द्रोणपर्व
अध्यायः ८५
धृतराष्ट्र उवाच।
श्वोभूते किमकार्षुस्ते दुःखशोकसमन्विताः।
अभिमन्यौ हते तत्र कैर्वाऽयुध्यन्त पाण्डवाः।।
जानन्तस्तस्य कर्माणि कुरवः सव्यसाचिनः।
कथं तत्किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः।।
पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम्।
आयान्तं पुरुषव्याघ्रं कथं ददृशुराहवे।।
कपिराजध्वनं सङ्ख्ये विधुन्वानं महद्धनुः।
दृष्ट्वा पुत्रपरिद्यूनं किमकुर्वत मामकाः।।
किन्तु सञ्जय सङ्ग्रमे वृत्तं दुर्योधनं प्रति।
परिदेवो महानद्य श्रूयते हि गृहेगृहे।।
भूयाञ्शब्दानतीत्यान्याञ्शब्दः सैन्धववेश्मनि।
पौराणिकानां तूर्याणां शङ्खदुन्दुभिघोषवान्।।
सूतमागधबन्दीनां नर्तकानां च निःस्वनः।
सोऽद्य न श्रूयते शब्दः सूत पुत्र यथा पुरा।।
शब्दो नानाविधोऽभीष्टमभवद्यत्र मे श्रुतः।
दीनानामद्य तं शब्दं न शृणोमि समीरितम्।।
निवेशने सत्यधृतेः सोमदत्तस्य सञ्जय।
आसीनोऽहं पुरा तात शब्दमश्रौषमुत्तमम्।।
तदद्य पुण्यहीनोऽहमार्तस्वरनिनादितम्।
निवेशनं गतोत्साहं विकृतं तात लक्षये।।
विविंशतेर्दुर्मुखस्य चित्रसेनविकर्णयोः।
अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः।।
ब्राह्मणआः क्षत्रिया वैश्या यं शिष्याः पर्युपासते।
द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम्।।
वितण्डालापसंलापैर्द्रुतवादित्रवादितैः।
गीतैश्च विविधैरिष्टै रमते यो दिवानिशम्।।
उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः।
श्लक्ष्णस्तस्य गृहे शब्दो नाद्य द्रौणेर्यथा पुरा।।
द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च ये।
अत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः।।
विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिः।
श्रूयते सोऽद्य न तथा केकयानां च वेश्मसु।।
नित्यं प्रमुदितानां च तालगीतस्वनो महान्।
नृत्यतां श्रूयते तात गणानां सोऽद्य न स्वनः।।
सप्ततन्तून्वितन्वाना याजका यमुपासते।
सौमदत्तिं श्रुतनिधिं तेषां न श्रूयते ध्वनिः।।
ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः।
द्रोणस्यासीदविरतो गृहे तं न शृणोम्यहम्।।
नानादेशसमुत्थानां गीतानां योऽभवत्स्वनः।
वादित्रनादितानां च सोऽद्य न श्रूयते महान्।।
यदाप्रभृत्युपप्लुव्याच्छान्तिमिच्छञ्जनार्दनः।
आगतः सर्वभूतानामनुकम्पार्थमच्युतः।।
ततोऽहमब्रुवं सूत मन्दं दुर्योधनं तदा।
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः।।
कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः।
`संशाम्य भ्रातृभिस्तैस्तु क्षत्रियानभिपालय'।।
शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम्।
हितार्थमभिजल्पन्तं न तवास्ति रणे जयः।।
प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम्।
अनुनेयानि जल्पन्तमनयान्नान्वपद्यत।।
`कर्णदुःशासनमतः सौबलस्य च दुर्मतेः।
प्रत्याख्यातो महाबाहुःकुलान्तकरणेन वै'।।
ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः।
अन्ववर्तत मां हित्वा कृष्टः कालेन दुर्मतिः।।
न ह्यहं युद्धमिच्छामि विदुरो द्रोण एव वा।
बाह्लीकः सोमदत्तो वा भीष्मो द्रौणायनिस्तथा।।
शलो भूरिश्रवाश्चैव पुरुमित्रो विविंशतिः।
जयः कृपो वा धर्मात्मा ये चान्ये मम बान्धवाः।।
एतेषां मतमास्थाय यदि वत्स्यति पुत्रकः।
एतेभ्यश्च मदूर्ध्वं च अभोक्ष्यद्वसुधामिमाम्।।
श्लक्ष्णा मधुरसम्भाषा ज्ञातिमध्ये प्रियंवदाः।
कुलीनाः सम्मताः प्राज्ञाः सुखं जीवन्ति मानवाः।
धर्मापेक्षी नरो नित्यं सर्वत्र लभते सुखम्।
प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते।।
अर्हास्ते पृथिवीं भोक्तुं समर्थाः साधनेऽपि च।
तेषामपि समुद्रान्ता पितृपैतामही मही।।
`न च त्वाऽभिभविष्यन्ति हित्वा धर्मं पृथात्मजाः।
नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्त्मनि।।
सन्ति मे ज्ञातयस्तात येषां श्रोष्यन्ति पाण्डवाः।
शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः।।
द्रोणस्याथ विकर्णस्य बाह्लीकस्य कृपस्य च।
अन्येषां चैव वृद्धानां भरतानां महात्मनाम्।
त्वदर्थमब्रवं तात न जहुर्वचनानि ते।।
कं वा त्वं मन्यसे तेषां यस्त्वां ब्रूयादतोऽन्यथा।
कृष्णो न धर्मं सञ्जह्यात्सर्वे ते हि तदन्वयाः।।
मयाऽपि चोक्तास्ते वीरा वचनं धर्मसंहितम्।
नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः।।
इत्यहं विलपन्सूत बहुशः पुत्रमुक्तवान्।
न च मे श्रुतवान्मूढो मन्ये कालस्य पर्ययम्।।
वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिः।
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः।।
धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितः।
अश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः।।
चैद्यश्च चेकितानश्च पुत्रः काश्यस्य चाभिभूः।
द्रौपदेया विराटश्च द्रुपदश्च महारथः।।
यमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः।
क एताञ्जातु युध्येत लोकेऽस्मिन्वै जिजीविषुः।।
दिव्यमस्त्रं विकुर्वाणान्प्रसहेद्वा परान्मम।
अन्यो दुर्योधनात्कार्णाच्छकुनेश्चापि सौबलात्।
दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम्।।
येषां वचनकृत्स स्याद्विष्वक्सेनो रथे स्थितः।
सन्नद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः।।
तथा मम विलापानां नायं दुर्योधनः स्मरेत्।
हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ वै।।
तेषां विदुरवाक्यानामुक्तानां दीर्घदर्शनात्।
दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः।।
सेनां दृष्ट्वाऽभिभूतां मे शैनेयेनार्जुनेन च।
शून्यान्दृष्ट्वा रथोपस्थान्मन्ये शोचन्ति पुत्रकाः।।
हिमात्यये यथा कक्षं शुष्कं वातेरितो महान्।
अग्निर्दहेत्तथा सेनां मामिकां स धनञ्जयः।।
आचक्ष्व मम तत्सर्वं कुशलो ह्यसि सञ्जय।
यदोपयाताः सायाह्ने कृत्वा पार्थस्य किल्बिषं।।
अभिमन्यौ हते तात कथमासीन्मनो हि वः।।
न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः।
अपकृत्य महत्तात सोढुं शक्ष्यन्ति मामकाः।।
किन्नुः दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत्।
दुःशासनः सौबलश्च तेषामेवं गते सति।।
सर्वेषां समवेतानां पुत्राणां मम सञ्जय।
यद्वृत्तं तात सङ्ग्रामे मन्दस्यापनयैर्भृशम्।।
लोभानुगस्य दुर्बुद्धेः क्रोधेन विकृतात्मनः।
राज्यकामस्य मूढस्य रागोपहतचेतसः।
दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व सञ्जय।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि
जयद्रथवधपर्वणि पञ्चाशीतितमोऽध्यायः।। 85 ।।