महाप्रस्थानिकपर्व
अध्यायः १
श्रीवेदव्यासाय नमः।
नारायणं नमस्कृत्यि नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्।।
जनमेजय उवाच।
एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम्।
पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते।।
वैशम्पायन उवाच।
श्रुत्वैवं कौरवो राजा वृष्णीनां कदनं महत्।
प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत्।।
कालः पचति भतानि सर्वाण्येव महामते।
कालपाशमहं मन्ये त्वमपि द्रष्टुमर्हसि।।
इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन्।
अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य धीमतः।।
अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा।
अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना।।
ततो युयुत्सुमानाय्य प्रव्रजन्धर्मकाम्यया।
राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः।।
अभिंषिच्य स्वराज्ये च राजानं च परिक्षितम्।
दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः।।
एष पुत्रस्य पुत्रस्ते कुरुराजो भविष्यति।
यदूनां परिशेषश्च वज्रो राजा कृतश्च ह।।
परिक्षिद्धास्तिनपुरे शक्रप्रस्थे च यादवः।
वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः।।
इत्युक्त्वा धर्मराजाः स वासुदेवस्य धीमतः।
मातुलस्य च वृद्धस्य रामदीनां तथैव च।।
भ्रातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः।
श्राद्धान्यद्दिश्य सर्वेषां चकार विदिवत्तदा।।
द्वैपायनं नारदं च मार्कण्डेयं तपोधनम्।
भारद्वाजं याज्ञवल्क्यं हरिमुद्दिश्य यत्नवान्।
अभोजयत्स्वादु भोज्यं कीर्तयित्वा च शार्ङ्गिणं।।
ददौ रत्नानि वासांसि ग्रामानश्वान्रथांस्तथा।
स्त्रियश्च द्विजमुख्येभ्यस्तदा शतसहस्रशः।।
कृपमभ्यर्च्य च गुरुमथ पौरपुरस्कृतम्।
`आहूय भरतश्रेष्ठ संनिवेश्यासने तदा।'
शिष्यं परिक्षितं तस्मै तदौ भरतसत्तमः।।
ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः।
सर्वमाचष्ट राजर्षिकीर्षितमथात्मनः।।
ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः।
भृशमुद्विग्रमनसो नाभ्यनन्दन्त तद्वचः।।
नैवं कर्तव्यमिति ते तदोचुस्तं जनाधिपम्।
न च राजा तथाऽकार्षीत्कालपर्यायधर्मिवित्।।
ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम्।
गमनाय मतिं चक्रे कृष्णस्य गमनादपि।।
`वर्तमाने विवादे तु वास्तुविक्रयिणं प्रति।
धनेच्छा युगपत्प्राप्ता क्षेत्रतस्वामिभूभृताम्।।
प्राप्तं कलियुगं ज्ञात्वा सहदेवो हसन्निव।
राज्ञस्तु कथयामास धर्मो नष्टस्तु सङ्करः।।
श्रुत्वा तु दुर्मना राजा पर्याप्तं जीवनं मम।'
इति स्म राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः।
उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत।।
भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी।
तथैव जगृहुः सर्वे वल्कलानि नराधिप।।
विधिवत्कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ।
समुत्सृज्याप्सु सर्वेऽग्नीन्प्रतस्थुर्नरपुङ्गवाः।।
ततः प्ररुरुदुः सर्वाः स्त्रिंयो दृष्ट्वा नरोत्तमान्।
प्रस्थितान्द्रौपदीषष्ठान्पुरा द्यूतजितान्यथा।।
हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति।
युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च।
भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः।
आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात्।
पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा।।
न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम्।
न्यवर्तन्त ततः सर्वे नरा नगरवासिनः।।
कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन्।
विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा।।
चित्राङ्गदा ययौ चापि मणलूरपुरं प्रति।
शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन्।।
पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी।
कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः।।
योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः।
अभिजग्मुर्बहून्देसान्सरितः सागरांस्तथा।।
युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम्।
अर्जुनस्तस्य चान्वेव यमौ चापि यथाक्रमम।।
पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा।
द्रौपदी योषितांश्रेष्ठा ययौ भरतसत्तम।
श्वा चैवानुयायावेकः प्रस्थितान्पाण्डवान्वनम्।
क्रमेणि ते ययुर्वीरा लौहित्यं सलिलार्णवम्।।
गाण्डीवं तु धनुर्दिव्यं न मुमोच धनंजयः।
रत्नलोभान्महाराज ते चाक्षय्ये महेषुधी।।
अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः।
मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम्।।
ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत्।
भोभो पाण्डुसुता वीराः पावकं मां निबोधत।।
युधिष्ठिर महाबाहो भीमसेन परंतप।
अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम।।
अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम्।
अर्जुनस्य प्रभावेन तथा नारायणस्य च।।
अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम्।
परित्यज्य वने यातु नानेनार्थोस्ति कश्चन।।
चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि।
गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह।।
वरुणादाहृतं पूर्वं मयैतत्पार्थकारणात्।
गाण्डीवं धनुषां श्रेष्ठं वरुणायैव दीयताम्।।
ततस्ते भ्रातरः सर्वे धनंजयमचोदयन्।
स जले प्राक्षिपच्चैतत्तथाऽक्षय्ये महेषुधी।।
ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत।
ययुस्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः।।
ततस्ते तूत्तरेणैव तीरेण लवणांभसः।
जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमाम्।।
ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते।
ददृशुर्द्वारकां चापि सागरेण परिप्लुताम्।।
उदीचीं पुनरावृत्त्य ययुर्भरतसत्तमाः।
प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः।।
।। इति श्रीमन्महाभारते
महाप्रस्थानिकपर्वणि प्रथमोऽध्यायः।। 1 ।।