सभापर्व
अध्यायः ४५
भीष्म उवाच।।
प्रादुर्भावसहस्राणि समतीतान्यनेकशः।
यथाशक्ति तु वक्ष्यामि शृणु तान्कुरुनन्दन।।
पुरा कमलनाभस्य स्वपतः सागराम्भसि।
पुष्करे यत्र सम्भूता देवा ऋषिगणैः सह।।
एष पौष्करिको नाम प्रादुर्भावः प्रकीर्तितः।
पुराणैः कथ्यते यत्र वेदश्रुतिसमाहितः।।
वाराहस्तु श्रुतिसुखः प्रादुर्भावो महात्मनः।
यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपमास्थितः।।
उज्जहार महीं तोयात्सशैलवनकाननाम्।
वेदपादो यूपदंष्ट्रः क्रतुर्दन्तश्चितीमुखः।।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः।
अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः।।
आज्यनासः स्रुवं तुण्डं सामघोषस्वनो महान्।
धर्मसत्यमयः श्रीमान्कर्मविक्रमसत्कृतः।।
प्रायश्चित्तमुखो धीरः पशुजानुर्महावृषः।
औद्गात्रहोमलिङ्गोऽसौ पशुबीजमहौषधिः।।
बाह्यन्तरात्मा मन्त्रास्थिविकृतः सौम्यदर्शनः।
वेदिस्कन्धो हविर्गन्धो हव्यकव्याभिवेगवान्।।
प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरूर्जितः।
दक्षिणाहृदयो योगी महाशास्त्रमयो महान्।।
उपाकर्मोष्ठरुचकः प्रावर्ग्यावर्तभूषणः।
शालापत्नीसहायो वै मणिशृङ्गसमुच्छ्रितः।।
एवं यज्ञवराहो वै भूत्वा विष्णुः सनातनः।
महीं सागरपर्यन्तां सशैलवनकाननाम्।।
कार्णवजले भ्रष्टामेकार्णवगतः प्रभुः।
मज्जन्तीं सलिले तस्मिन्स्वदेवीं पृथिवीं तदा।।
उज्जहार विषाणेन मार्गण्डेयस्य पश्यतः।
शृङ्गेण यः समुद्धृत्य लोकानां हितकाम्यया।।
सहस्रशीर्षो देवेशो निर्ममे जगतीं प्रभुः।
एवं यज्ञवराहेण भूतभव्यभवात्मना।।
उद्धृता पृथिवी देवी पूज्या वै सागराम्बरा।
निहता दानवाः सर्वे देवदेवेन विष्णुना।।
वाराहः कथितो ह्येष नारसिंहमतो शृणु।
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः।।
।। इति श्रीमन्महाभारते सभापर्वणि
अर्घाहरणपर्वणि पञ्चचत्वारिंशोऽध्यायः।। 45 ।।