सभापर्व

अध्यायः ४

Sabha Parva (Sanskrit) · Adhyaya 4
अक्षर का आकार

वैशम्पायन उवाच।।

`तां तु कृत्वा सभां श्रेष्ठां मयश्चार्जुनमब्रवीत्।
भूतानां च महावीर्यो ध्वजाग्रे किङ्करो गणः।।

तव विष्फारघोषेण मेघवन्निनदिष्यति।
अयं हि सूर्यसङ्काशो ज्वलनस्य रथो महान्।। 2।।

इमे च दिविजाः श्वेता वीर्यवन्तो हयोत्तमाः।
मायामयः कृतो ह्येष ध्वजो वानरलक्षणः।।

असज्जमानो वृक्षेषु धूमकेतुरिवोच्छ्रितः।
बहुवर्णं हि लक्ष्येत ध्वजं वानरलक्षणम्।।

ध्वजोत्कटं ह्यनवमं युद्धे द्रक्ष्यसि विष्ठितम्।
एव वीरः सव्यसाचिन्ध्वजस्यान्ते भविष्यति।।

वैशम्पायन उवाच।

इत्युक्त्वाऽऽलिङ्ग्य वीभत्सुं विसृष्टः प्रययौ मयः'।

ततः प्रवेशनं तस्यां चक्रे राजा युधिष्ठिरः।
अयुतं भोजयित्वा तु ब्राह्मणानां नराधिपः।।

साज्येन पायसेनैव मधुना मिश्रितेन च।
भक्ष्यैर्मूलैः फलैश्चैव मांसैर्वाराहहारिणैः।
कृसरेणाथ जीवन्त्या हविष्येण च सर्वशः।।

मांसप्रकारैर्विविधैः खाद्यैश्चापि तथा नृप।
चोष्यैश्च विविधै राजन्पेयैश्च बहुविस्तरैः।।

अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि।
तर्पयामास विप्रेन्द्रान्नानादिग्भ्यः समागतान्।।

ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः पुनः।
पुण्याहघोषस्तत्रासीद्दिवस्पृगिव भारत।।

वादित्रैर्विविधैर्दिव्यैर्गन्धैरुच्चावचैरपि।
पूजयित्वा कुरुश्रेष्ठो देवतानि निवेश्य च।।

तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा।
उपतस्थुर्महात्मानं धर्मपुत्रं युधिष्ठिरम्।।

तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः।
तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि।।

सभायामृषयस्तस्यां पाण्डवैः सह आसते।
आसाञ्चक्रुर्नरेन्द्राश्च नानादेशसमागताः।।

असितो देवलः सत्यः सर्पिर्माली महाशिराः।
अर्वा वसुः सुमित्रश्च मैत्रेयः शुनको बलिः।।

बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः।
सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वयम् ।।

तित्तिरिर्याज्ञवल्क्यश्च ससुतो रोमहर्षणः।
अप्सुहोम्यश्च धौम्यश्च अणीमाण्डव्यकौशिकौ।।

दामोष्णीपस्त्रैबलीश्च पर्णादो घटजानुकः।
मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकः।।

बलिवाकः सिनीवाकः सप्तपालः कृतश्रमः।
जातूकर्णः शिखावांश्च आलम्बः पारिजातकः।।

पर्वतश्च महाभागो मार्कण्डेयो महामुनिः।
पवित्रपाणिः सावर्णो भालुकिर्गालवस्तथा।।

जङ्घाबन्धुश्च रैभ्यश्च कोपवेगस्तथा भृगुः।
हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः।।

काक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः।
पैङ्ग्यो वराहः शुनकः शाण्डिल्यश्च महातपाः।।

कुक्कुरो वेणुजङ्घोऽथ कालापः कठ एव च।
मुनयो धर्मविद्वांसो धृतात्मानो जितेन्द्रियाः।।

एते चान्ये च बहवो वेदवेदाङ्गपारगाः।
उपासते महात्मानं सभायामृषिसत्तमाः।।

कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयोऽमलाः।
तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते।।

श्रीमान्महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः।
सङ्ग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान्।

कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः।
कम्बोजराजः कमठः कम्पनश्च महाबलः।।

सततं कम्पयामास यवनानेक एव यः।
बलपौरुषसम्पन्नान्कृतास्त्रानमितौजसः।
यथाऽसुरान्कालकेयान्देवो वज्रधरस्तथा।।

जटासुरो मद्रकानां च राजा
कुन्तिः पुलिन्दश्च किरातराजः।
तथाङ्गवाङ्गौ सहपुण्ड्रकेण
पाण्ड्योड्रराजौ च सहान्ध्रकेण ।।

अङ्गो वङ्गः सुमित्रश्च शैब्यश्चामित्रकर्शनः।
किरातराजः सुमना यवनाधिपतिस्तथा।।

चाणूरो देवरातश्च भोजो भीमरथश्च यः।
श्रुतायुधश्च कालिङ्गो जयसेनश्च मागधः।।

सुकर्मा चेकितानश्च पुरुश्चामित्रकर्शनः।
केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः।।

सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः।
अनूपराजो दुर्धर्पः क्रमजिच्च सुदर्शनः।।

शिशुपालः सहसुतः करूपाधिपतिस्तथा।
वृष्णीनां चैव दुर्धर्पाः कुमारा देवरूपिणः।।

आहुको विपृथुश्चैव गदः सारण एव च।
अक्रूरः कृतवर्मा च सत्यकश्च शिनेः सुतः।।

भीष्मकोऽथाकृतिश्चैव द्युमत्सेनश्च वीर्यवान्।
केकयाश्च महेष्वासा यज्ञसेनश्च सोमकिः।।

केतुमान्वसुमांश्चैव कृतास्त्रश्च महाबलः।
एते चान्ये च बहवः क्षत्रिया मुख्यसंमताः।

उपासते सभायां स्म कुन्तीपुत्रं युधिष्ठिरम्।
अर्जुनं ये व संश्रित्य राजपुत्रा महाबलाः।।

अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः।
तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः।

रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः।
सुधर्मा चानिरुद्धश्च शैव्यश्च नरपुङ्गवः।।

एते चान्ये च बहवो राजानः पृथिवीपते।
धनञ्जयसखा चात्र नित्यमास्ते स्म तुम्बुरुः।।

उपासते महात्मानमासीनं सप्तविंशतिः।
चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा।।

गीतवादित्रकुशलाः साम्यतालविशारदाः।
प्रमाणोऽथ लये स्थाने किन्नराः कृतनिश्रमाः।।

सञ्चोदितास्तुम्बुरुणा गन्धर्वसहितास्तदा।
गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः।।

पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते।
तस्यां सभायामासीनाः सुव्रताः सत्यसङ्गराः।।

दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते।।

।। इति श्रीमन्महाभारते सभापर्वणि
मन्त्रपर्वणि चतुर्थोऽध्यायः।। 4।।