द्रोणपर्व

अध्यायः ९३

Drona Parva (Sanskrit) · Adhyaya 93
अक्षर का आकार

सञ्जय उवाच।

हते सुदक्षिणे राजन्वीरे चैव श्रुतायुधे।
जवेनाभ्यद्रवन्पार्थं कुपिताः सैनिकास्तव।।

अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः।
अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनञ्जयम्।।

तेषां षष्टिशतानन्यान्प्रामथ्नात्पाण्डवः शरैः।
ते स्म भीताः पलायन्ते व्याघ्रात्क्षुद्रमृगा इव।।

ते निवृत्ताः पुनः पार्थं सर्वतः पर्यवारयन्।
रणे सपत्नान्निघ्नन्तं जिगीषन्तं परान्युधि।।

तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः।
शिरांसि पातयामास बाहूंश्चापि धनञ्जयः।।

शिरोभिः पातितैस्तत्र भूमिरासीन्निरन्तरा।
अभ्रच्छायेव चैवासीद्ध्वाङ्क्षगृध्रबलैर्युधि।।

तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ।
स्रुतायुश्चाश्रुतायुश्च धनञ्जयमयुध्यताम्।।

बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ।
तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम्।।

त्वरायुक्तौ महराज प्रार्थयानौ महद्यशः।
अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ।।

तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम्।
पूरयामासतुः क्रुद्धौ तटाकं जलदौ यथा।।

श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनञ्जयम्।
आजघान रथश्रेष्ठः पीतेन निशितेन च।।

सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः।
जगाम परमं मोहं मोहयन्केशवं रणे।।

एतस्मिन्नेव काले तु सोऽश्रुतायुर्महारथः।
शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम्।।

क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः।
पार्थोऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः।।

ततः सर्वस्य सैन्यस्य तावकस्य विशाम्पते।
सिंहनादो महानासीद्धतं मत्वा धनञ्जयम्।।

कृष्णश्च भृशसन्तप्तो दृष्ट्वा पार्थं विचेतनम्।
आश्वासयत्सुहृद्याभिर्वाग्भिस्तत्र धनञ्जयम्।।

ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनञ्जयम्।
वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः।।

सचक्रकूबररथं साश्वध्वजपताकिनम्।
अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत्।।

प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत।
प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा।।

सञ्छन्नं शरजालेन रथं दृष्ट्वा सकेशवम्।
शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ।।

प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः।
तस्मादासन्सहस्राणि शराणां नतपर्वणाम्।।

ते जघ्नुस्तौ महेष्वासौ ताभ्यां मुक्तांश्च सायकान्।
विचेरुराकाशगताः पार्थचापविनिःसृताः।।

प्रतिहत्य सरांस्तूर्णं शरवेगेन पाण्डवः।
प्रतस्थे तत्रतत्रैव योधयन्वै महारथान्।।

तौ च फल्गुनबाणौघैर्विबाहुशिरसौ कृतौ।
वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ।।

श्रुतायुषश्च निधनं वधश्चेवाश्रुतायुषः।
लोकविस्मापनमभूत्समुद्रस्येव शोषणम्।।

तयोः पदानुगान्हत्वा पुनः पञ्चशतं रथान्।
प्रत्यगाद्भारतीं सेनां निघ्नन्पार्थो वरान्वरान्।।

श्रुतायुषं च निहतं प्रेक्ष्य चैवाश्रुतायुषम्।
नियतायुश्च सङ्क्रुद्धो दीर्घायुश्चैव भारत।।

पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रति जग्मतुः।
किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ।।

तावर्जुनो मुहूर्तेन शरैः सन्नतपर्वभिः।
प्रैषयत्परमक्रुद्धो यमस्य सदनं प्रति।।

लोडयन्तमनीकानि द्विपं पद्मसरो यथा।
नाशक्नुवन्वारयितुं पार्थं क्षत्रियपुङ्गवाः।।

अङ्गास्तु गजसङ्घैश्च पाण्डवं पर्यवारयन्।
क्रुद्धाः सहस्रशो राजञ्शिक्षिता हस्तिसादिनः।।

दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः।
प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः।।

तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः।
निचकर्त शिरांस्युग्रो बाहूनपि सुभूषणान्।।

तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः।
बभौ कनकपाषाणा भुजगैरिव संवृता।।

बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च।
पतमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः।।

शरैः सहस्रशो विद्धा द्विपाः प्रसृतशोणिताः।
अदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव।।

निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः।
गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः।।

नानावेषधरा राजन्नानाशस्त्रौघसंवृताः।
रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः।।

शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः।
सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः।।

चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः।
भृशं त्रस्ताश्च बहवः स्वानेव ममृदुर्गजाः।।

सोत्तरायुधिनश्चैव द्विपास्तीक्ष्णविषोपमाः।
विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः।।

यवनाः पारदाश्चैव शकाश्च सह बाह्लिकैः।
काकवर्णा दुराचाराः स्त्रीलोलाः कलहप्रियाः।।

द्राविडास्तत्र युध्यन्ते मत्तमातङ्गविक्रमाः।
गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः।।

दार्वातिसारा दरदाः पुण्ड्राश्चैव सहस्रशः।
ते न शक्याः स्म सङ्ख्यातुं व्राताः शतसहस्रशः।।

अभ्यवर्षन्त ते सर्वे पाण्डवं निशितैः शरैः।
अवाकिरंश्च ते म्लेच्छा नानायुद्धविशारदाः।।

तेषामपि ससर्जाशु शरवृष्टिं धनञ्जयः।
सृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः।।

अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनञ्जयः।
मुण्डार्धमुण्डाञ्जटिलानशुचीञ्जटिलाननान्।
म्लेच्छानशातयत्सर्वान्समेतानस्त्रतेजसा।।

शरैश्च शतशो विद्धास्ते सङ्घा गिरिचारिणः।
प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः।।

गजाश्वसादिम्लेच्छानां पतितानां शितैः शरैः।
बकाः कङ्का वृका भूमावपिबन्रुधिरं मुदा।।

पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसङ्क्रमाम्।
शरवर्षप्लवां घोरां केशशैवलशाद्वलाम्।
प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम्।।

छिन्नाङ्गुलीक्षुद्रमत्स्यां युगान्ते कालसन्निभाम्।
प्राकरोद्गजसम्बाधां नदीमुत्तरशोणिताम्।।

देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम्।
यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे।
तथाऽऽसीत्पृथिवी सर्वा शोणितेन परिप्लुता।।

षट्‌सहस्रान्हयान्वीरान्पुनर्दशशतान्वरान्।
प्राहिणोन्मृत्युलोकाय क्षत्रियान्क्षत्रियर्षभः।।

शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः।
शेरते भूमिमासाद्य शैला वज्रहता इव।।

स वाजिरथमातङ्गान्निघ्नन्व्यचरदर्जुनः।
प्रभिन्न इव मातङ्गो मृद्गन्नलवनं यथा।।

भुरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम्।
निर्दहेदनलोऽरण्यं यथा वायुसमीरितः।।

सेनारण्यं तव तथा कृष्णानिलसमीरितः।
शरार्चिरदहत्क्रुद्धः पाण्डवोऽग्निर्धनञ्जयः।।

शून्यान्कुर्वन्रथोपस्थान्मानवैः संस्तरन्महीम्।
प्रानृत्यदिव सम्बाधे चापहस्तो धनञ्जयः।
वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम्।।

`ततः प्रावर्तत नदी शोणितौघतरङ्गिणी।
नराश्वद्विपकायेभ्यः पर्वतेभ्य इवापगा।।

अस्थिशर्करसम्बाधा ध्वजवृक्षा रथहदा।
सञ्छिन्नशीर्षपाणाणा हस्तिहस्तमहाग्रहा।।

मांसमज्जास्थिपङ्काढ्यां हताश्वमकराकुला।
उष्णीषफेनसञ्छन्ना शरघोरझषाकुला।।

रुद्रस्याक्रीडसदृशीं भूमिं कुर्वन्विभीषणाम्'।
प्राविशद्भारतीं सेनां सङ्क्रुद्धो वै धनञ्जयः।।

तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत्।।

तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः।
न्यपातयद्धयाञ्शीघ्रं यतमानस्य मारिष।
धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे।।

अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः।
आससाद रणे पार्थं केशवं च महारथम्।।

ततः सम्प्रहरन्वीरो गदामुद्यम्य भारत।
रथमावार्य गदया केशवं समताडयत्।।

गदया ताडितं दृष्ट्वा केशवं परवीरहा।
अर्जुनोऽथ भृशं क्रुद्धः सोऽम्बष्ठं प्रति भारत।।

ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम्।
छादयामास समरे मेघः सूर्यमिवोदितम्।।

अथापरैः शरैश्चापि गदां तस्य महात्मनः।
अचूर्णयत्तदा पार्थस्तिदद्भुतमिवाभवत्।।

अथ तां पतितां दृष्ट्वा गृह्यान्यां च महागदाम्।
अर्जुनं वासुदेवं च पुनः पुनरताडयत्।।

तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ।
चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा।।

स पपात हतो राजन्वसुधामनुनादयन्।
इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः।।

अम्बष्ठे तु तदा भग्ने तव सैन्यमभज्यत।।

रथानीकावगाढश्च वारणाश्वशतैर्वृतः।
अदृश्यत पदा पार्थो घनैः सूर्य इवावृतः।।

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्धशदिवसयुद्धे त्रिनवतितमोऽध्यायः।। 93 ।।