सभापर्व
अध्यायः ६
वैशमापायन उवाच।
सम्पूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम्।
प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः।।
भगवत्याय्यमाहैतं यथावद्धर्मनिश्चयम्।
यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया।।
राजभिर्यद्यथा कार्यं, पुरा वै तन्न संशयः।
यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत्।।
वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो।
न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः।।
वैशम्पायन उवाच।
एकमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च।
` तं तु विश्रान्तमासीनं देवर्षिममितद्युतिम्'।।
मुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम्।।
नादरदं सुस्थमासीनमुपासीनो युधिष्ठिरः।
अपृच्छत्पाण्डवस्तत्र राजमध्ये माहद्युतिः।।
भवात्सञ्चरते लोकान्सदा नानाविधान्बहून्।
ब्रह्मणा निर्मितान्पूर्वं प्रेक्षमाणो मनोजवः।
ईदृशी भविता काचिद्दृष्टपूर्वा सभा क्वचित्।
इतो वा श्रेयसी ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः।।
वैशम्पायन उवाच।
तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम्।
पाण्डवं प्रत्युवाचेदं स्मयन्मधुरया गिरा।।
नारद उवाच।
मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता।
सभा मणिमयी राजन्यथेयं तव भारत।।
सभां तु पितृराजस्य वरुणस्य च धीमतः।
कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च।।
ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम्।
दिव्यादिव्यैरभिप्रायैरुपेतां विश्वरूपिणीम्।।
देवैः पितृगणैः साध्यैर्यज्वभिर्नियतात्मभिः।
जुष्टां मुनिगणैः शान्तैर्वेदयज्ञैः सदक्षिणैः।।
यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभ।।
नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः।
प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्द्विजोत्तमैः।।
नारदं प्रत्यवाचेदं धर्मराजो महामनाः।
सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम्।।
किन्द्रव्यास्ताः सभा ब्रह्मन्किंविस्ताराः किमायताः।
पितामहं च के तस्यां सभायां पर्युपासते।।
वासवं देवराजं च यमं वैवस्वतं च के।
वरुणं च कुबेरं च सभायां पर्युपासते।।
एतत्सर्वं यथान्यायं ब्रह्मर्षे वदतस्तव।
श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः।।
एवमुक्तः पाण्डवेन नारदः प्रत्यभाषत।
क्रमेण राजन्दिव्यास्ताः श्रूयन्तामिह नः सभाः।।
।। इति श्रीमन्महाभारते सभापर्वणि
मन्त्रपर्वणि षष्ठोऽध्यायः।। 6।।