कर्णपर्व

अध्यायः १५

Karna Parva (Sanskrit) · Adhyaya 15
अक्षर का आकार

सञ्जय उवाच।

नकुलं रभसं युद्धे द्रावयन्तं वरूथिनीम्।
कर्णो वैकर्तनो राजन्वारयामास वै रुषा।।

नकुलस्तु ततः कर्णं प्रहसन्निदमब्रवीत्।।
चिरस्य बत दृष्टोऽहं दैवतैः सौम्यचक्षुषा।

यस्य मे त्वं रणे पाप चक्षुर्विषयमागतः।।
त्वं हि मूलमनर्थानां वैरस्य कलहस्य च।

त्वद्दोषात्कुरवः क्षीणाः समासाद्य परस्परम्।
त्वामद्य समरे हत्वा कृतकृत्योऽस्मि विज्वरः।।

एवमुक्तः प्रत्युवाच नकुलं सूतनन्दनः।
सदृशं राजपुत्रस्य धन्विनश्च विशेषतः।।

प्रहरस्व च मे वीर पश्यामस्तव पौरुषम्।
कर्म कृत्वा रमे शूर ततः कत्थितुमर्हसि।।

अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः।
प्रयुध्यस्व मया शक्त्या हनिष्ये दर्पमेव ते।।

इत्युक्त्वा प्राहरत्तूर्णं पाण्डुपुत्राय सूतजः।
विव्याध चैनं समरे त्रिसप्तत्या शिलीमुखैः।।

नकुलस्तु ततो विद्वः सूतपुत्रेण भारत।
अशीत्याऽऽशीविषप्रख्यैः सूतपुत्रमविध्यत।।

तस्य कर्णो धनुश्छित्त्वा स्वर्णपुङ्खैः शिलाशितैः।
त्रिंशता परमेष्वासः शरैः पाण्डवमर्दयत्।।

ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे।
आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः।।

अथान्यद्वनुरादाय हेमपृष्ठं दुरासदम्।
कर्णं विव्याध सप्तत्या सारथिञ्च त्रिभिः शरैः।।

ततः क्रुद्धो महाराज नकुलः परवीहा।
क्षुरप्रेण सुतीक्ष्णेन कर्णस्य धनुराच्छिनत्।।

अथैनं छिन्नधन्वानं सायकानां शतैस्त्रिभिः।
आजघ्ने प्रहसन्वीरः सर्वलोकमहारथम्।।

कर्णमभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष।
विस्मयं परमं जग्मुर्ऋषयः सह दैवतैः।।

अथान्यद्वनुरादाय कर्णो वैकर्तनस्तदा।
नकुलं पञ्छभिर्बाणैर्जत्रुदेशे समार्पयत्।।

उरस्थैरथ तैर्बाणैर्माद्रीपुत्रो व्यरोचत।
स्वरश्मिभिरिवादित्यो भुवने विसृजन्प्रभाम्।।

नकुलस्तु ततः कर्णं विद्व्वा सप्तभिराशुगैः।
अथास्य धनुषः कोटिं पुनश्चिच्छेद मारिष।।

सोऽन्यत्कार्मुकमादाय समरे वेगवत्तरम्।
नकुलस्य ततो बैणैः समन्ताच्छादयद्दिशः।।

सञ्छाद्यमानः सहसा कर्णचाप्युतैः सरैः।
चिच्छेद स शरांस्तूर्णं शरैरेव महारथः।।

ततो बाणमयं जालं विततं व्योम्न्यदृश्यत।
खद्योतानामिव व्रातैः सम्पतद्भिर्यथा नभः।।

तैर्विमुक्तैः शरशतैश्छादितं गगनं तदा।
शलभानां यथा व्रातैस्तद्वदासीद्विशाम्पते।।

ते शरा हेमविकृताः सम्पन्तौ मुहुर्मुहुः।
श्रेणीकृता व्यकाशान्त क्रौञ्चाः श्रेणीकृता इव।।

बाणजालवृते व्योम्नि च्छादिते च दिवाकरे।
न स्म सम्पतते भूतं किञ्चिदप्यन्तरिक्षगम्।।

निरुद्वे तत्र मार्गे च शरसङ्घैः समन्ततः।
व्यरोचेतां महात्मानौ कालसूर्याविवोदितौ।।

कर्णचापच्युतैर्बाणैर्वध्यमानास्तु सोमकाः।
अवालीयन्त राजेन्द्र वेदनार्ता भूशार्दिताः।।

नकुलस्य तथा बाणैर्हन्यमाना चमूस्तव।
व्यशीर्यत दिशो राजन्वातनुन्ना इवाम्बुदाः।।

ते सेने हन्यमाने तु ताभ्यां दिव्यैर्महाशरैः।
शरपातमपाक्रम्य तस्थतुः प्रेक्षिके तदा।।

प्रोत्सारितजने तस्मिन्कर्णपाण्डवयोः शरैः।
अविध्येतां महात्मानावन्योन्यं शरवृष्टिभिः।।

विदर्शयन्तौ दिव्यानि शस्त्राणि रणमूर्धनि।
छादयन्तौ च सहसा परस्परवधैषिणौ।।

नकुलेन शरा मुक्ता कङ्कबर्हिणवाससः।
सूतपुत्रमवच्छाद्य व्यतिष्ठन्त यथाऽम्बरे।।

तथैव सूतपुत्रेण प्रेषिताः परमाहवे।
पाण्डुपुत्रमवच्छाद्य व्यतिष्ठन्ताम्बरे शराः।।

शरवेश्मप्रविष्टौ तौ ददृशाते न कैश्चन।
सूर्याचन्द्रमसौ राजञ्छाद्यमानौ घनैरिव।।

ततः क्रुद्धो रणे कर्णः कृत्वा घोरतरं वपुः।
पाण्डवं छादयामास समन्ताच्छरवृष्टिभिः।।

सोऽतिच्छन्नो महाराज सूतपुत्रेण पाण्डवः।
न चकार व्यथां राजन्भास्करो जलदैर्यथा।।

ततः प्रहस्याधिरथिः शरजालानि मारिष।
प्रेषयामास समरे शतशोऽथ सहस्रशः।।

एकच्छायमभूत्सर्वं तस्य बाणैर्महात्मनः।।
अभ्रच्छायेव सञ्जज्ञे सम्पतद्भिः शरोत्तमैः।।

ततः कर्णो महाराज धनुश्छित्त्वा महात्मनः।
सारथिं पातयामास रथनीडाद्वसन्निव।।

ततोऽश्वांश्छतुरश्चास्य चतुर्भिर्निशितैः शरैः।
यमस्य भवनं तूर्णं प्रेषयामास भारत।।

अथास्य तं रथं दिव्यं तिलशो व्यधमच्छरैः।
पताकां चक्ररक्षांश्च गदां खङ्गं च मारिष।।

शतचन्द्रं च तच्चर्म सर्वापकरणानि च।
`सुवर्णविकृतं तच्च धनुः शरमाहवे'।।

हताश्वो विरथश्चैव विवर्मा च विशाम्पते।
अवतीर्य रथात्तूर्णं परिघं गृह्य धिष्ठितः।।

तमुद्यतं महारघोरं परिघं तस्य सूतजः।
व्यहनत्सायकै राजन्सुतीक्ष्णैर्भारसाधनैः।।

व्यायुधं चैनमालक्ष्य शरैः सन्नतपर्वभिः।
आर्पयद्बहुभिः कर्णो न चैनं समपीडयत्।।

स हन्यमानः समरे कृतास्त्रेण बलीयसा।
प्राद्रवत्सहसा राजन्नकुलो व्याकुलेन्द्रियः।।

तमभिद्रुत्य राधेयः प्रहसन्वै पुनःपुनः।
सज्यमस्य धनुः कण्ठे व्यवासृजत भारत।।

ततः स शुशुभे राजन्कण्ठासक्तमहाधनुः।
परिवेषमनुप्राप्तो यथा स्याद्व्योम्नि चन्द्रमाः।।

यथैव चासितो मेघः शक्रचापेन शोभितः।
`अशोभत महाराज पाण्डुपुत्रस्तथा रणे'।।

तमब्रवीत्ततः कर्णो व्यर्थं व्याहृतवानसि।
वदेदानीं पुनर्हृष्टो वध्यमानः पुनःपुनः।।

मा योत्सीः कुरुभिः सार्धं बलवद्भिश्च पाण्डव।
सदृशैस्तात युध्यस्व व्रीडां मा कुरु पाण्डव।।

गृहं वा गच्छ माद्रेय यत्र वा कृष्णफल्गुनौ।
एवमुक्त्वा महाराज विससर्ज स तं तदा।।

वधप्राप्तं तु तं शूरो नाहनद्वर्मवित्तदा।
स्मृत्वा कुन्त्या वचो राजंस्तत एनं व्यसर्जयत्।।

विसृष्टः पाण्डवो राजन्सूतपुत्रेण धन्विना।
व्रीडन्निव जगामाथ युधिष्ठिररथं प्रति।।

आरुरोह रथं चापि सूतपुत्रप्रतापितः।
निःश्वसन्दुःखसन्तप्तः कुम्भक्षिप्त इवोरगः।।

तं विजित्याथ कर्णोऽपि पाञ्चालांस्त्वरितो ययौ।
रथेनातिपताकेन चन्द्रवर्णहयेन च।।

तत्राक्रन्दो महानासीत्पाण्डवानां विशाम्पते।
दृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रथव्रजान्।।

तत्राकरोन्महाराज कदनं सूतनन्दनः।
मध्यं प्राप्ते दिनकरे चक्रवद्विचरन्प्रभुः।।

भग्नचक्रै रथैः कैश्चिच्छिन्नध्यवजपताकिभिः।
हताश्वैर्हतसूतैश्च भग्नाक्षैश्चैव मारिष।
हियमाणानपश्याम पाञ्चालानां रथव्रजान्।।

तत्रतत्र च सम्भ्रान्ता विचेरुरथ कुञ्जराः।
दावाग्न्यभिपरीताङ्गा यथैव स्युर्महावने।।

भिन्नकुम्भाः सरुधिराश्छिन्नहस्ताश्च वारणाः।
छिन्नगात्रावराश्चैव च्छिन्नवालधयोऽपरे।
छिन्नाभ्राणीव सम्पेतुर्हन्यमाना महात्मना।।

अपरे त्रासिता नागा नाराचशरतोमरैः।
तमेवाभिमुखं जग्मुः शलभा इव पावकम्।।

अपरे निष्टनन्तश्च व्यदृश्यन्त महाद्विपाः।
क्षरन्तः शोणितं गात्रैर्नगा इव जलस्रवाः।।

उरश्छदैर्वियुक्तांश्च वालबन्धैश्च वाजिनः।
राजतैश्च तथा कांस्यैः सौवर्णैश्चैव भूषणैः।।

हीनांश्चाभरणैश्चैव खलीनैश्च विवर्जितान्।
चामरैश्च कुथाभिश्च तूणीरैः पतितैरपि।।

निहतैः सादिभिश्चैव शूरैराहवशोभितैः।
अपश्याम रणे तत्र भ्राम्यमाणान्हयोत्तमान्।।

प्रासैः खङ्गैश्च रहितानृष्टिभिश्चापि भारत।
हयसादीनपश्याम कञ्चुकोष्णीषधारिणः।।

निहतान्वध्यमानांश्च वेपमानांश्च भारत।
नागाङ्गावयवैर्हीनांस्तत्रतत्रैव भारत।।

रथान्हेमपरिष्कारान्संयुक्ताञ्जवनैर्हयैः।
भ्राम्यमाणानपश्याम हतेषु रथिषु द्रुतम्।।

भग्नाक्षकूबरान्कांश्चिद्भग्नचक्रांश्च भारत।
विपताकध्वजांश्चान्याञ्छिन्नेषादण्डबन्धुरान्।।

विहीनान्रथिनस्तत्र धावमानांस्ततस्ततः।
सूतपुत्रशरैस्तीक्ष्णैर्हन्यमानान्विशाम्पते।।

विशस्त्रांश्च तथैवान्यान्सशस्त्रांश्च हतान्बहून्।
तारकाजालसञ्छन्नान्वरघण्टाविशोभितान्।।

नानावर्णविचित्राभिः पताकाभिरलङ्कृतान्।
वारमआननुपश्याम धावमानान्समन्ततः।।

शिरांसि बाहूनूरूंश्च च्छिन्नानन्यांस्तथैव च।
कर्णचापच्युतैर्बाणैरपश्याम समन्ततः।।

महान्व्यतिकरो रौद्रो योधानामन्वपद्यत।
कर्णसायकनुन्नानां युध्यतां च शितैः शरैः।।

ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः।
तमेवाभिमुखं यान्ति पतङ्गा इव पावकम्।।

तं दहन्तमनीकानि तत्रतत्र महारथम्।
क्षत्रिया वर्जयामासुर्युगान्ताग्निमिवोल्बणम्।।

हतशेषास्तु ये वीराः पाञ्चालानां महारथाः।
तान्प्रभग्रान्दुतान्वीरः पृष्ठो विकिऱञ्छरैः।
अभ्यधावत तेजस्वी विशीर्णवचनध्वजान्।।

तापयामास तान्बाणैः सूतपुत्रो महाबलः।
मध्यन्दिनमनुप्राप्तो भूतानीव तमोनुदः।।

।। इति श्रीमन्महाभारते कर्णपर्वणि
षोडशदिवसयुद्धे पञ्चदशोऽध्यायः।। 15 ।।