कर्णपर्व
अध्यायः ७६
सञ्जय उवाच।
प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना।
सम्पूज्य देवताः सर्व ब्राह्मणान्स्वस्ति वाच्य च।
सुमङ्गलं स्वस्त्ययनमारुरोह रथोत्तमम्।।
तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः।
आशिषोऽयुङ्क्त परमाः युक्तं कर्णरथं प्रति।।
तमायान्तं महेष्वासं दृष्ट्वा भूतानि भारत।
निहतं मेनिरे कर्णं पाण्डवेन महात्मना।।
बभूवुर्विमलाः सर्वा दिशो राजन्समन्ततः।
चाषाश्च शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर।
प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम्।।
बहवः पक्षिणो राजन्पुन्नामानः शुभाः शिवाः।
त्वरयन्तोऽर्जुनं युद्धे हृष्टरूपा ववाशिरे।।
कङ्का गृध्रा बकाः श्येना वायसाश्च विशाम्पते।
अग्रतस्तस्य गच्छन्ति भक्ष्यहेतोर्भयानकाः।।
निमित्तानि च धन्यानि पाण्डवस्य शशंसिरे।
विनाशमरिसैन्यानां कर्णस्य च वधं तथा।।
प्रयातस्याथ पार्थस्य महान्स्वेदो व्यजायत।
चिन्ता च विपुला जज्ञे कथं चेदं भविष्यति।।
विषण्णं तु ततो ज्ञात्वा सव्यसाचिनमच्युतः।
सञ्चोदयति तेजस्वी मधुहा वानरध्वजम्।।
ततो गाण्डीवधन्वानमब्रवीन्मधुसूदनः।
दृष्ट्वा पार्थं तथायान्तं चिन्तापरिगतं तदा।।
गाण्डीवधन्वन्सङ्ग्रामे ये त्वया धनुषा जिताः।
न तेषां मानुषो जेता त्वदन्य इह विद्यते।।
एते हि बहवः शूराः शक्रतुल्यपराक्रमाः।
त्वां प्राप्य समरे शूरं प्रयाताः परमां गतिम्।।
को हि द्रोणं च भीष्मं च भगदत्तं च मारिष।
विन्दानुविन्दावावन्त्यौ काम्भोजं च सुदक्षिणम्।।
श्रुतायुं चाश्रुतायुं च शतायुं च महारथम्।
प्रत्युद्गम्य भवेत्क्षेमी यो न स्यात्त्वद्विधः प्रभुः।।
तव ह्यस्त्राणि दिव्यानि लाघवं बलमेव च।
असम्मोहश्च युद्धेषु विज्ञानस्य च सन्नतिः।
वेधः पातश्च लक्षेषु योगश्चैव तथार्जुन।।
भवान्देवान्सगन्धर्वान्हन्यात्सर्वांश्च राक्षसान्।
पृथिव्यां तु रणे पार्थ न योद्धा त्वत्समः पुमान्।।
धनुर्गृह्मन्ति ये केचित्क्षत्रिया युद्धदुर्मदाः।
आत्मनस्तु समं तेषां न पश्यामि शृणोमि च।।
ब्रह्मणा हि प्रजाः सृष्टा गाण्डीवं च महद्धनुः।
येन त्वं युध्यसे पार्थ तस्मान्नास्ति त्वया समः।।
अवश्यं तु मया वाच्यं यत्पथ्यं तव पाण्डव।
मावमंस्था महाबाहो कर्णमाहवशोभिनम्।।
कर्णो हि बलवान्दृप्तः कृतास्त्रश्च महारथः।
कृती च चित्रयोधी च देशकालस्य कोविदः।।
बहुनात्र किमुक्तेन संक्षेपाच्छृणु पाण्डव।
त्वत्समं त्वद्विशिष्टं वा कर्णं मन्ये महारथम्।
परमं यत्नमास्थाय त्वया वध्यो महाहवे।।
तेजसा वह्निसदृशो वायुवेगसमो जवे।
अन्तकप्रतिमः क्रोधे सिंहसंहननो बली।।
अष्टरत्निर्महाबाहुर्व्यूढोरस्कः सुदुर्जयः।
अभिमानी च शूरश्च प्रवीरः प्रियदर्शनः।।
सर्वयोधगुणैर्युक्तो मित्राणामभयङ्करः।
सततं पाण्डवद्वेषी धार्तराष्ट्रहिते रतः।।
सर्वैरवध्यो राधेयो देवैरपि सवासवैः।
ऋते त्वामिति मे बुद्धिस्तदद्य जहि सूतजम्।।
देवैरपि हि संयत्तैर्बिभ्रद्भिर्मांसशोणितम्।
अशक्यः स रथो जेतुं सर्वैरपि युयुत्सुभिः।।
दुरात्मानं पापवृत्तं नृशंसं
दुष्टप्रज्ञं पाण्डवेयेषु नित्यम्।
हीनस्वार्थं पाण्डवेयैर्विरोधे
हत्वा कर्णं निश्चितार्थो भवाद्य।।
तं सूतपुत्रं रथिनां वरिष्ठं
निष्कालिकं कालवशं नयाद्य।
तं सूतपुत्रं रथिनां वरिष्ठं
हत्वा प्रीतिं धर्मराजे कुरुष्व।।
जानामि ते पार्थं वीर्यं यथाव--
द्दुर्वारणीयं च सुरासुरैश्च।
सदावजानाति हि पाण्डुपुत्रा--
नसौ दर्पात्सूतपुत्रो दुरात्मा।।
आत्मानं मन्यते वीरं येन पापः सुयोधनः।
तमद्य मूलं पापानां जहि सौतिं धनञ्जय।।
खङ्गजिह्वं धनुरास्यं शरदंष्ट्रं तरस्विनम्।
दृप्तं पुरुषशार्दूलं जहि कर्णं धनञ्जय।।
अहं त्वामनुजानामि वीर्येण च बलेन च।
जहि कर्णं रणे शूरं मातङ्गमिव केसरी।।
यस्य वीर्येण वीर्यं ते धार्तराष्ट्रोऽवमन्यते।
तमद्य पार्थ सङ्ग्रामे कर्णं वैकर्तनं जहि।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे षट्सप्ततितमोऽध्यायः।। 76 ।।