सभापर्व

अध्यायः ६९

Sabha Parva (Sanskrit) · Adhyaya 69
अक्षर का आकार

वैशम्पायन उवाच।।

ततो युद्धाय संनद्धं चेदिराजं युधिष्ठिरः।
दृष्ट्वा मतिमतां श्रेष्ठो नारदं समुवाच ह।।

युधिष्ठिर उवाच।।

अन्तरिक्षे च भूमौ च तेऽस्त्यविदितं क्वचित्।
यानि राजविनाशाय भौमानि च खगानि च।।

निमित्तानीह जायन्ते उत्पाताश्च पृथग्विधाः।
एतदित्छामि कार्त्स्न्येन श्रोतुं त्वत्तो महामुने।।

वैशम्पायन उवाच।

इत्येवं मितमान्विप्रः कुरुराजस्य धीमतः।
पृच्छतः सर्वमव्यग्रमाचचक्षे महायशाः।।

नारद उवाच।।

पराक्रमं च मार्गं च संनिपातं समुच्छ्रयम्।
आरोहणं कुरुश्रेष्ठ अन्योन्यं प्रतिसर्पणम्।।

पश्मीनां व्यतिसंसर्गं व्यायामं वृत्तिपीडनम्।
दर्शनादर्शनं चैव अदृश्यानां च दर्शनम्।।

हानिं वृद्धिं च ह्रासं च वर्णस्थानं बलाबलम्।
सर्वमेतत्परीक्षेत ग्रहाणां ग्रहकोविदः।।

भौमाः पूर्वं प्रवर्तन्ते खेचराश्च ततः परम्।
उत्पद्यन्ते च लोकेऽस्मिन्नुत्पाता देवनिर्मिताः।।

यदा तु सर्वभूतानां छाया न परिवर्तते।
अपरेण गते सूर्ये तत्पराभवलक्षणम्।।

अच्छाये विमलच्छाया प्रतिच्छायेव दृश्यते।
यत्र चैत्यकवृक्षाणां तत्र विद्यान्महद्भयम्।।

शीर्णपर्णप्रवालाश्च शुष्कपर्णाश्च चैत्यकाः।
अपभ्रष्टप्रवालाश्च तत्राभावं विनिर्दिशेत्।।

स्निग्धपर्णप्रवालाश्च दृश्यन्ते यत्र चैत्यकाः।
ईहमानाश्च वृक्षाश्च भावस्तत्र न संशयटः।।

पुष्पे पुष्पं प्रजायेत फले वा फलमाश्रितम्।
राजा वा राजमात्रो वा मरणायोपपद्यते।।

प्रावृट्छरदि हेमन्ते वसन्ते वापि सर्वशः।
आकालिकं पुष्पफलं राष्ट्रक्षोभं विनिर्दिशेत्।।

नदीनां स्त्रोतसोऽकाले द्योतयन्ति महाभयम्।
वनस्पतिः पूज्यमानः पूजितोऽपूजितोऽपि वा।।

यदा भज्येत वातेन भिद्यते नमितोऽपि वा।
अग्निवायुभयं विद्याच्छ्रेष्ठो वापि विनश्यति।।

दिशः सर्वाश्च दीप्यन्ते जायन्ते राजविभ्रमाः।
भिद्यमानो यदा वृक्षो निनदेच्चापि पातितः।
सह राष्ट्रं च पतितं नतं वृक्षं प्रपातयेत्।।

अथैनं छेदयेत्कश्चित्प्रतिक्रुद्धो वनस्पतिः।
छेत्ता भेत्ता पतिश्चैव क्षिप्रमेव नशिष्यति।।

देवतानां च पतनं मष्टपानां च पातनम्।
अचलानां प्रकम्पश्च तत्पराभवलक्षणम्।।

निशि चेन्द्रधनुर्दृष्टं ततोपि च महद्भयम्।
तद्द्रष्टरेव भीतिः स्यान्नान्येषां भरतर्षभ।।

रात्राविन्द्रधनुर्दृष्ट्वा तद्राष्ट्रं परिवर्जयेत्।।

अर्चा यत्र प्रनृत्यन्त नदन्ति च हसन्ति च।
उन्मीलन्ति निमीलन्ति राष्ट्रक्षोभं विनिर्दिशेत्।।

शिला यदि प्रसिञ्चन्ति स्नेहांश्चोदकसम्भवान्।
अन्यद्वा विकृतं किञ्चित्तद्भयस्य निदर्शनम्।।

म्रियन्ते वा महामात्रा राजा सपरिवारकः।
पुरस्य या भवेद्व्याधी राष्ट्रे देशे च विभ्रमाः।।

देवतानां यदाऽऽवासे राज्ञां वा यत्र वेश्मनि।
भाण्डागारायुधागारे निविशेत यदा मधु।।

सर्वं तदा भवेत्स्थानं हन्यमानं बलीयसा।
आगन्तुकं भयं तत्र भवेदित्येव निर्दिशेत्।।

पादपश्चैव यो यत्र रक्तं स्रवति शोणितम्।
दन्ताग्रात्कुञ्जरो वापि शृङ्गाद्वा वृषभस्तथा।।

पादपाद्राष्ट्रिविभ्रंशः कुञ्जराद्राजविभ्रमः।
गोब्राह्मणविनाशः स्याद्वृवभस्येति निर्दिशेत्।।

छत्रं नरपतेर्यत्र निपतेत्पृथिवीतले।
सराष्ट्रो नृपती राजन्क्षिप्रमेव विनश्यति।।

देवागारेषु वा यत्र राज्ञो वा यत्र वेश्मनि।
विकृतं यदि दृश्येत नागावासेषु वा पुनः।।

तस्य देशस्य पीडा स्याद्राज्ञो जनपदस्य वा।
अनावृष्टिभयं घोरमतिदुर्भिक्षमादिशेत्।।

अर्चाया बाहुभङ्गेन गृहस्थानां भयं भवेत्।
भग्ने प्रहरणे विद्यात्सेनापतिविनाशनम्।।

आगन्तुका तु प्रतिमा स्थानं यत्र न विन्दति।
जभ्यन्तरेण षण्मासाद्राजा त्यजति तत्पुरम्।।

प्रदीर्यते मही यत्र विनदत्यपि पात्यते।
म्रियते तत्र राजा च तत्र राष्ट्रं विनश्यति।।

एणीपदान्वा सर्पान्वा डुण्डुभानथ दीप्यकान्।
मण्डूको ग्रसते यत्र तत्र राजा विनश्यति।।

अभिन्नं वाप्यपक्वं वा यत्रान्नमुपचीयते।
जीर्यन्ते वा म्रियन्ते वा तदन्नं नोपभुञ्जते।।

उदपाने च यत्रापो विवर्धन्ते युधिष्ठिर।
स्थावरेषु प्रवर्तन्ते निर्गच्छेन्न पुनस्ततः।।

अपादं वा त्रिपादं वा द्विशीर्षं वा चतुर्भुजम्।
स्त्रियो यत्र प्रसूयन्ते ब्रूयात्तत्र पराभवम्।।

अजैडकाः स्त्रियो गावो ये चान्ये च वियोनयः।
विकृतानि प्रजायन्ते तत्र तत्र पराभवः।।

नदी यत्र प्रतिस्रोता आवहेत्कलुषोदकम्।
दिशश्च न प्रकाशन्ते तत्पराभवलक्षणम्।।

एतानि च निमित्तानि यानि चान्यानि भारत।
केशवादेव जायन्ते भौमानि च खगानि च।।

चन्द्रादित्यौ ग्रहाश्चैव नक्षत्राणि च भारत।
वायुरग्निस्तथा चापः पृथिवी च जनार्दनात्।।

यस्य देशस्य हानिं वा वृद्धिं वा कर्तुमिच्छति।
तस्मिन्देशे निमित्तानि तानि तानि करोत्ययम्।।

सोसौ चेदिपतेस्तात विनाशं समुपस्थितम्।
निवेदयति गोविन्दः स्वैरुपायैर्न संशयः।।

इयं प्रचलिता भूमिरशिवा वान्ति मारुताः।
राहुश्चाप्यपतत्सोममपर्वणि विशाम्पते।।

सनिर्घाताः पतन्त्युल्कास्तमः सञ्जायते भृशम्।
चेदिराजविनाशाय हरिरेष विजृम्भते।।

वैशम्पायन उवाच।।

एवमुक्त्वा तु देवर्षिर्नारदो विरराम ह।
ताभ्यां पुरुषसिंहाभ्यां तस्मिन्युद्ध उपस्थिते।

ददृशुर्भूमिपालास्ते घोरानौत्पातिकान्बहून्।।
तत्र वै दृश्यमानानां दिक्षु सर्वासु भारत।

अश्रूयन्त तदा राजञ्छिवानामशिवा रवाः।।
ररास च मही कृत्स्ना सवृक्षवनपर्वता।

अपर्वणि च मध्याह्ने मूर्यं स्वर्भानुरग्रसत्।।
ध्वजाग्रे चेदिराजस्य सर्वरत्नपरिष्कृते।

अपतत्खाच्च्युतो गृध्रस्तीक्ष्णतुण्डः परन्तप।।
आरण्यैः सहसा हृष्टा ग्राम्याश्च मृगपक्षिणः।

चुक्रुशुर्भैरवं तत्र तस्मिन्युद्ध उपस्थिते।।
एवमादिनि घोराणि भौमानि च स्वगानि च।

औत्पातिकान्यदृश्यन्त सङ्क्रुद्धे शार्ङ्गधन्वनि।।

।। इति श्रीमन्महाभारते सभापर्वणि
शिशुपालवधपर्वणि एकोनसप्ततितमोऽध्यायः।। 69 ।।