेहः कौसलश्च बृहद्बलः।
ददतुर्वाजिमुख्यांश्च सहस्राणि चतुर्दश।।
शैब्यो वसादिभिः सार्धं त्रिगर्तो मालवैः सह।
तेभ्यो रत्नानि ददतुरेकैको भूमिपोऽमितम्।।
हारान्मुख्यान्परार्ध्यांश्च विविधं च विभूषणम्।
शतं दासीसहस्राणि कार्पासिकनिवासिनाम्।।
श्यामास्तन्वीर्दीर्घकेशीर्हेमाभरणभूषिताः।
बलिं च कृत्स्नमादाय भारुकच्छो नरर्षभ।।
शुद्धान्विप्रोत्तमार्हांश्च कम्बलप्रवरान्ददौ।
ते सर्वे पाण्डुपुत्रस्य द्वार्यतिष्ठन्दिदृक्षवः।।
उपायनं यदा दद्युस्तदा द्वारमलभ्यत।
इन्द्रकृष्टैर्वर्धयन्ति धान्यैर्नदमुखैस्तु ये।।
समुद्रनिकटे जाताः परिसिन्धुनिवासिनः।
ते वै द्रुमाः पारदाश्च काश्यकैरातकैः सह।।
बलिं विविधमादाय रत्नानि विविधानि च।
अजाविकं गोहिरण्यं खरोष्ट्रं फलवन्मधु।।
कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः।
प्राग्ज्योतिषपतिः शूरो म्लेच्छानामधिपो बली।।
यवनैः सहितो राजा भगदत्तो महाबलः।
आजानेयान्हयाञ्छीघ्रमादायानिलरंहसः।।
बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः।
अश्वसारमयान्भाण्डाञ्छुभान्दन्तत्सरूनसीन्।।
प्राग्ज्योतिषाधिपो दत्त्वा भगदत्तोऽव्रजत्तदा।
व्यक्षाङ्ख्यक्षांल्ललाटाक्षान्नानादिग्भ्यः समागतान्।।
औष्णीषआनहयांश्चैव बाहुकान्पुरुषादकान्।
एकपादांश्च तत्राहमपश्यं द्वारि वारितान्।।
बल्यर्थं ददतस्तस्य हिरण्यं रजतं वसु।
इन्द्रगोपकसङ्काशाञ्छुकवर्णान्मनोजवान्।।
तथैवेन्द्रायुधनिभान्सन्ध्याभ्रसदृशानपि।
अनेकवर्णानारण्यान्गृहीत्वाश्वांस्तथा बहून्।।
जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः।
सिंहलश्च तदा राजा परिगृह्य धनं बहु।।
गोशीर्षं हरितश्यामं चन्दनप्रवरं महत्।
भाराणां शतमेकं तु द्वारि तिष्ठति वारितः।।
ये नग्नविषया राजन्बर्बरेयाश्च विश्रुताः।
शतं दासीसहस्राणां कम्बलांश्च सहस्रशः।
परिगृह्य महाराज द्वारि तिष्ठन्ति वारिताः।।
पौण्ड्राश्च दामलिप्ताश्च यथाकामकृतो नृपाः।
कालेयकं च रूप्यं च परिगृह्य परिच्छदान्।।
अगरून्स्फाटिकांश्चैव दन्ताञ्जातीफलानि च।
तक्कोलांश्च लवङ्गाश्च कर्पूरांश्च महाबल।।
अन्यांश्च विविधान्द्रव्यान्परिगृह्योपतस्थिरे।
एते सर्वे महात्मानो द्वारि तिष्ठन्ति वारिताः।।
शैलेयश्च ततो राजा पत्रोर्णान्परिगृह्य सः।
द्वारि तिष्ठन्महाराज द्वारपालैर्निवारितः।।
चीना हूणाः कषाः काचाः पर्वतान्तरवासिनः।
आहार्षुर्दशसाहस्रान्विन्नीतान्दिक्षु विंश्रुतान्।।
औष्णीकं कम्बलं चैव कीटजं मणिजं तथा।
प्रमाणरागस्पर्शाढ्यं बाह्वीचीनसमुद्भवम्।।
रसान् गन्धान्प्रशंसन्तस्ततो द्वारमलभ्यत।
खर्वटास्तोमराश्चैव शूरा वर्धनकास्तथा।।
चेलान्बहुविधान्गृह्य द्वारि तिष्ठन्ति वारिताः।
प्राक्कोटा नाटकेयाश्च नन्दीनगरकास्तथा।।
नापितास्त्रैपुराश्चैव पञ्चमेयाः सहोरुजाः।
तथा चाटविकाः सर्वे नानाद्रव्यपरिच्छदान्।।
परिगृह्य महाराज द्वारि तिष्ठन्ति वारिताः।
शकास्तुषाराः कौरव्य रोमकाः शृङ्गिणोश्मकाः।।
बलादूरुगमा राजन्गणितं चार्बुदं मया।
कूटीकृतं सुवर्णं च पद्मकिञ्जल्कसंनिभम्।।
शितान्दीर्घानसीनन्यान्यष्टिशक्तिपरश्वथान्।
श्लक्ष्णं वस्त्रमकार्पसमाविकं मृदु चाजिनम्।।
बलं मत्तं समादाय द्वारि तिष्ठन्ति वारिताः।
आसनानि महार्हाणि यानानि शयनानि च।।
मणिकाञ्चनचित्राणि गजदन्तमयानि च।
रथांश्च विविधाकाराञ्जाम्बूनदपरिष्कृतान्।।
हयैर्विनीतैः सम्पन्नान्वैयाघ्रपरिवारितान्।
विचित्रान्सपरिस्तोमांश्चापानि विविधानि च।
नाराचानर्घनाराचाञ्छस्त्राणि विविधानि च।
एतद्द्रव्यं महद्गृह्य पूर्वदेशाधिपो नृपः।।
प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः।
जन्तुचेलान्द्विसाहस्रान्दुकूलान्ययुतानि च।।
कांस्यानि चैव भाण्डानि महार्हाणि कुथानि च।
एतान्यन्यानि रत्नानि ददौ पार्थस्य वै मुदा।।
अन्यान्बहुविधान्राजन्नरः सागरमाश्रिताः।
रत्नानि विविधान्गृह्य ददुस्ते पाण्डवाय तु।।
मालवाश्च ततो राजन्रत्नानि विविधानि च।
गोधूमानां च राजेन्द्र द्रोणानां कोटिसंमितम्।।
अन्यांश्च विविधान्धान्यान्परिगृह्य महाबलः।
पाण्डवाय ददौ प्रीत्या प्रविवेश महाध्वरम्।।
नानारत्नान्बहून्गृह्य सुराष्ट्राधिपतिर्नृपः।
तैलकुम्भान्महाराज द्रोणानामयुतानि च।।
गुडानपि स तान्स्वादून्सहस्रशकटैर्नृपः।
एतानि सर्वाण्यादाय ददौ कुन्तीसुताय सः।।
अन्ये च पार्थिवा राजन्नानादेशसमागताः।
रत्नानि विविधान्गृह्य ददुस्ते कौरवाय तु।।
जम्बूद्वीपे समस्ते तु सराष्ट्रवनपर्वते।
करं तु न प्रयच्छेत नास्ति पार्थस्य पार्थिवः।।
नरः सप्तसु वर्षेसु तद्यज्ञे नास्ति नागतः।
क्रतुर्नानागणैः कीर्णो बभौ शक्रसदो यथा।।
इमांश्च दायान्विविधान्निबोध मम पार्थिव।
यज्ञाप्थे राजभिर्दत्तान्महतो धनसञ्चयान्।।
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम्।
ये ते कीचकवेणूनां छायां रम्यामुपासते।।
खषा एकासनाद्यर्हाः प्रदरा दीर्घवेणवः।
पारदाश्च कुलिन्दाश्च तङ्कणाः परतङ्कणाः।।
तद्वै पिपीलिकं नाम उद्धृतं यत्पिपीलिकैः।
जातरूपं द्रोणमेयमहार्षुः कुञ्जशो नराः।।
कृष्णवालांश्च चमराञ्छुक्लवालांस्तथा परान्।
हिमवत्पुष्पजं चैव स्वादुक्षौद्ररसं बहु।।
उत्तरेभ्यः कुरुभ्यश्च व्यूढमाल्यैर्महात्मभिः।
उत्तरादपि कैलासादोषधीः सुमहाबलाः।।
पार्वतीयाश्चराजान आहृत्य प्रणताः स्थिताः।
अजातशत्रवे राजन्द्वारि तिष्ठन्ति वारिताः।।
ये परार्घ्या हिमवतः सूर्योदयगिरेरनु।
एवंरूपाः समुद्रान्ते लौहित्यमभितश्च ये।।
फलमूलाशना ये च किराताश्चर्मवाससः।
चन्द्नागरुमुख्यानि महार्हान्कम्बलानि च॥
चर्मरत्नसुवर्णानि गन्धानुच्चावचानि च।
कैरातकीनामयुतं दासीनां च विशंपते ॥
आहृत्य रमणीयार्थान्दूरगान्मृगपक्षिणः।
निचितं पर्वतेभ्यश्च हिरण्यंभूरिवर्चसम्॥
बलिं च कृत्स्त्रमादाय द्वारि तिष्टन्ति वारिताः।
कापव्या दरदा दर्वाः शूरा वै यमकास्तथा॥
औदुम्बरा दुर्विभागा द्वारि तिष्टन्ति वारिताः।
काश्मीराश्च कुमाराश्च गौरका हंसकास्तथा॥
शिबित्रैगर्तयौधेया राजन्या मद्रकैः सह।
वसुतेयाः समौलेया दाहक्षुद्रकमालवैः।।
चौण्डिकाश्चौदकाश्चैव साल्वाश्चैव विशम्पते।
अङ्कवङ्काश्च यवना अनवद्या गयैः सह।।
सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रधारिणः।
आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवै।।
वङ्काः कलिङ्गा मगधास्ताम्रलिप्ताः सपुण्ड्रकाः।
दुकूलं कौशिकं चैव पत्रोर्णं चैव भारत।।
उपावृत्ता नृपास्तस्य ददुः प्रीतिं न चागमन्।
उच्यन्ते तत्र हि द्वार्स्थैर्बलिमादाय विष्ठिताः।।
ईषादन्तान्हेमकक्ष्यान्पद्मवर्णान्कुथावृतान्।
शैलाभान्नित्यमत्तांश्चाप्यभितः काम्यकं सरः।।
क्षमावतः कुलीनांश्च कुञ्जरान्सपरिच्छदान्।
दत्त्वैकैको दशशतान्द्वारेण प्रविशन्त्विति।।
वैदेहकाश्च पुण्ड्राश्च गौलेयास्ताम्रलिप्तकाः।
मरुकाः काशिका दर्दा भौमेया नटनाटकाः।।
कर्णाटाः कांस्यकुट्टाश्च पद्मजालाः सतीनराः।
दाक्षिणात्याः पुलिन्दाश्च शवेरास्तङ्कणाः शषाः।।
बर्बरा यवनाश्चैव गर्गराभीरकास्तथा।
पल्लवाः शककारूशास्तुम्बकाः काशिकास्तदा।।
एते चान्ये च बहवो नानादिगभ्यः समागताः।
अन्यैश्चोपहृतान्यत्र रत्नानि हि महात्मभिः।।
समुद्रसारवैडूर्यान्मुक्ताः शङ्खास्तथैव च।
शुभावर्ताञ्छुभाञ्छुक्तीः सिंहलाः समुपाहरन्।।
सम्भृतान्मणिचीरैश्च श्यामांस्ताम्रान्तलोचनान्।
राजा चित्ररथो नाम गन्धर्वो वासवानुगः।
शतानि चत्वार्यददद्धयानां वातरंहसाम्।।
तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम्।
आम्रपत्रसवर्णानामददद्धेममालिनाम्।।
कृती राजा च कौरव्य शूकराणां विशाम्पते।
अददद्गजरत्नानां शतानि सुबहून्यथ।।
विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम्।
कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते।।
पांसुराष्ट्राद्वमुदानो राजा षड्विंशतिं गजान्।
अश्वानां चसहस्रे द्वे राजन्काञ्चनमालिनाम्।।
जवसत्वोपपन्नानां वयस्थानां नराधिप।
बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत्।।
यज्ञसेनेन दासीनां सहस्राणि चतुर्दश।
दासानामयुतं चैव सदाराणां विशाम्पते।।
गजयुक्ता महाराज रथाः षड्विंशतिस्तथा।
राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम्।।
वासुदेवोऽपि वार्ष्णेयो मानं कुर्वन्किरीटिनः।
अददद्गजमुख्यानां सहस्राणि चतुर्दश।।
आत्मा हि कृष्णः पार्थस्य कृष्णस्यात्मा धनञ्जयः।
यद्ब्रूयादर्जुनः कृष्णं सर्वं कुर्यादसंशयम्।।
कृष्णो धनञ्जयस्यार्थे स्वर्गलोकमपि त्यजेत्।
तथैव पार्थः कृष्णार्थे प्राणानपि परित्यजेत्।।
सुरभींश्चन्दनरसान्हेमकुम्भसमास्थितान्।
मलयाद्दर्दुराच्चैव चन्दनागुरुसञ्चयान्।।
मणिरत्नानि भास्वन्ति काञ्चनं सूक्ष्मवस्त्रकम्।
चोलपाण्ड्यावपि द्वारं न लेभाते ह्युपस्थितौ।।
समुद्रसारं वैदूर्यं मुक्तासङ्घांस्तथैव च।
शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन्।।
संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः।
ता गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः।।
प्रीत्यर्थं ब्राह्मणश्चैव क्षत्रियाश्च विनिर्जिताः।
उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवस्तथा।।
प्रीत्या च बहुमानाच्चाप्युपागच्छन्युधिष्ठिरम्।
सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा।।
नानादेशसमुत्थैश्चन नानाजितिभिरेव च।
पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने।।
उच्चावचानुपग्राहान्राजभिः प्रापितान्बहून्।
शत्रूणां पश्यतो दुःखान्मुमूर्षा मे व्यजायत।।
भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि पार्थिव।
येषामामं च पक्वं च संविधत्ते युधिष्ठिरः।।
अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः।
थानामर्बुदं चापि पादाता बहवस्तथा।।
प्रमीयमाणमां च पच्यमानं तथैव च।
विसृज्यमानं चान्यत्र पुण्याहस्वन एव च।।
नाभुक्तवन्तं नापीतं नालङ्कृतमसत्कृतम्।
पश्यं सर्ववर्णानां युधिष्ठिरनिवेशने।।
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः।
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः।
सुप्रीताः परितृष्टाश्च ते ह्याशंसत्त्यरिक्षयम्।।
दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम्।
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने।।
अभुक्तं भुक्तवद्वापि सर्वमाकुब्जवामनम्।
अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशाम्पते।।
द्वौ करौ न प्रयच्छेतां कुन्तीपुत्राय भारत।
साम्बन्धिकेनपाञ्चालाः सख्येनान्धकवृष्णयः।।
।। इति श्रीमन्महाभारते सभापर्वणि
द्यूतपर्वणि अष्टसप्ततितमोऽध्यायः।।78।।