कर्णपर्व
अध्यायः ५३
सञ्जय उवाच।
ततः समभवद्युद्धं शुक्राङ्गिरसवर्चसोः।
नक्षत्रमभितो व्योम्नि शुक्राङ्गिरसयोरिव।।
सन्तापयन्तावन्योन्यं दीप्तैः शरगभस्तिभिः।
लोकत्रासकरावास्तां विमार्गस्थौ ग्रहाविव।।
ततोऽविध्यद्धुवोर्मध्ये नाराचैरर्जुनो भृशम्।
स तेन विबभौ द्रौणिरूर्ध्वरश्मिर्यथा रविः।।
अथ कृष्णौ शरशतैरश्वत्थाम्नाऽर्दितौ भृशम्।
स्वरश्मिजालविकचौ युगान्तार्काविवासुतः।।
ततोऽर्जुनः सर्वतोधारमस्त्र--
मवासृजद्वासुदेवेऽभिभूते।
द्रौणायनिश्चाभ्यहनत्पृषत्कै--
र्वज्राग्निवैवस्वतदण्डकल्पैः।।
स केशवं चार्जुनं चातितेजा
विव्याध मर्मस्वतिरौद्रकर्मा।
बाणैः सुमुक्तैरतितीव्रवेगै--
र्यैराहतो मृत्युरपि व्यथेत।।
द्रौणेरिषूनिषुभिः सन्निवार्य
व्यायच्छतस्तद्द्विगुणैः सुपुङ्खैः।
तं साश्वसूतध्वजमेकवीर--
मावृत्य संशप्तकसैन्यमार्च्छत्।।
धनूंषि बाणानिषुधीर्धनुर्ज्याः
पाणीन्भुजान्पाणिगतं च शस्त्रम्।
छत्राणि केतूंस्तुरगान्रथेषां
वस्त्राणि माल्यान्यथा भूषणानि।।
चर्माणि वर्माणि मनोरमाणि
प्रसह्य चैषां स शिरांसि चैव।
स्रिच्छेद पार्थो द्विषतां सुमुक्तै--
र्बाणैः स्थितानामपराङ्मुखानाम्।।
सुकल्पिताः स्मन्दनवाजिनागाः
समास्थिताः कृतयत्नैर्नृवीरैः।
पार्थेरितैर्बाणशतैर्निरस्ता--
स्तैरेव सार्धं नृवरैर्विनेशुः।।
पद्मार्कपूर्णेन्दुनिभाननानि
किरीटमाल्याभरणोज्ज्वलानि।
भल्लार्धचन्द्रक्षुरसन्निकृत्ता--
न्यपातयच्छत्रुशिरांस्यजस्रम्।।
अथ द्विपैर्दैत्यरिपुद्विपाभै--
र्देवारिकल्पा बलमन्युकल्पैः।
कलिङ्गवङ्गाङ्गनिषादवीरा
जिघांसवः पाण्डवमभ्यधावन्।।
तेषां द्विपानां निचकर्त पार्थो
वर्माणि चर्माणि करान्नियन्तॄन्।
ध्वजाः पताकाश्च ततः प्रपेतु--
र्वज्राहतानीव गिरेः शिरांसि।।
तेषु प्रभग्नेषु गुरोस्तनूजं
बाणैः किरीटि नवसूर्यवर्णैः।
प्रच्छादयामास महाभ्रजालै--
र्वायुः समुद्यन्तमिवांशुमन्तम्।।
ततोऽर्जुनेषूनिषुभिर्निरस्य
द्रौणिः शितैरर्जुनवासुदेवौ।
प्रच्छादयित्वा दिवि चन्द्रसूर्यौ
ननाद सोऽम्भोद इवातपान्ते।।
तमर्जुनस्तांश्च पुनस्त्वदीया--
नभ्यर्दितस्तैरभिसृत्य शस्त्रैः।
वाणान्धकारं सहसैव कृत्त्वा
विव्याध पार्थो वरहेमपुङ्खैः।।
नाप्याददत्सन्दधन्नैव मुञ्च--
न्बाणान्रथेऽदृश्यत सव्यसाची।
रथांश्च नागांस्तुरगान्पदातीन्
संस्यूतदेहान्ददृशुर्हतांश्च।।
सन्धाय नाराचवरान्दशाशु
द्रौणिस्त्वरन्नेकमिवोत्ससर्ज।
तेषां च पञ्चार्जुनमभ्यविध्य--
न्पञ्चाच्युतं निर्बिभुदुः सुपुङ्खाः।।
तैराहतौ सर्वमनुष्यमुख्या--
वसृक्स्रवन्तौ धनदेन्द्रकल्पौ।
समाप्तविद्येन तथाऽभिभूतौ
हतौ रणे ताविति मेनिरेऽन्ये।।
अथार्जुनं प्राह दशार्हनाथः
प्रमाद्यसे किं जहि योधमेतम्।
कुर्याद्धि दोषं समुपेक्षितोऽयं
कष्टो भवेद्व्याधिरिवाक्रियावान्।।
तथेति चोक्त्वाऽच्युतमप्रमादी
द्रौणेः प्रहस्याशु किरीटमाली।
भुजौ वरौ चन्दनसारदिग्धौ
वक्षः शिरोऽथाप्रतिमौ तथोरू।।
गाण्डीवमुक्तैः कुपिताहिकल्पै--
द्रौणिं शरैः संयति निर्बिभेद।
छित्त्वा तु रश्मींस्तुरगानविध्य--
त्ते तं रणादूहुरतीव दूरम्।।
स तैर्हृतो वातजवैस्तुरङ्गै-
र्द्रौणिर्दृढं पार्थशराभिभूतः।
आवृत्य नैव व्यषहत्स योद्धुं
पार्थेन सार्धं मतिमान्विमृश्य।
जानञ्जयं नियतं वृष्णिवीरे
धनञ्जये चाङ्गिरसां वरिष्ठः।।
विवेश कर्णस्य बलं तरस्वी
भग्नोत्साहः क्षीणवाणास्त्रयोगः।।
प्रतीपकामे तु रणादश्वत्थाम्नि हृते हयैः।
मन्त्रौषधिक्रियायोगैर्व्याधौ देहादिवाहृते।।
संशप्तकानभिमुखौ प्रयातौ केशवार्जुनौ।
वातोद्वूतपताकेन स्यन्दनेनौघनादिना।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे त्रिपञ्चाशोऽध्यायः।। 53 ।।