कर्णपर्व

अध्यायः ७८

Karna Parva (Sanskrit) · Adhyaya 78
अक्षर का आकार

[धृतराष्ट्र उवाच।

समागमे पाण्डवसृञ्जयानां
महाभये मामकानामगाधे।
धनञ्जये तात रणाय याते
कर्णेन तद्युद्वमथोऽत्र कीदृक्।।]

सञ्जय उवाच।

तेषामनीकानि महाध्वजानि
रणे समृद्धानि सुसङ्गतानि।
भेरीनिरादोन्मुखराण्यंगर्ज--
न्मेघा इव प्रावृषि मारुतास्ताः।।

महागजाभ्राकुलमस्त्रतोयं
वादित्रनेमीतलशब्दवच्च।
हिरण्यचित्रायुधविद्युतं च
शरासिनाराचमहास्त्रधारम्।।

तद्भीमवेगं रुधिरौघवाहि
खङ्गाकुलं क्षत्रियजीवघाति।
अनार्तवं क्रूरमनिष्टवर्षं
बभूव संरम्भकरं प्रजानाम्।।

एकं रथं सम्परिवार्य मृत्युं
नयन्त्यनेके च रथाः समेताः।
एकस्तथैकं रथिनं रथाग्र्यां--
स्तथा रथश्चापि रथाननेकान्।।

रथं ससूतं सहयं च कञ्चि--
त्कश्चिद्रती मृत्युवशं निनाय।
निनाय चाप्येकगजेन कश्चि--
द्रथान्बहून्मृत्युवशे तथाश्वान्।।

रथान्ससूतान्सहयान्गजांश्च
सर्वानरीन्मृत्युवशं शरौघैः।
निन्ये हयांश्चैव तथा ससादी--
न्पदातिसङ्घांश्च तथैव पार्थः।।

कृपः शिखण्डी च रणे समेतौ
दुर्योधनं सात्यकिरध्यगच्छत्।
श्रुतश्रवा द्रोणपुत्रेण सार्धं
युधामन्युश्चित्रसेनेन सार्धम्।।

कर्णस्य पुत्रं तु रथी सुषेणं
समागतं सृञ्जयश्चोत्तमौजाः।
गान्धारराजं सहदेवोऽक्षधूर्तं
महर्षभं सिंह इवाभ्यधावत्।।

शतानीको नाकुलिः कर्णपुत्रं
युवा युवानं वृषसेनं शरौघैः।
समार्पयत्कर्णपुत्रश्च शूरः
पाञ्चालेयं शरवर्षैरनेकैः।।

रथर्षभः कृतवर्माणभार्च्छ--
न्माद्रीपुत्रो नकुलश्चित्रयोधी।
पाञ्चालानामधिपो याज्ञसेनिः
सेनापतिः कर्णमार्च्छत्ससैन्यम्।।

दुःशासनो भारत भारतं तु
व्यात्ताननं क्रूरमिवान्तकाभम्।
भीमं रणे शस्त्रभृतां वरिष्ठं
भीमं समार्च्छत्तमसह्यवेगम्।।

कर्णात्मजं तत्र जघान वीर--
स्तथाच्छिनच्चोत्तमौजाः प्रसह्य।
तस्योत्तमाङ्गं निपपात भूमौ
निनादयद्गां निनदेन खं च।।

सुषेणशीर्षं पतितं पृथिव्यां
विलोक्य कर्णोऽथ तदार्तरूपः।
क्रोधाद्धयांस्तस्य रथं ध्वजं च
बाणैः सुधारैर्निशितैरकृन्तत्।।

स तूत्तमौजा निशितैः पृषत्कै--
र्विव्याध खङ्गेन च भास्वरेण।
पार्ष्णिग्रहांश्चैव कृपस्य हत्वा
शिखण्डिवाहं स ततोऽध्यरोहत्।।

कृपं तु दृष्ट्वा विरथं रथस्थो
नैच्छच्छरैस्ताडयितुं शिखण्डी।
तं द्रौणिरावार्य रथं कृपस्य
समुज्जहे पङ्कगतां यथा गाम्।।

हिरण्यवर्मा निशितैः पृषत्कै--
स्तवात्मजानामनिलात्मजो वै।
अतापयत्सैन्यमतीव भीमः
काले शुचौ मध्यगतो यथाऽर्कः।।

।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे एकोनाशीतितमोऽध्यायः।। 79 ।।