कर्णपर्व
अध्यायः ५
जनमेजय उवाच।
श्रुत्वा कर्णं हतं युद्वे पुत्रांश्चैव पलायिनः।
नरेन्द्रः किञ्चिदाश्वस्तो द्विजश्रेष्ठ किमब्रवीत्।।
प्राप्तवान्परमं दुःखं पुत्रव्यसनजं महत्।
तस्मिन्यदुक्तवान्काले तन्ममाचक्ष्व पृच्छतः।।
वैशम्पायन उवाच।
श्रुत्वा कर्णस्य निधनमश्रद्वेयमिवाद्भुतम्।
भूतसम्मोहनं भीमं मेरोः संसर्पणं यथा।।
चित्तमोहमिवायुक्तं भार्गवस्य महामतेः।
पराजयमिवेन्द्रस्य द्विषद्ध्यो भीमकर्मणः।।
दिवः प्रपतनं भानोरुरव्यामिव महाद्युतेः।
संशोषणमिवाचिन्त्यं समुद्रस्याक्षयाम्भसः।।
महीवियद्दिगम्बूनां सर्वनाशमिवाद्भुतम्।
कर्मणोरिव वैफल्यमुभयोः पुण्यपापयोः।।
सञ्चिन्त्य निपुणं बुद्ध्या धृतराष्ट्रो जनेश्वरः।
नेदमस्तीति सञ्चिन्त्य कर्णस्य समरे वधम्।।
प्राणिनामेवमात्मत्वात्स्यादपीति विचार्य च।
शोकाग्निना दह्यमानो धम्यमान इवाशये।।
विस्रस्ताङ्गः श्वसन्दीनो हाहेत्युक्त्वा सुदुःखितः।
विललाप महाराज धृतराष्ट्रोऽम्बिकासुतः।।
धृतराष्ट्र उवाच।
सञ्जयाधिरथिर्वीरः सिंहद्विरदविक्रमः।
वृषभप्रतिमस्कन्धो वृषभाक्षगतिस्वरः।।
वृषभो वृषभस्येव यो युद्धे न निवर्तते।
शत्रोरपि महेन्द्रस्य वज्रसंहननो युवा।।
यस्य ज्यातलशब्देन शरवृष्टिरवेण च।
रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे।।
यमाश्रित्य महाबाहुं द्विषत्सङ्घघ्नमच्युतम्।
दुर्योधनोऽकरोद्वैरं पाण्डुपुत्रैर्महारथैः।।
स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे।
निहतः पुरुषव्याघ्रः प्रसह्यासह्यविक्रमः।।
यो नामन्यत वै नित्यमच्युतं च धनञ्जयम्।
न वृष्मीन्सहितानन्यान्स्वबाहुबलदर्पितः।।
शार्ङ्गगाण्डीवधन्वानौ सहितावपराजितौ।
अहं दिव्याद्रथादेकः पातयिष्यामि संयुगे।।
इति यः सततं मन्दमवोचल्लोभमोहितम्।
दुर्योधनमवाचीनं राज्यकामुकमातुरम्।।
योऽजयत्सर्वकाम्भोजानावन्त्यान्केकयैः सह।
गान्धारान्मद्रकान्मात्स्यांस्त्रिगर्तांस्तङ्कणाञ्शकान्।
पाञ्चालांश्च विदेहांश्च कुलिन्दान्काशिकोसलान्
सूह्मानङ्गांश्च वङ्गांश्च निषादान्पुण्ड्रकीकटान्।।
वत्सान्कलिङ्गान्दरदानश्मकानृषिकानपि।
`शबरान्हारहूणांश्च प्रघूणान्सरलानपि।।
म्लेच्छराष्ट्राधिपांश्चैव दुर्गानाटविकांस्तथा'।
जित्वैतान्समरे वीरः प्रदीप्तैः कङ्कपत्रिभिः।।
करमाहारयामास जित्वा सर्वानरींस्तथा।
दुर्योधनस्य वृद्ध्यर्थं राधेयो रथिनां वरः।
दिव्यास्त्रविमन्हातेजाः कर्णो वैकर्तनो वृषः।।
सेनागोपश्च स कथं शत्रुभिः परमास्त्रवित्।
घातितः पाण्डवैः शूरैः समरे वीर्यशालिभिः।।
वृषो महेन्द्रो देवेषु वृषः कर्णो नरेष्वपि।
तृतीयमन्यं लोकेषु वृषं नैवानुशुश्रुम।।
उच्चैः श्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः।
वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः।।
योऽजितः पार्थिवैः शूरैः समर्थैर्वीर्यशालिभिः।
दुर्योधनस्य वृद्ध्यर्थं कृत्स्नामुर्वीमथाजयत्।।
यं लब्ध्वा मागधो राजा सांत्वमानोऽथ सौहृदैः।
अरौत्सीत्पार्थिवं क्षत्रमृते यादवकौरवान्।।
तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना।
शोकार्णवे निमग्नोऽहं भिन्ना नौरिव सागरे।।
तं वृषं निहतं श्रुत्वा द्वैरथे रथिनां वरम्।
शोकार्णवे निमग्नोऽहमप्लुवः सागरे यथा।।
ईदृशैर्यद्यहं दुःखैर्न विनश्यामि सञ्जय।
वज्राद्दृढतरं मन्ये हृदयं मम दुर्भिदम्।।
ज्ञातिसंबन्धिमित्राणामिमं श्रुत्वा पराभवम्।
को मदन्यः पुमाँल्लोके न जह्यात्सूत जीवितम्।।
विषमग्निं प्रपातं च पर्वताग्रादहं वृणे।
`महाप्रस्थानगमनं जलं प्रायोपवेशनम्'।
न हि शक्ष्यामि दुःखानि सोढुं कष्टानि सञ्जय।।
।। इति श्रीमन्महाभारते कर्णपर्वणि पञ्चमोऽध्यायः।। 5 ।।