द्रोणपर्व

अध्यायः ७१

Drona Parva (Sanskrit) · Adhyaya 71
अक्षर का आकार

व्यास उवाच।

पुण्यमाख्यानमायुष्यं श्रुत्वा षोडशराजकम्।
अव्याहरन्नरपतिस्तूष्णीमासीत्स सृञ्जयः।।

तमब्रवीत्तदा दीनं नारदो भगवानृषिः।
कच्चिन्मया व्याहृतं यद्धृदये तत्स्थितं तव।।

आहोस्विदन्ततो नष्टं श्राद्धं शूद्रीपताविव।
स एवमुक्तः प्रत्याह प्राञ्जलिः सृञ्जयस्तदा।।

पुत्रशोकापहं श्रुत्वा धन्यमाख्यानमुत्तमम्।
राजर्षीणां पुराणानां यज्वनां दक्षिणावताम्।।

विस्मयेन हृते शोके तमसीवार्कतेजसा।
विपाप्माऽस्म्यव्यथोपेतो ब्रूहि किं करवाण्यहम्।।

नारद उवाच।

दिष्ट्यापहतशोकस्त्वं वृणीष्वेह यदिच्छसि।
तत्ते सम्पत्स्यते सर्वं न मृषावादिनो वयम्।।

सृञ्जय उवाच।

पावितोऽहमनेनैव प्रसन्नो यद्भवान्मम्।
प्रसन्नो यस्य भगवान्न तस्यास्तीह दुर्लभम्।।

नारद उवाच।

पुनर्ददामि ते पुत्रं दस्युभिर्निहतं वृथा।
उद्धृत्य नरकात्कष्टात्पशुवत्प्रोक्षितं यथा।।

व्यास उवाच।

प्रादुरासीत्ततः पुत्रः सृञ्जयस्याद्भुतप्रभः।
प्रसन्नेनर्षिणा दत्तः कुबेरतनयोपमः।।

ततः सङ्गम्य पुत्रेण प्रीतिमानभवन्नृपः।
ईजे च क्रतुभिः पुण्यैः समाप्तवरदक्षिणैः।।

अकृतार्थश्च भीतश्च न च सन्नाहकोविदः।
अयज्वाचानपत्यश्च ततोऽसौ जीवितः पुनः।।

शूरो वीरः कृतार्थश्च प्रमथ्यारीन्सहस्रशः।
अभिमन्युर्गतः स्वर्गं सङ्ग्रामेऽभिमुखाहतः।।

ब्रह्मचर्येण याँल्लोकान्प्रजया च श्रुतेन च।
इष्टैश्च क्रतुभिर्यान्ति तांस्ते पुत्रोऽक्षयान्गतः।।

विद्वांसः कर्मभिः पुण्यैः स्वर्गमीहन्ति नित्यशः।
न तु स्वर्गादयं लोकः काम्यते स्वर्गवासिभिः।।

तस्मात्स्वर्गगतं पुत्रमर्जुनस्य हतं रणे।
न चेहानयितुं शक्यं किञ्चिदप्राप्यमीहितम्।।

यां योगिनो ध्यानविविक्तदर्शनाः
प्रयान्ति यां चोत्तमयज्विनो जनाः।
तपोभिरिद्धैरनुयान्ति यां तथा
तामक्षयां ते तनयो गतो गतिम्।।

अन्तात्पुनर्भावगतो विराजते
राजेव वीरो ह्यमृतात्मरश्मिभिः।
तामैन्दवीमात्मतनुं द्विजोचितां
गतोऽभिमन्युर्न स शोकमर्हति।।

एवं ज्ञात्वा स्थिरो भूत्वा मा शुचो धैर्यमाप्नुहि।
जीवन्हि पुरुषः शोच्यो न तु स्वर्गगतोऽनघ।।

शोचतो हि महाराज अघमेवाभिवर्धते।
तस्माच्छोकं परित्यज्य श्रेयसे प्रयतेद्बुधः।।

प्रहर्षं प्रीतिमानन्दं प्रियमुत्सिक्तचित्तताम्।
एतदाहुर्बुधाः शौचमशौचं शोक उच्यते।।

एवं विद्वन्समुत्तिष्ठ प्रयतो भव मा शुचः।
श्रुतस्ते सम्भवो मृत्योस्तपांस्यनुपमानि च।।

सर्वभूतसमत्वं च ब्रह्मणा चापि चोदितम्।
सृञ्जयस्य तु पुत्रोऽसौ मृतः सञ्जीवितः श्रुतः।।

एवं विद्वन्महाराज मा शुचः साधयाम्यहम्।
एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत।।

वागीशाने भगवति व्यासे व्यभ्रनभःप्रभे।
गते मतिमतां श्रेष्ठे समाश्वास्य युधिष्ठिरम्।।

पूर्वेषां पार्थिवेन्द्राणआं महेन्द्रप्रतिमौजसाम्।
न्यायाधिगतवित्तानां तां श्रुत्वा यज्ञसम्पदम्।।

सम्पूज्य मनसा विद्वान्विशोकोऽभूद्युधिष्ठिरः।
पुनश्चाचिन्तयद्दीनः किंस्विद्वक्ष्ये धनञ्जयम्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि
अभिमन्युवधपर्वणि एकसप्ततितमोऽध्यायः।। 71 ।।