सभापर्व

अध्यायः ३३

Sabha Parva (Sanskrit) · Adhyaya 33
अक्षर का आकार

`जनमेजय उवाच।।

इच्छाम्यागमनं श्रोतुं हैडिम्बस्य द्विजोत्तम।
लङ्कायां च गतिं ब्रह्मन्पौलस्त्यस्य च दर्शनम्।।

कावेरीदर्शनं चैव आनुपूर्व्या वदस्व मे।

वैशम्पायन उवाच।

शृणु राजन्यथा वृत्तं सहेदवस्य साहसम्।।

कालनद्वीपगांश्चैव तरसाऽजित्य चाहवे।
दक्षिणां च दिशं जित्वा चोलस्य विषयं ययौ।।

ददर्श पुण्यतोयां वै कावेरीं सरितां वराम्।
नाजापक्षिगणैर्जुष्टां तापसैरुपशोभिताम्।।

साललोध्रार्जुनैल्वैर्जम्बूशाल्मलकिंशुकैः।
कदम्बैः सप्तपर्णैश्च कश्मर्यामलकैर्वृताम्।।

न्यग्रोधैश्च महाशाखैः प्लक्षैरौदुम्बरैरपि।
शमीपलाशवृक्षैश्च अश्वत्थैः खदिरैर्वृताम्।।

बदरीभिश्च सञ्छन्नामश्वकर्णैश्च शोभिताम्।
चूतैः पुण्ड्रकपत्रैश्च कदलीवनसंवृताम्।।

चक्रवाकगणैः कीर्णं प्लवैश्च जलवायसैः।
समुद्रकाकैः क्रौञ्चैश्च नादितां जलकुक्कुटैः।।

एवं खगैश्च बहुभिः सङ्घुष्टां जलवासिभिः।
आश्रमैर्बहुभिः सक्तां चैत्यवृक्षैश्च शोभिताम्।।

शोभितां ब्राह्मणैः शुभ्रैर्वेदवेदाङ्गपारगैः।
क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम्।।

क्वचित्सुपुष्पितैर्वृक्षैः क्वचित्सौगन्धिकोत्पलैः।
कह्लारकुमुदोत्फुल्लैः कमलैरुपशोभिताम्।।

कावेरीं तादृशीं दृष्ट्वा प्रीतिमान्पाण्डवस्तदा।
अस्मद्राष्ट्रे यथा गङ्गा कावेरी च तथा शुभा।।

सहदेवस्तु तां तीर्त्वा नदीमनुचरैः सह।
दक्षिणं तीरभासाद्य गमनायोपचक्रमे।।

आगतं पाण्डवं तत्र श्रुत्वा विषयवासिनः।
दर्शनार्थं ययुस्ते तु कौतूहलसमन्विताः।।

द्रमिडाः पुरुषा राजन्स्रियचश्च प्रियदर्शनाः।
गत्वा पाण्डुसुतं तत्र ददृशुस्ते मुदाऽन्विताः।।

सुकुमारं विशालाक्षं व्रजन्तं त्रिदशोपमम्।
दर्शनीयतमं लोके नेत्रैरनिमिषैरिव।।

आश्चर्यभूतं ददृशुर्द्रमिडास्ते समागताः।
महासेनोपमं दृष्ट्वा पूजां चक्रुश्च तस्य वै।।

रत्नैश्च विविधैरिष्टैर्भोगैरन्यैश्च संमतैः।
गतिमङ्गलयुक्तार्भिः स्तुवन्तो नकुलानुजम्।।

सहदेवस्तु तान्दृष्ट्वा द्रमिलानागतान्मुदा।
विसृज्य तान्महाबाहुः प्रस्थितो दक्षिणां दिशम्।।

दूतेन तरसा चोलं विजित्य द्रमिडेश्वरम्।
ततो रत्नान्युपादाय पाण्डस्य विषयं ययौ।।

दर्शने सहदेवस्य न च तृप्ता नराः परे।
गच्छन्तमनुगच्छन्तः प्राप्ताः कौतूहलान्विताः।।

ततो माद्रीसुतों राजन्मृगसङ्घान्विलोकयन्।
गजान्वनचरानन्यान्व्याघ्रान्कुष्णमृगान्बहून् ।।

शुकान्मयूरान्दृष्ट्वा तु गृध्रानारण्यकुक्कुटान्।
ततो देशं समासाद्य श्वशुरस्य महीपतेः।।

प्रेषयामास माद्रेयो दूतान्पाण्ड्याय वै तदा।
प्रतिजग्राह तस्याज्ञां सम्प्रीत्या मलयध्वजः।।

भार्या रूपवती जिष्णोः पाण्ड्यस्य तनया शुभा।
चित्राङ्गदेति विख्याता द्रमिडी योषितां वरा।।

आगतं सहदेवं तु सा श्रुत्वाऽन्तः पुरे पितुः।
प्रेषयामास सम्प्रीत्या पूजारत्नं च वै बहु।।

पाण्ड्योऽपि बहुरत्नानि दूतैः सह मुमोच ह।
मणिमुक्ताप्रवालानि सहदेवाय कीर्तिमान्।।

तां दृष्ट्वाऽप्रतिमां पूजां पाण्डवोऽपि मुदा नृप।
भ्रातुः पुत्रे बहून्रत्नान्दत्वा वै बभ्रूवाहने।।

पाण्ड्यं द्रमिडराजानं श्वशुरं मलयध्वजम्।
स दूतैस्तं वशे कृत्वा मणलूरेश्वरं तदा।।

ततो रत्नान्युपादाय द्रमिडैरावृतो ययौ।
अगस्त्यस्यालयं दिव्यं देवलोकसमं गिरिम्।।

स तं प्रदक्षिमं कृत्वा मलयं भरतर्षभ।
लङ्घयित्वा तु माद्रेयस्ताम्रपणीं नदीं शुभाम्।।

प्रसन्नसलिलां दिव्यां सुशीतां च मनोहराम्।
समुद्रतीरमासाद्य न्यविशत्पाण्डुनन्दनः।।

।। इति श्रीमन्महाभारते सभापर्वणि
दिग्विजयपर्वणि त्रयस्त्रिंशोऽध्यायः।। 33।।