सभापर्व

अध्यायः ६३

Sabha Parva (Sanskrit) · Adhyaya 63
अक्षर का आकार

वैशम्पायन उवाच।।

ततः सागरसङ्काशं दृष्ट्वा नृपतिमण्डलम्।
संवर्तवाताभिहतं भीमं क्षुब्धमिवार्णवम्।

रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः।
भीष्मं मतिमतां मुख्यं वृद्धं कुरुपितामहम्।
बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा।

असौ रोषात्प्रचलितो महान्नृपतिसागरः।
अत्र यत्प्रतिपत्तव्यं तन्मे ब्रूहि पितामह।।

यज्ञस्य च न विघ्नः स्यात्प्रजानां च हितं भवेत्।
यथा सर्वत्र तत्सर्वं ब्रूहि मेऽद्य पितामह।।

इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे।
उवाचेदं वचो भीष्मस्ततः कुरुपितामहः।।

मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति।
शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः।।

प्रसुप्ते हि यथा सिंहे श्वानस्तात समागताः।
भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः।।

वृष्णिसिंहस्य सुप्तस्य तथाऽमी प्रमुके स्थिताः।
भषन्ते तात सङ्क्रुद्धाः श्वानः सिंहस्य सन्निधौ।।

न हि सम्बुध्यते यावत्सुप्तः सिंह इवाच्युतः।
` तदिदं ज्ञातपूर्वं हि तव संस्तोतुमिच्छसि'।
तेन सिंहीकरोत्येतानसिंहश्चेदिपुङ्गवः।।

पार्थिवान्पार्थिवश्रेष्ठ शिशुपालोऽल्पचेतनः।
सर्वान्सर्वात्मना तात नेतुकामो यमक्षयम्।।

नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः।
यदस्य शिशुपालस्य तेजस्तिष्ठति भारत।।

विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धिमतां वर।
चेदिराजस्य कौन्तेय सर्वेषां च महीक्षितम्।।

आदातुं च नरव्याघ्रो यं यमिच्छत्ययं तदा।
तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा।।

चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः।
प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिर।।

वैशम्पायन उवाच।

इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः।
भीष्मं रूक्षाक्षरा वाचः श्रावयामास भारत।।

।। इति श्रीमन्महाभारते सभापर्वणि
शिशुपालवधपर्वणि त्रिषष्टितमोऽध्यायः।। 63।।