कर्णपर्व
अध्यायः ९६
सञ्जय उवाच।
अथाब्रवीच्चक्रधरोऽपि पार्थं
दृष्ट्वा रथेषून्प्रतिहन्यमानान्।
अमूमुषत्पश्यत एव तेऽद्य
ह्यस्त्राणि कर्णोऽस्त्रगणैः किरीटिन्।।
स पार्थ किं मुह्यसि वेत्सि चैव ता--
न्दृष्ट्वा समेतान्नदतः कुरूस्त्वम्।
कर्णं पुरस्कृत्य विदुर्हि सर्वे
तवास्त्रमस्त्रैर्विनिहन्यमानम्।।
पार्थाहवे त्यक्तुमस्त्रं समर्थः।।
अनेन चाशु क्षुरनेमिनाद्य
मया विसृष्टेन सुदर्शनेन।
छिन्ध्यस्य मूर्धानमरेः प्रसह्य
वज्रेण शक्रो नमुचेरिवारेः।।
किरातरूपी भगवान्यया च
त्वया महात्मा परितोषितोऽभूत्।
स तां पुनर्वीर धृतिं गृहीत्वा
सहानुबन्धं जहि सूतपुत्रम्।।
ततो महीं सागरमेखलां त्वं
सपत्तगा ग्रामवतीं समृद्धाम्।
प्रयच्छ राज्ञे निहतारिसङ्घां
यशश्च पार्थातुलमाप्नुहि त्वम्।।
त्वां चापि दृष्ट्वा परिहीयमानम्।।
सञ्जय उवाच।
सञ्चोदितो भीमजनार्दनाभ्यां
स्मृत्वा तदात्मानमवेत्य सर्वम्।
इहात्मनश्चागमने विदित्वा
प्रयोजनं केशवमित्युवाच।।
प्रादुष्करोभ्येष महास्त्रमुग्रं
शिवाय लोकस्य वधाय सौतेः।
तन्मेऽनुजानातु भवान्सुराश्च
ब्रह्मा शिवो ब्रह्मविदश्च सर्वे।।
इति स्मोक्त्वा पाण्डवः सव्यसाची
नमस्कृत्वा ब्रह्मणे सोऽमितात्मा।
अनुत्तमं ब्राह्ममसह्यमस्त्रं
प्रादुश्चक्रे मनसा यद्विधेयम्।।
ततो दिशश्च प्रदिशश्च सर्वाः
समावृणोत्सायकैर्भूरितेजाः।
गाण्डीवमुक्तैर्भुजगैरिवोग्रै--
र्दिवाकरांशुप्रतिमैर्ज्वलद्भिः।।
सृष्टास्तु बाणा भरतर्षभेण
शतं शतं भीममुखाः सुतीक्ष्णाः।
प्राच्छादयन्कर्णरथं क्षणेन
युगान्तकालार्ककरप्रकाशाः।।
वैकर्तनेनाशु तदाजिमध्ये
सहस्रशो बाणगणा विसृष्टाः।
ते चाक्षयाः पाण्डवमभ्युपेयुः
पर्जन्यसृष्टा इव वारिधाराः।।
ततः स कृष्णं च किरीटिनं च
वृकोदरं चाप्रतिमप्रभावः।
त्रिभिस्त्रिभिर्भीमबलो निहत्य
ननाद घोरं महता स्वनेन।।
ततः स बाणाभिहतः किरीटी
भीमं तथा प्रेक्ष्य जनार्दनं च।
अमृष्यमाणः पुनरेव पार्थः
शरान्दशाष्टौ सममुद्ववर्ष।।
स केतुमेकेन शरेण विद्ध्वा
शल्यं चतुर्भिस्त्रिभिरेव कर्णम्।
ततः सुमुक्तैर्दशभिर्जघान
सेनापतिं काञ्चनवर्मनद्वम्।।
स राजपुत्रो विशिरा विबाहु--
र्विवाजिसूतो विधनुर्विकेतुः।
अथो रथाग्रादपतत्प्ररुग्णः
परश्वथैः साल इवावकृत्तः।।
नष्टौ सहस्राणि च पत्तिवीरान्।।
दृष्ट्वा तु मुख्यावतिविध्यमानौ
वरेषुभिः शूरवरावरिघ्नौ।
कर्णं च पार्थं च नियम्य वाहा-
न्सर्वे वरिष्ठाश्च ततोऽवतस्थुः।।
प्रच्छादयामास ततः पृषत्कैः
सघोषमाच्छिद्य च गाण्डिवज्याम्।
अस्मिन्क्षणे फल्गुनं सूतपुत्रः
समाचिनोत्क्षुद्रकाणां शतेन।।
निर्मुक्तसर्पप्रतिमैश्च तीक्ष्णै--
स्तैलप्रघौतैः खगपत्रवाजैः।
षष्ट्या बिभेदाशु च वासुदेवं
तदन्तरे प्रात्वरन्सोमकाश्च।।
ततो नवज्यां सुदृढां किरीटि
स्वबाहुविक्षेपसहां प्रगृह्य।
समादधे गाण्डिवे क्षिप्रकारी
निमेषमात्रेण महाधनुष्मान्।।
ज्याछेदनं ज्याविधानं च तस्य
नैवावबुध्यत्सूतपुत्रो लघुत्वात्।
पार्थस्य सङ्ख्ये द्विषतां निहन्तु--
स्तदद्भुतं तत्र बभूव राजन्।।
पार्थोऽपि तां ज्यामवधाय तूर्णं
शरासनज्यामाधिरथेर्विहत्य।
सुसंरब्धः कर्णशरैः क्षताङ्गो
रणे योधांस्तावकान्प्रत्यगृह्णात्।।
नैवापत्पक्षिगणोऽन्तरिक्षे
पार्थेन चास्त्रेण कृतेऽन्धकारे।।
शल्यं तु पार्थो दशभिर्निमेषा--
द्भृशं तनुत्रे प्रहसन्नविध्यत्।
ततः कर्णं द्वादशभिः पृषत्कै--
र्विद्ध्वा पुनः सप्तभिरप्यविध्यत्।।
स पार्थबाणासनवेगनुन्नै--
र्दृढाहतः पत्रिभिरुग्रवेगैः।
विभिन्नगात्रः क्षतजोक्षिताङ्गः
कर्णो बभौ रुद्र इवान्तकाले।।
ततस्त्रिभिस्तं त्रिदशाधिपोपमं
शरैर्बिभेदाधिरथिर्धनञ्जयम्।
शरांश्च पञ्च ज्वलनानिवोरगा--
न्प्रवेशयामास जिघांसुरच्युते।।
सुवर्णचित्रं पुरुषोत्तमस्य
वर्माथ भित्त्वाभ्यपतन्सुपुङ्खाः।
वेगेन गां ते विविशुश्च राज--
न्स्नात्वा कर्णाऽभिमुखाः प्रतीयुः।।
तान्पञ्चभल्लैर्दशभिः सुमुक्तै--
स्त्रिधात्रिधैकैकमथोच्चकर्त।
धनञ्जयस्ते न्यपतन्पृथिव्यां
यथाऽहयस्तार्क्ष्यमुखेन कृत्ताः।।
द्धैर्यात्तुं तस्थावतिमात्रधैर्यः।।
प्रादुश्चकाराथ शरान्महात्मा
देहं विचिन्वन्निव सूतजस्य।
शरास्तु ते काञ्चनचित्रपुङ्खाः
सम्पेतुरुर्व्यां शतशो महान्तः।।
ततः शरौघैः प्रदिशो दिशश्च
रविप्रभाः कर्णरथश्च राजन्।
अदृश्य आसीत्कुपिते धनञ्जये
तुषारनीहारवृतो गिरिर्यथा।।
सचक्ररक्षा अपि पृष्ठगोपाः
कर्णस्य ये चापि पुरःसराश्च।
भीता द्रवन्ति स्म निहन्यमाना
महेषुभिः पार्थकरप्रणुन्नैः।।
ततोऽर्जुनो वै भरतप्रवीरो
महानुभावः समरे निहन्ता।
सुयोधनेनानुमतान्विनिघ्न--
न्समुच्छ्रितान्सरथान्सारभूतान्।।
गाण्डीवधन्वा द्विगुणं सहस्रं
कुरुप्रवीरानृषभः कुरूणाम्।
क्षणेन सर्वान्सरथान्ससूता--
न्निनाय राजन्क्षयमेकवीरः।।
अथो पलायन्त विहाय कर्णं
तवात्मजा ये कुरवश्च शिष्टाः।
एतानवाकीर्य शरक्षतांश्च
विलप्यमानांस्तनयान्विमृद्गन्।।
सर्वे प्रणेशुः कुरवो विभग्नाः
पार्थेषुभिः सम्परितप्यमानाः।
सुयोधनेनाथ पुनर्वरिष्ठाः
प्रचोदिताः कर्णरथानुयाने।।
भोः क्षत्रियाः शूरतमास्तु सर्वे
क्षत्रे च धर्मे निरताः स्थ यूयम्।
न युक्तरूपं भवतां समीपा--
त्पलायनं कर्णमतिप्रहाय।।
तवात्मजेनापि तथोच्यमाना
नैवावतिष्ठन्त भयाद्विवर्णाः।
क्षणेन नष्टाः प्रदिशो दिशश्च
सर्वे ततः प्रेक्ष्य दिशो विशून्याः।।
भयावदीर्णः कुरुभिर्विहीनः
पार्थेषुभिः सम्परितप्यमानः।
न विव्यधे भारत तत्र कर्णः
प्रतीपमेवार्जुनमभ्यधावत्।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे षण्णवतितमोऽध्यायः।। 96 ।।