सभापर्व

अध्यायः १००

Sabha Parva (Sanskrit) · Adhyaya 100
अक्षर का आकार

युधिष्ठिर उवाच।।

आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम्।।
राजानं सोमदत्तं च महाराजं च बाह्लिकम्।।

द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च।
विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः।।

सौमदत्तिं महावीर्यं विकर्णं च महामतिम्'।
युयुत्सुं सञ्जयं चैव तथैवान्यान्सभासदः।।

गान्धारीं च महाभागां मातरं च तथा पृथाम्'।
सर्वानामन्त्र्य गच्छामि द्रष्टाऽस्मि पुनरेत्य वः।।

वैशम्पायन उवाच।।

न च किञ्चिदथोचुस्तं ह्रियाऽऽसन्ना युधिष्ठिरम्।
मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः।।

विदुर उवाच।।

आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति।
सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता।।

इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि।
इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः।।

पाण्डवा ऊचुः।

तथेत्युक्त्वाऽब्रुवन्सर्वे यथा नो वदसेऽनघ।
त्वं पितृव्यः पितृसमो वयं च त्वत्परायणाः।।

यथाऽऽज्ञापयसे विद्वंस्त्वं हि नः परमो गुरुः।
यच्चान्यदपि कर्तव्यं तद्विधत्स्व महामते।।

विदुर उवाच।।

युधिष्ठिर विजानीहि ममेदं भरतर्षभ।
नाधर्मेण जितः कश्चिद्व्यथते वै पराजये।।

त्वं वै धर्मं विजानीषे युद्धे जेता धनञ्जयः।
हन्ताऽरीणां भीमसेनो नकुलस्त्वर्थसङ्ग्रही।।

संयन्ता सहदेवस्तु धौम्यो ब्रह्मविदुत्तमः।
धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी।।

अन्योन्यस्य प्रियाः सर्वे तथैव प्रियदर्शनाः।
परैरभेद्याः सन्तुष्टाः को वोन न स्पृहयेदिह।।

एष वै सर्वकल्याणः समाधिस्तव भारत।
नैनं शत्रुर्विषहते शक्रेणापि समोऽप्युत।।

हिमवत्यनुशिष्टोऽसि मेरुसावर्णिना पुरा।
द्वैपायनेन कृष्णेन नगरे वारणावते।।

भृगुतुङ्गे च रामेण दृष्टद्वत्यां च शम्भुना।
अश्रौषीरसि तस्यापि महर्षेरञ्जनं प्रति।।

कल्माषीतीरसंस्थस्य गतस्त्वं शिष्यतां भृगोः।
द्रष्टा सदा नारदस्ते धौम्यस्तेऽयं पुरोहितः।।

माहासीः साम्पराये त्वं बुद्धिं तामृषिपूजिताम्।
पुरूरवसमैलं त्वं बुद्ध्या जयसि पाण्डव।।

शक्त्या जयसि राज्ञोऽन्यानृषीन्धर्गोपसेवया।
ऐन्द्रे जये धृतमना याम्ये कोपविधारणे।।

तथा विसर्गे कौबेरे वारुणे कोपविधारणे।।
आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम्।।

भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात्।
वायोर्बलं प्राप्नुहि त्वं भूतेभ्यश्चात्मसम्पदम्।।

अगदं वोऽस्तु भद्रं वो द्रष्टाऽस्मि पुनरागतान्।
आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः।।

यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर।
आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत।।

कृतार्थं स्वस्मिमन्तं त्वां द्रक्ष्यामः पुनरागतम्।
न हि वो वृजिनं किञ्चिद्वेद कश्चित्पुराकृतम्।।

वैशम्पायन उवाच।।

एवमुक्तस्तथेत्युक्त्वा पाण्डवः सत्यविक्रमः।
भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः।।

।। इति श्रीमन्महाभारते सभापर्वणि
अनुद्यातपर्वणि शततमोऽध्यायः।। 100।।