सभापर्व

अध्यायः ५१

Sabha Parva (Sanskrit) · Adhyaya 51
अक्षर का आकार

वैशम्पायन उवाच।।

एवमुक्ते तु कौन्तेयस्ततः कौरवनन्दनः।
आबभाषे पुनर्भीष्णे धर्मराजो युधिष्ठिरः।।

भूय एव मनुष्येन्द्र उपेन्द्रस्य यशस्विनः।
जन्म वृष्णिषु विज्ञातुमिच्छामि वदतां वर।।

यथैव भगवाञ्जातः क्षिताविह जनार्दनः।
माधवेषु महाबुद्धिस्तन्मे ब्रूहि पितामह।।

वैशम्पायन उवाच।

एवमुक्तस्ततो भीष्मः केशवस्य महात्मनः।
माधवेषु तथा जन्म कथयामास वीर्यवान्।।

हन्त ते कथयिष्यामि युधिष्ठिर यथातथम्।
यतो नारायणस्येह जन्म वृष्णिषु कौरव।।

पुरा लोके महाराज वर्तमाने कृते युगे।
आसीत्रैलोक्यविख्यातः सङ्ग्रामस्तारकामयः।।

विरोचनो मयस्तारो वराहः श्वेत एव च।
विप्रचित्तिः प्रलम्बश्च वृत्रजम्भबलादयः।।

नमुचिः कालनेमिश्च प्रह्लाद इति विश्रुतः।
लम्बः किशोरः स्वर्भानुररिष्टो राक्षसेश्वरः।।

एते चान्ये च बहवो दैत्यसङ्घाः सहस्रशः।
नानाशस्त्रधरा राजन्नानाभूषणवाहनाः।।

देवतानामभिमुखास्तस्थुर्दैतेयदानवाः।
देवास्तु युध्यमानास्ते दानवानभ्ययू रणे।।

आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः।
इन्द्रो यमश्च वरुणश्चन्द्रश्चैव धनेश्वरः।।

अश्विनौ च महावीर्यौ ये चान्ये देवतागणाः।
चक्रुर्युद्धं महाघोरं दानवैश्च यथाक्रमम्।।

युध्यमानाः समेयुश्च देवा दैतेयदानवैः।
तद्युद्धमभवद्घोरं देवदानवसङ्कुलम्।।

ताभ्यां बलाभ्यां सञ्जज्ञे तुमुलो विग्रहस्तदा।
तीक्ष्णशस्त्रैः किरन्तोऽथ अभ्ययुर्देवदानवाः।।

घ्रन्ति देवान्सगन्धर्वान्सयक्षोरगचारणान्।
ते वध्यमाना दैतेयैर्देवसङ्घास्तदा रणे।।

त्रातारं मनसा जग्मुर्देवं नारायमं प्रभुम्।
एतस्मिन्नन्तरे तत्र जगाम हरिरीश्वरः।।

दीपयञ्ज्योतिषा भूमिं शङ्खचक्रगदाधरः।
तमागतं सुपर्णस्थं विष्णुं लोकनमस्कृतम्।।

दृष्ट्वा मुदा युताः सर्वे भयं त्यक्त्वा रमे सुराः।
चक्रुर्युद्धं पुनः सर्वे देवा दैतेयदानवैः।।

तद्युद्धमभवद्घोरमचिन्त्यं रोमहर्षणम्।
जघ्रुर्दैत्यान्त्रणे घोराः सर्वे शक्रपुरोगमाः।।

ते बाध्यमाना बिबुधैर्दुद्रुवुदैत्यदानवाः।।

विद्रुतान्दानवान्दृष्ट्वा तदा भारत संयुगे।
कालनेमिरिति ख्यातो दानवः प्रत्यदृश्यता।।

शत्रुप्रहरणे घोरः शतबाहुः शताननः।
शतशीर्षः स्थितः श्रीमाञ्छतशृङ्गं इवाचलः।।

भास्कराकारमुकुटः शिञ्जिताभरणाङ्गदः।
धूम्रकेतुर्हरिश्मश्रुर्निर्दष्टोष्ठपुटाननः।।

त्रैलोक्यान्तरविस्तारं धारयन्विपुलं वपुः।
तर्जयन्वै रणे देवाञ्छादयन्वै दिशो दश।।

अभ्यधावत्सुसङ्क्रुद्धो व्यादितास्य इवान्तकः।
तत्र शस्त्रप्रतानैश्च देवान्धर्षितवान्त्रणे।।

अभ्याययुः सुरान्सर्वान्पुनस्ते दैत्यदानवाः।
आपीडयन्त्रणे क्रुद्धास्ततो देवान्युधिष्ठिर।।

ते वध्यमाना विबुधाः समरे कालनेमिना।
दैत्यैश्चैव महाराज दुद्रुवुस्ते दिशो दश।।

विबुधान्विद्रुतान्दृष्ट्वा कालनेमिर्महा।ञसुरः।
इन्द्रं यमं च वरुणं वायुं च धनदं रविम्।।

एतांश्चान्यान्बलाञ्जित्वा तेषां कार्याण्यवाप सः।
तान्सर्वान्सहसा जित्वा कालनेमिर्महासुरः।।

ददर्श गगने विष्णुं सुपर्णस्थं महाद्युतिम्।
तं दृष्ट्वा क्रोधताम्राक्षस्तर्जयन्नभ्ययात्तदा।।

स बाहुशतमुद्यम्य सर्वास्त्रग्रहणं रणे।
रोषाद्भारत दैत्येन्द्रो विष्णोरुरसि पातयत्।।

दैत्याश्च दानवाश्चैव सर्वे मयपुरोगमाः।
स्वान्यायुधानि सङ्गृह्य सर्वे विष्णुमुपाद्रवन्।।

स ताड्यमानो।ञतिबलैर्दैत्यैः सर्वायुघोद्यतैः।
न चचाल हरिर्युद्धेऽकम्पमान इवाचलः।।

पुनरुद्यम्य सङ्क्रुद्धः कालनेमिर्दृढां गदाम्।
जघान गदया राजंस्तं विष्णुं गरुडं च वै।।

तं दृष्ट्वा गुरडं श्रान्तं चक्रमुद्यस्य वै हरिः।
शतं शिरांसि बाहूंश्च सोच्छिनत्कालनेमिनः।।

जघानान्यांस्च तान्सर्वान्समरे दैत्यदानवान्।
विबुधानामृषीणां च स्वानि स्थानानि वै ददौ।।

दत्त्वा सुराणां सुग्रीतो योग्यकर्माणि भारत।
जगाम ब्रह्मणा सार्धं ब्रह्मलोकं तदा हरिः।।

ब्रह्मलोकं प्रविश्याश्च प्राप्य नारायणः प्रभुः।
पौराणं ब्रह्मसदनं दिव्यं नारायणाश्रयम्।।

स प्रविश्य तदा देवः स्तूयमानो महर्षिभिः।
सहस्रशीर्षा भूत्वा च शयनायोपचक्रमे।।

आदिदेवः पुराणात्मा निद्रावशमुपागतः।
शेते सुखं सदा विष्णुर्मोहयञ्जगदव्ययः।।

जग्मुस्तस्याथ वर्षाणि शयानस्य महात्मनः।
षट्‌त्रिंशच्छतसाहस्रं मानुषेणेह सङ्ख्यया।।

जग्मुः कृतयुगत्रेताद्वापरान्ते बुबोध ह।
ब्रह्मादिभिः स्तूयमानः सुरैश्चापि सहर्षिभिः।।

उत्पत्य शयनाद्विष्णुर्ब्रह्मणा विबुधैः सह।
देवानां च हितार्थाय ययौ देवसभां प्रति।।

मेरोः शिरसि विन्यस्तां ज्वलन्तीं तां शुभां सभाम्।
विविशुस्ते सुराः सर्वे ब्रह्मणा सह भारत।।

जग्मुस्तत्र निषेदुस्ते सा निःशब्दा ह्यभूत्तदा।
तत्र भूमिरुवाचाथ खेदात्करुणभाषिणी।।

राज्ञां बलैर्बलवतां खिन्नास्मि भृशपीडिता।
नित्यं भारपरिश्रान्ता दुःखं जीवाम्यहं सुराः।।

पुरे पुरे च नृपतिः कोटिसङ्ख्यैर्बलैर्वृतः।
राष्ट्रे राष्ट्रे च शतशो ग्रामाः कुलसहस्रिणः।।

भूमिपानां सहस्रैश्च तेषां च बिलनां बलैः।
ग्रामायुतैः पुरै राष्ट्रैरहं निर्विवरीकृता।।

तस्माद्धारयितुं शक्त्या न क्षमासि जनानहम्।
दैत्यैश्च बाध्यमानास्ताः प्राज नित्यं दुरात्मभिः।।

भीष्म उवाच।

भूमेस्तु वचनं श्रुत्वा देवो नारायणस्तदा।
व्यादिश्य तान्सुरान्सर्वान्क्षितौ वस्तुं मनो दधे।।

।। इति श्रीमन्महाभारते सभापर्वणि
अर्घाहरणपर्वणि एकपञ्चाशोऽध्यायः।। 51।।