सभापर्व
अध्यायः ४२
`वैशम्पायन उवाच।।
गाङ्गेयेनैवमुक्तस्तु शिशुपालश्चुकोप तम्।
क्रुद्धं सुनीथं दृष्ट्वाऽथ सहदेवोऽब्रवीत्तदा।।
मतिपूर्वमिदं सर्वं चेदिराज मया कृतम्।
तन्मे निगदतस्तत्त्वं कारणादत्र मे शृणु।।
स पार्थिवानां सर्वेषां गुरुः कृष्णोऽपरो न हि।
तस्मादभ्यर्चितोऽस्माभिः सर्वे संमन्तुमर्हथ।।
यो वा सहते कश्चिद्राज्ञां सबलवाहनः।
क्षिप्रं युद्धाय निर्यातु तस्य मूर्ध्न्याहितं पदम्।।
एवमुक्तो मया हेतुरुत्तरं प्रब्रवीतु मे।
वैशम्पायन उवाच।।
ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम्।।
मानिनां बलिनां राज्ञां मध्ये सन्दर्शिते पदे।
एवमुक्ते सुनीथस्य सहदेवेन केशवे।।
स्वभावरक्ते नयने कोपाद्रक्ततरे कृते।
तस्य कोपं समुद्भूतं ज्ञात्वा भीष्मः प्रतापवान्।।
आचचक्षे पुनस्तस्मै कृष्णस्यैवोत्तरान्गुणान्।
स सुनीथं समामन्त्र्य तांश्च सर्वान्महीक्षितः।।
उवाच वदतां श्रेष्ठं इदं मतिमतां वरः।
सहदेवेन राजानो यदुक्तं केशवं प्रति।
तत्तथेति विजानीध्वं भूयश्चात्र विबोधत।।
।। इति श्रीमन्महाभारते सभापर्वणि
अर्घाहरणपर्वणि द्विचत्वारिंशोऽध्यायः।। 42 ।।