महाप्रस्थानिकपर्व

अध्यायः ३

Mahaprasthanika Parva (Sanskrit) · Adhyaya 3
अक्षर का आकार

वैशम्पायन उवाच।

ततः सन्नादयञ्शक्रो दिवं भूमिं च सर्वशः।
रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम्।।

स्वभ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः।
अब्रवीच्छोकसंतप्तः सहस्राक्षमिदं वचः।।

भ्रातरः पतिता मेऽत्र गच्छेयुस्ते मया सह।
न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर।।

सुकुमारी सुखार्हा च राजपुत्री पुरंदर।
साऽस्माभिः सह गच्छेत तद्भवाननुमन्यताम्।।

शक्र उवाच।

भ्रातॄन्द्रक्ष्यसि स्वर्गे त्वमग्रतस्त्रिदिवं गतान्।
कृष्णया सहितान्सर्वान्मा शुचो भरतर्षभ।।

निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ।
अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः।।

युधिष्ठिर उवाच।

अयं श्वा भूतभव्येश भक्तो मां नित्यमेव ह।
स गच्छेत मया सार्धमानृशंस्या हि मे मतिः।।

शक्र उवाच।

अमर्त्यत्वं मत्समत्वं च राज-
ञ्श्रियं कृत्स्नां महतीं चैव सिद्धिम्।
संप्राप्तोद्य स्वर्गसुखानि च त्वं
त्यज श्वानं नात्र नृशंसमस्ति।।

युधिष्ठिर उवाच।

अनार्यमार्येणि सहस्रनेत्र
शक्यं कर्तुं दुष्करमेतदार्य।
मा मे श्रिया सङ्गमनं तयाऽस्तु
यस्याः कृते भक्तजनं त्यजेयम्।।

इन्द्र उवाच।

स्वर्गे लोके श्ववतां नास्ति धिष्ण्य-
मिष्टापूर्तं क्रोधवशा हरन्ति।
ततो विचार्यि क्रियतां धर्मराज
त्यज श्वानं नात्र नृशंसमस्ति।

युधिष्ठिर उवाच।

भक्तत्यागं प्राहुरत्यन्तपापं
तुल्यं लोके ब्रह्मवध्याकृतेन।
तस्मान्नाहं जातु कथञ्चनाद्य
त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्रः।।

भीतं भक्तं नान्यदस्तीति चार्तं
प्राप्तं क्षीणं रक्षणे प्राणलिप्सुम्।
प्राणत्यागादप्यहं नैव मोक्तुं
यतेयं वै नित्यमेतद्व्रतं मे।।

इन्द्र उवाच।

शुना दृष्टं क्रोधवशा हरन्ति
यद्दत्तमिष्टं विवृतमथो हुतं च।
तस्माच्छुनस्त्यागमिमं कुरुष्व
शुनस्त्यागात्प्राप्स्यसे देवलोकम्।।

त्यक्त्वा भ्रातॄन्दयितां चापि कृष्णां
प्राप्तो लोकः कर्मणा स्वेन वीर।
श्वानं चैनं न त्यजसे कथं नु
त्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य।।

युधिष्ठिर उवाच।

न विद्यते संधिरथापि विग्रहो
मृतैर्मर्त्यैरिति लोकेषु निष्ठा।
न ते मया जीवयितुं हि शक्या-
स्ततस्त्यागस्तेषु कृतो न जीवताम्।।

प्रतिप्रदानं शरणागतस्य
स्त्रिया वधो ब्राह्मणस्वापहारः।
मित्रद्रोहस्तानि चत्वारि शक्र
भक्तत्यागश्चैव समो मतो मे।।

वैशम्पायन उवाच।

तद्धर्मराजस्य वचो निशम्य
धर्मस्वरूपी भगवानुवाच।
युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं
श्लक्ष्णैर्वाक्यैः संस्तवसंप्रयुक्तैः।।

अभिजातोसि राजेन्द्र पितुर्वृत्तेन मेधया।
अनुक्रोशेनि चानेन सर्वभूतेषु भारत।।

पुरा द्वैतवने चासि मया पुत्र परीक्षितः।
पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः।।

भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ।
मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि।।

अयं श्वा भक्त इत्येवं त्यक्तो देवरथस्त्वया।
तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिपः।।

अतस्तवाक्षया लोकाः स्वशरीरेण भारत।
प्राप्तोसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम्।।

वैशम्पायन उवाच।

ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि।
देवा देवर्षयश्चैव रथमारोप्य पाण्डवम्।।

प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः।
सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः।।

स तं रथं समास्थाय राजा कुरुकुलोद्वहः।
ऊर्ध्वमाचक्रमे शीघ्रं तेजसाऽऽवृत्यरोदसी।।

ततो देवनिकाय्यस्थो नारदः सर्वलोकवित्।
उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः।।

येऽपि राजर्षयः पूर्वे ते चापि समुपस्थिताः।
कीति प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति।।

लोकानावृत्य यशसा तेजसा वृत्तसंपदा।
स्वशरीरेण सम्प्राप्तं नान्यं शुश्रम पाण्डवात्।।

तेजांसि यानि दृष्टानि भूमिष्ठेन त्वया विभो।
वेश्मानि भुवि देवानां पश्यामूनि सहस्रशः।।

नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत्।
भ्रातॄनपश्यन्धर्मात्मा स्वपक्षांश्चैव पार्थिवान्।।

शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे।
तदेव प्राप्तुमिच्छामि लोकान्यान्न कामये।।

राज्ञस्तु वचनं श्रुत्वा देवराजः पुरंदरः।
आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम्।।

स्थानेऽस्मिन्वस राजेन्द्र कर्मभिर्निर्जिते शुभैः।
किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि।।

सिद्धिं प्राप्तोसि परमां यता नान्यः पुमान्क्वचित्।
नैव ते भ्रातरः स्थानं सम्प्राप्ताः कुरुनन्दन।।

अद्यापि मानुषो भावः स्पृशते त्वां नराधिप।
स्वर्गोऽयं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालयान्।।

युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम्।
पुनरेवाब्रवीद्धीमानिदं वचनमर्थवत्।।

तैर्विना नोत्सहे वस्तुमिह दैत्यनिबर्हण।
गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो गताः।।

यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता।
द्रौपदी योषितांश्रेष्ठा यत्र चैव सुता मम।।

।। इति श्रीमन्महाभारते
महाप्रस्थानिकपर्वणि तृतीयोऽध्यायः।। 3 ।।

महाप्रस्थानिकं पर्वं समाप्तम्।। 17 ।।

------------

अतः परं स्वर्गारोहणपर्वः तस्यायमाद्यः श्लोकः।

जनमेजय उवाच।

स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः।

पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे।। 1 ।।

0

इदं महाप्रस्थानिकं पर्व कुंभघोणस्येन
टी.आर्. कृष्णमाचार्येण टी.आर्. व्यासाचार्येण च
मुम्बय्यां निर्णयसागरमुद्रायन्त्रे
मुद्रापितम्। शकाब्दाः 1832 सन 1910.