कर्णपर्व
अध्यायः ७०
सञ्जय उवाच।
तद्धर्मशीलस्य वचो निशम्य
राज्ञः क्रुद्धस्यातिरथो महात्मा।
उवाच दुर्मर्षमदीनसत्वो
युधिष्ठिरं जिष्णुरनन्तवीर्यः।।
द्रोणं हतं पार्थ कर्णो विदित्वा
भिन्नां नावविमावत्यगाधे कुरूणाम्।
सम्मुह्यमानान्धार्तराष्ट्रान्विदित्वा
निरुत्साहांश्च विजये परेषाम्।।
सोदर्यवत्त्वरितोऽमितौजा
उत्तारयिष्यन्धृतराष्ट्रस्य पुत्रान्।
रणे रथेनाधिरथिर्महात्मा
ततो हि मां त्वरितः सोऽभ्यधावत्।।
संशप्तकैर्युध्यमानस्य मेऽद्य
सेनाग्रयायी कुरुसैन्यस्य राजन्।
आशीविषाभान्विकिरञ्शरौघा--
न्द्रौणिः पुरस्तात्सहसाध्यतिष्ठत्।।
स मे दृष्ट्वा शूरतमो ध्वजाग्रं
समादिशद्रथसङ्घाननेकान्।
तेषामहं पञ्चशतं निहत्य
आसादयं द्रोणपुत्रं नदन्तम्।।
स द्रोणपुत्रः सदृशं महात्मा
मामप्यरौत्सीत्तदनीकमध्ये।
किरञ्शरौघान्बहुरूपान्विचित्रा--
न्स्वातीगतः शुक्र इवातिवर्षन्।।
स मे रान्सर्वतः कङ्कपत्रा--
नवासृजद्वै पृथिवीप्रकाशान्।
निवार्य तूर्णं परमाजिमध्ये
ततोऽपि मां बाणगणैः समार्पयत्।।
आकर्षणं वापि विकृष्य मुक्तं
न दृश्यते तस्य महारथस्य।
न सन्दधानः कुत आददानो
न व्याक्षिपन्न विकर्षन्विमुञ्चन्।।
सव्येन वा यदि वा दक्षिणेन
न ज्ञायते कतरेणास्यतीति।
आचार्यवत्समरे पर्यवर्त--
न्महच्चित्रं दर्शयन्सर्वतः स्म।।
दृष्ट्वीविषं चासुहरं परेषां
सर्वा दिशः पूरयानं शरौधैः।
अलातचक्रप्रतिमं महात्मनः
सदा नतं कार्मुकं ब्रह्मबन्धोः।।
ततोऽपरान्बाणगणाननेका--
नाकर्णपूर्णायतविप्रमुक्तान्।
ससर्ज शीघ्रास्त्रबलेन वीर--
स्तोयं यथा प्रावृषि कालमेघः।।
आविध्यन्मां पञ्चभिद्रोणपुत्रः
शितैः शरैः पञ्चभिर्वासुदेवम्।
अभ्यघ्नं बाणैस्तमहं सुधारै--
र्निमेषमात्रेण सुवर्णपुङ्खैः।।
स निर्विद्धो विरथो द्रोणपुत्रो
रथानीकं चाधिरथेर्विवेश।
मयाभिभूतान्स्वरथप्रबर्हा--
नस्त्रं च पश्यन्रुधिरप्रदिग्धम्।।
ततोऽभिभूतं युधि वीक्ष्य सैन्यं
विध्वस्तयोधं द्रुतनागयूथम्।
पञ्चाशता रथमुख्यैः समेतः
कर्णस्त्वरन्नभ्यपतत्प्रमाथी।।
तान्सूदयित्वाऽहमपास्य कर्णं
द्रष्टुं भवन्तं त्वरयोपयातः।
सर्वे पाञ्चाला ह्युद्विजन्ते स्म कर्णं
दृष्ट्वा गावः केसरिणं यथैव।।
मृत्योरास्यं व्यात्तमिवाभिपद्य
प्रभद्रकाः कर्णमासाद्य सर्वे।
यास्यामि तांस्तारयिष्यन्बलौघा--
द्दिष्ट्या भवान्स्वस्तिमान्पार्थ दृष्टः।।
हनिष्येऽहं भारत सूतपुत्र--
मस्मिन्सङ्ग्रामे यदि दृश्यतेऽद्य।
आयाहि पश्याद्य युयुत्समानौ
मां सूतपुत्रं च धृतौ रणाय।।
महाझषस्येव मुखं प्रपन्नाः
प्रभद्रकाः कर्णमुखं प्रपन्नाः।
षट्साहस्रा भारत राजपुत्राः
स्वर्गाय लोकाय रणे निमग्नाः।।
तानद्य यास्यामि रणाद्विमोक्तुं
सर्वात्मना सूतपुत्रं च हन्तुम्।।
अथ प्रवीरेण महानुभाव
द्विषत्सैन्यं निर्दहन्विस्तरेण।
समेत्याहं सूतपुत्रेण सङ्ख्ये
वज्रीव वृत्रेण नरेन्द्रमुख्य।।
एवं गते किञ्च मयाऽद्य शक्यं
कार्यं कर्तुं निग्रहे सूतजस्य।
तथैव राज्ञश्च सुयोधनस्य
ये चापि मां योद्धुकामाः समेताः।।
कर्णं न चेदद्य निहन्मि राज--
न्सबान्धवं युध्यमानं प्रसह्य।
प्रतिश्रुत्याऽकुर्वतां या गतिर्वै
कष्टां यायां तामहं राजसिंह।।
आमन्त्रये त्वां ब्रूहि रणे जयं मे
पुरा भीमं धार्तराष्ट्रा ग्रसन्ति।
सौतिं हनिष्यामि नरेन्द्रसिंह
सैन्यं तथा शत्रुगणांश्च सर्वान्।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे सप्ततितमोऽध्यायः।। 70 ।।