कर्णपर्व
अध्यायः ८०
सञ्जय उवाच।
र्नयाम्येतान्धार्तराष्ट्रान्यमाय।।
सञ्चोदितो भीमसेनेन चैवं
स सारथिः पुत्रबलं त्वदीयम्।
प्रायात्ततः सत्वरमुग्रवेगो
यतो भीमस्तद्बलं गन्तुमैच्छत्।।
ततोऽपरे नागरथाश्वपत्तिभिः
प्रत्युद्ययुस्तं कुरवः समन्तात्।
भीमस्य वाहाग्र्यमुदारवेगं
समन्ततो बाणगणैर्निजघ्नुः।।
ततः शरानापततो महात्मा
चिच्छेद बाणैस्तपीनयपुङ्खैः।
ते वै निपेतुस्तपनीयपुङ्खा
द्विधा त्रिधा भीमशरैर्निकृत्ताः।।
ततो राजन्नागरथाश्वयूनां
भीमाहतानां वरराजमध्ये।
घोरो निनादः सुमहानभूत्तदा
वज्राहतानामिव पर्वतानाम्।।
ते वध्यमानाश्च नरेन्द्रमुख्या
निर्भिद्यन्तो भीमशरप्रवेकैः।
भीमं समन्तात्समरेऽभ्यरोहन्
वृक्षं शकुन्ता इव पुष्पहेतोः।।
ततोऽभियाते तव सैन्ये स भीमः
प्रादुश्चक्रे वेगमनन्तवेगः।
यथाऽन्तकाले क्षपयन्दिधक्षु--
र्भूतान्तकृत्काल इवात्तदण्डः।।
तस्यातिवेगस्य रणेऽतिवेगं
नाशक्नुवन्धारयितुं त्वदीयाः।
व्यात्ताननस्यापततो यथैव
कालस्य काले हरतः प्रजा वै।।
ततो बलं भारत भारतानां
प्रदह्यमानं समरे महात्मना।
भीतं दिशोऽकीर्यत भीमनुन्नं
महानिलेनाभ्रगणा यथैव।।
ततो धीमान्सारथिमब्रवीद्बली
स भीमसेनः पुनरेव हृष्टः।।
सूताभिजानीहि परान्स्वकान्वा
रथान्ध्वजांश्चापततः समेतान्।
युध्यन्ह्यहं नाभिजानामि किञ्चि--
न्मा सैन्यं स्वं छादयिष्ये प्रमत्तः।।
अरीन्विशोकान्हि निरीक्ष्य सर्वतो
महांश्च मन्युः पुनरेति मां भृशम्।
राजातुरो नागमद्यत्किरीटी
बहूनि दुःखान्यभिचिन्तयामि।।
एतद्दुःखं धारये धर्मराजो
यन्मां हित्वा यातवाञ्शत्रुमध्ये।
नैनं जीवं नाभिजानाम्यजीवं
बीभत्सुं वा तन्ममाद्यातिदुःखम्।।
सोऽहं द्विषत्सैन्यमुदग्रकल्पं
विनाशयिष्ये परमप्रतीतः।
एतन्निहत्याजिमध्ये समेतं
प्रीतो भविष्यामि सह त्वयाद्य।।
ह्याचक्ष्व मे सारथे क्षिप्रमेव।।
विशोक उवाच।
सर्वं विदित्वैवमहं वदामि
तवार्थसिद्धिप्रदमद्य वीर।
कैकेयकाम्भोजसुराष्ट्रबाह्लिका
म्लेच्छाश्च सुह्माः परतङ्कणाश्च।
मद्राश्च वङ्गा मगधाः कुणिन्दा
आनर्तकावर्तकाः पार्वतीयाः।
सर्वे गृहीतप्रवरायुधास्त्वां
संवेष्ट्य संवेष्ट्य ततो विवेदुः।।
रथे तवास्मिन्निशिताः सुपीता--
स्ततो भल्ला द्वादश वै सहस्राः'।
षण्मार्गणानामयुतानि वीर
क्षुराश्च भल्लाश्च तथायुताख्याः।।
नाराचानां द्वे सहस्रे च वीर
त्रीण्येप च प्रदराणां स्म पार्थ।
अस्त्यायुधं पाण्डवेयावशिष्टं
न यद्वहेच्छकटं षङ्गवीयम्।।
एतद्विद्वन्मुञ्च सहस्रशोऽपि
गदासिबाहुद्रविणं च तेऽस्ति।
प्रासाश्च मुद्रराः शक्तयस्तोमराश्च
माभैषीस्त्वं संक्षयादायुधानाम्।।
भीमसेन उवाच।
तन्मे देवाः सकलं साधयन्तु।।'
सूताद्य मद्बाहुयुतैः समस्ता--
न्समाहनद्भिः पार्थिवानाशुवेगैः।
च्छन्नं बाणैराहवं घोररूपं
नष्टादित्यं मृत्युलोकेन तुल्यम्।।
अद्यैतद्यै विदितं पार्थिवानां
भविष्यति ह्याकुमारं च सूत।
निमग्नो वा समरे भीमसेन
एकः कुरून्वा समरे व्यजैषीत्।।
सर्वे सङ्ख्ये कुरवो निष्पतन्तु
मां वा लोकाः कीर्तयन्त्वाकुमारम्।
सर्वानेकस्तानहं पातयिष्ये
ते वा सर्वे भीमसेनं तुदन्तु।।
आशास्तारः कर्म चाप्युत्तमं ये
तन्मे देवाः सफलं साधयन्तु।
आयातीह केशवसारथी रथी
शक्रस्तूर्णं यज्ञ इवोपहूतः।।
ईक्षस्वैतां भारतीं दीर्यमाणा--
मेते कस्माद्विद्रवन्ते नरेन्द्राः।
व्यक्तं धीमान्सव्यसाची नराग्र्यः
सैन्यं ह्येतच्छादयत्याशु बाणैः।।
पश्य ध्वजांश्च द्रवतो विशोक
नागान्हयान्पत्तिसङ्घांश्च सङ्ख्ये।
रथान्विकीर्णाञ्शरशक्तिताडिता--
न्पश्यस्वैतान्रथिनश्चैव सूत।।
आपूर्यते कौरवी चाप्यभीक्ष्णं
सेना ह्यसौ सुभृशं हन्यमाना।
धनञ्जयस्याशनितुल्यवेगै--
र्ग्रस्ता शरैः काञ्चनबर्हजालैः।।
एते द्रवन्ति स्म रथाश्वनागाः
पदातिसङ्घानतिमर्दयन्तः।
सम्मुह्यमानाः कौरवाः सर्व एव
द्रवन्ति नागा इव दाहभीताः।।
हाहाकृताश्चैव रणे विशोक
मुञ्चन्ति नादान्विपुलान्गजेन्द्राः।।
विशोक उवाच।
किं भीम नैनं त्वमिहाशृणोषि
विस्फारितं गाण्डिवस्यातिघोरम्।
क्रुद्धेन पार्थेन विकृष्यतोऽद्य
कच्चिन्नेमौ तव कर्णौ विनष्टौ।।
सर्वे कामाः पाण्डव ते समृद्धाः
कपिर्ह्यसौ दृश्यते हस्तिसैन्ये।
नीलाद्धनाद्विद्युतमुच्चरन्तीं
तथा पश्य विस्फुरन्तीं धनुर्ज्याम्।।
कपिर्ह्यसौ वीक्षते सर्वतो वै
ध्वजाग्रमारुह्य धनञ्जयस्य।
वित्रासयन्रि पुसङ्घान्विमर्दे
बिभेम्यस्मादात्मनैवाभिवीक्ष्य।।
विभ्राजते चातिमात्रं किरीटं
विचित्रमेतच्च धनञ्जयस्य।
दिवाकराभो मणिरेष दिव्यो
विभ्राजते चैव किरीटसंस्थः।।
पार्श्वे भीमं पाण्डुराभ्रप्रकाशं
पश्यस्व सङ्खं देवदत्तं सुघोषम्।
अभीषुहस्तस्य जनार्दनस्य
विगाहमानस्य चमूं परेषाम्।।
रविप्रभं वज्रनाभं क्षुरान्तं
पार्श्वे स्थितं पश्य जनार्दनस्य।
चक्रं यशोवर्धनं केशवस्य
सदार्चितं यदिभिः पश्य वीर।।
महाद्विपानां सरलद्रुमोपमाः
करा निकृत्ताः प्रपतन्त्यमी क्षुरैः।
किरीटिना तेन पुनः ससादिनः
शरैर्निकृत्ताः कुलिशैरिवाद्रयः।।
तथैव कृष्णस्य च पाञ्चजन्यं
महार्हमेतं द्विजराजवर्णम्।
कौन्तेय पश्योरसि कौस्तुभं च
जाज्वल्यमानं विजयां स्रजं च।।
ध्रवं रथाग्र्यः समुपैति पार्थो
विद्रावयन्सैन्यमिदं परेषाम्।
सिताभ्रवर्णैरसितप्रयुक्तै--
र्हयैर्महार्है रथिनां वरिष्ठः।।
रथान्हयान्पत्तिगणांश्च सायकै--
र्विदारितान्पश्य पतन्त्यमी यथा।
तवानुजेनामरराजतेजसा
महावनानीव सुपर्णवायुना।।
चतुः शतान्पश्य रथानिमान्हतान्
सवाजिसूतान्समरे किरीटिना।
महेषुभिः सप्तशतानि दन्तिनां
पदातिसादींश्च रथाननेकशः।।
अयं समभ्येति तवान्तिकं बली
निघ्नन्कुरूंश्चित्र इव ग्रहोऽर्जुनः।
समृद्धकामोऽसि हतास्तवाहिता
बलं तवायुश्च चिराय वर्धताम्।।
भीमसेन उवाच।
ददानि ते ग्रामवरांश्चतुर्दश
प्रियाख्याने सारथे सुप्रसन्नः।
दासीशतं चापि रथांश्च विंशतिं
यदर्जुनं वेदयसे विशोक।।
।। इति श्रीमन्महाभारते
कर्णपर्वणि सप्तदशदिवसयुद्धे
अशीतितमोऽध्यायः।। 80 ।।