सभापर्व

अध्यायः ७५

Sabha Parva (Sanskrit) · Adhyaya 75
अक्षर का आकार

शकुनिरुवाच।।

दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम्।
भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा।।

विधानं विविधाकारं परं तेषां विधानतः।
अनेकैरभ्युपायैश्च त्वया न शकिताः पुरा।।

आरब्धा हि महाराज पुनः पुनररिन्दम।
विमुक्ताश्च नरव्याघ्रा भगधेयपुरस्कृताः।
`उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु'।।

तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह।
सहायाः पृथिवीपाला वासुदेवश्च वीर्यवान्।।

लब्धश्चानभिभूतार्थैः पित्र्योंशः पृथिवीपते।
विवृद्धस्तेजसा तेषां तत्र का परिदेवना।।

धनञ्जयेन गाण्डीवमक्षय्यौ च महेषुधी।
लब्धान्यस्त्राणि दिव्यानि तोषयित्वा हुताशनम्।।

तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः।
कृता वशे महीपालास्तत्र का परिदेवना।।

अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम्।
सभां तां कारयामास सव्यसाची परन्तपः।।

तेन चैव मयेनोक्ताः किङ्करा नाम राक्षसाः।
हन्ति तां सभां भीमास्तत्र का परिदेवना।।

यच्चासहायतां राजन्नुक्तवानसि भारत।
तन्मिथ्या भ्रातरो हीमे तव सर्वे वशानुगाः।।

द्रोणस्तव महेष्वासः सह पुत्रेण वीर्यवान्।
मूतपुत्रश्च राधेयो दृढधन्वा महारथः।।

`स एकः समरे सर्वान्पाण्डवान्सहसोमकान्।
विजेष्यति महाबाहो किं सहायैः करिष्यसि।।

भीष्मश्च पुरुषव्याघ्रो गौतमश्च महारथः।
जयद्रथश्च बलावान्सोमदत्तस्तथैव च'।।

अहं च सह सोदर्यैः सौमदत्तिश्च पार्थिवः।
एतैस्त्वं सहितः सर्वैर्जय कृत्स्नं वसुन्दराम्।।

दुर्योधन उवाच।

त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः।
एतानहं विजेष्यामि यदि त्वमनुमन्यसे।।

एतेषु विजितेष्वद्य भविष्यति मही मम।
सर्वे च पृथिवीपालाः सभा सा च महाधना।।

शकुनिरुवाच।।

धनञ्जयो वासुदेवो भीमसेनो युधिष्ठिरः।
नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः।।

नैते युधि पराजेतुं शक्या देवगणैरपि।
महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः।।

अहं तु तद्विजानामि विजेतुं येन शक्यते।
युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च।।

दुर्योधन उवाच।।

अप्रमादेन सुहृदामन्येषां च महात्मनाम्।
यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल।।

शकुनिरुवाच।

द्यूतप्रियश्च कौन्तेयो न स जानाति देवितुम्।
समाहूतश्च राजेन्द्रो न शक्ष्यति तिवर्तितुम्।।

देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि।
त्रिषु लोकेषु कौरव्य तं त्वं द्यूते समाह्वय।।

तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम्।
राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ।।

इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय।
अनुज्ञातस्तु ते पित्रा विजेष्ये तान्न संशयः।।

दुर्योधन उवाच।

त्वमेव करुमुख्याय धृतराष्ट्राय सौबल।
निवेदय यथान्यायं नाहं शक्ष्ये निवेदितुम्।।

।। इति श्रीमन्महाभारते सभापर्वणि
द्यूतपर्वणि पञ्चसप्ततितमोऽध्यायः।।75 ।।