द्रोणपर्व
अध्यायः ५५
सञ्जय उवाच।
श्रुत्वा मृत्युसमुत्पत्तिं कर्माण्यनुपमानि च।
धर्मराजः पुनर्वाक्यं प्रसाद्यैनमथाब्रवीत्।।
युधिष्ठिर उवाच।
गुरवः पुण्यकर्माणः शक्रप्रतिमविक्रमाः।
पूर्वं राजर्षयो ब्रह्मन्कियन्तो मृत्युना हताः।।
भूय एव तु मां तथ्यैर्वचोभिरभिबृंहय।
राजर्षीणां पुराणानां समाश्वासय कर्मभिः।।
कियन्त्यो दक्षिणा दत्ताः काश्च दत्ता महात्मभिः।
राजर्षिभिः पुण्यकृद्भिस्तद्भवान्प्रब्रवीतु मे।।
`व्यास उवाच।
अन्येपि यज्वनां लोका अन्ये चापि तपस्विनाम्।
क्षमावतां च त्रींल्लोकाञ्शूरा गच्छन्ति भारत।।
क्षत्रियस्य तुं सङ्ग्रामे शत्रून्हत्वा हतस्य वा।
फलमत्यन्तमित्याहुर्धर्मशास्त्रविदो जनाः।।
वेदविद्याव्रतस्नाता यज्वानः पुत्रिणश्च ये।
तेभ्यः परार्थ्या यज्वानो यज्वभ्यश्च तनुत्यजः।।
स वीरो यज्वनो नित्यं क्षत्रियानार्जुनिर्गतः।
लोकान्पुण्यतमानिष्टानिति विद्धि विशाम्पते।।
सर्वेषां नृपसिंहानां शृणु यज्ञान्नृपोत्तम।
तानतिक्रम्य गच्छन्ति स्वर्गकामास्तनुत्यजः।।
युधिष्ठिर उवाच।
सर्वेषां यज्वनां यज्ञं श्रोतुमिच्छामि सुव्रत।
दक्षिणाश्चानुरूपेभ्यो दत्ता राजर्षिसत्तमैः'।।
व्यास उवाच।
शैब्यस्य नृपतेः पुनः सृञ्जयो नाम नामतः।
सखायौ तस्य चेवोभौ ऋषी पर्वतनारदौ।।
तौ कदाचिद्गृहं तस्य प्रविष्टौ तद्दिदृक्षया।
विधिवच्चार्चितौ तेन प्रीतौ तत्रोषतुः सुखम्।।
तं कदाचित्सुखासीनं ताभ्यां सह शुचिस्मिता।
दुहिताऽभ्यागमत्कन्या सृञ्जयं वरवर्णिनी।।
तयाऽभिवादितः कन्यामभ्यनन्दद्यथाविधि।
तत्सलिङ्गाभिराशीर्भिरिष्टाभिरभितः स्थिताम्।।
तां निरीक्ष्याब्रवीद्वाक्यं पर्वतः प्रहसन्निव।
कस्येयं चञ्चलापाङ्गी सर्वलक्षणसम्मता।।
उषा स्विद्भाः स्विदर्कस्य ज्वलनस्य शिखापि वा।
श्रीर्द्द्रिः कीर्तिंर्धृतिः षुष्टिः सिद्धिश्चन्द्रमसः प्रभा।।
सञ्जय उवाच।
एवं ब्रुवाणं देवर्षिं नृपतिः सृञ्जयोऽब्रवीत्।
ममेयं भगवन्कन्या वर्या वरमभीप्सति।।
नारदस्त्वब्रवीदेनं देहि मह्यमिमां नृप।
भार्यार्थं सुमहच्छ्रेयः प्राप्तुं चेदिच्छसे नृप।।
ददानीत्येवं संहृष्टः सृञ्जयः प्राह नारदम्।
व्यास उवाच।
`एवमुक्ते नृपतिना क्रोधपर्याकुलेक्षणः'।
पर्वतस्तु सुसङ्क्रुद्धो नारदं वाक्यमब्रवीत्।।
पूर्वं ममैव मनसा विद्धि भार्यां वृतामृषे।
यस्मादपाचरस्तस्मात्स्वर्गं न गच्छसि।।
एवमुक्तो नारदस्तं प्रत्युवाचोत्तरं वचः।
मनोवाग्बुद्धिसम्भाषा सत्यं तोयमथाग्नयः।।
पाणिग्रहममन्त्राश्च प्रथितं दारलक्षणम्।
न त्वेषां निश्चिता निष्ठा त्वया सा मनसा स्मृता।।
`एवं विद्वांस्तु मां यस्मादनुव्याहृतवानसि'।
तस्मात्त्वमपि न स्वर्गं गमिष्यसि मया विना।
अन्योन्यमेवं शप्त्वा वै तस्थतुस्तत्र तौ तदा।।
अथ सोऽपि नृपो विप्रान्पानाच्छादनभोजनैः।
पुत्रकामः परं शक्त्या यत्नाच्चोपाचरच्छुचिः।।
तस्य प्रसन्ना विप्रेन्द्राः कदाचित्पुत्रदर्शिनः।
तपःस्वाध्यायनिरता वेदवेदाङ्गपारगाः।।
सहिता नारदं प्राहुर्देह्यस्मै पुत्रमीप्सितम्।
तथेत्युक्त्वा द्विजैरुक्तः सृञ्जयं नारदोऽब्रवीत्।।
तुभ्यं प्रसन्ना राजर्षे पुत्रमीप्सन्ति ब्राह्मणाः।
वरं वृणीष्व भद्रं ते यादृशं पुत्रमीप्सितम्।।
तथोक्तः प्राञ्जली राजा पुत्रं वव्रे गुणान्वितम्।
यशस्विनं कीर्तिमन्तं तेजस्विनमरिन्दमम्।।
यस्य मूत्रं पुरीषं च क्लेदः स्वेदश्च काञ्चनम्।
`सर्वं भवेत्प्रसादाद्वै तादृशं तनयं वृणे।।
व्यास उवाच।
तथा भविष्यतीत्युक्ते जज्ञे तस्योप्सितः सुतः।
काञ्चनस्याकरः श्रीमान्प्रसादाद्वै सुकाङ्क्षितः।।
रुदितस्य च नेत्राभ्यामपतत्तस्य नेत्रजम्।
मूत्रं पुरीषं स्वेदश्च सर्वं भवति काञ्चनम्'।
सुवर्णष्ठीविरित्येव तस्य नामाभवत्कृतम्।।
तस्मिन्वरप्रदानेन वर्धयत्यमितं धनम्।
कारयामास नृपतिः सौवर्णं सर्वमीप्सितम्।।
गृहप्राकारदुर्गाणि ब्राह्मणावसथान्यपि।
शय्यासनानि यानानि स्थालीपिठरभाजनम्।।
तस्य राज्ञोऽपि यद्वेश्म बाह्याश्चोपस्कराश्च ये।
सर्वं तत्काञ्चनमयं कालेन परिवर्धितम्।।
अथ दस्युगणाः श्रुत्वा दृष्ट्वा चैनं तथाविधम्।
सम्भूय तस्य नृपतेः समारब्धाश्चिकीर्षितुम्।।
केचित्तत्राब्रुवन्राज्ञः पुत्रं गृह्णीम वै स्वयम्।
सोऽस्याकरः काञ्चनस्य तस्य यत्नं चरामहे।।
ततस्ते दस्यवो लुब्धाः प्रविश्य नृपतेर्गृहम्।
राजपुत्रं तथाऽऽजह्रुः सुवर्णष्ठीविनं बलात्।।
गृह्यैनमनुपायज्ञा नीत्वाऽरण्यमचेतसः।
हत्वा विशस्य चापश्यँ ल्लुब्धा वसु न किञ्चन।।
तस्य प्राणैर्विमुक्तस्य नष्टं तत्काञ्चनं वरम्।
दस्यवश्च तदाऽन्योन्यं जघ्नुर्मूर्खा विचेतसः।।
हत्वा परस्परं नष्टाः कुमारं चाद्भुतं भुवि।
असम्भाव्यं गता घोरं नरकं दुष्टकारिणः।।
तं दृष्ट्वा निहतं पुत्रं वरदत्तं महातपाः।
विललाप सुदुःखार्तो बहुधा करुणं नृपः।।
विलपन्तं निशम्याथ पुत्रशोकहतं नृपम्।
प्रत्यदृश्यत देवर्षिर्नारदस्तस्य सन्निधौ।।
उवाच चैनं दुःखार्तं विलपन्तमचेतसम्।
सृञ्जयं नारदो यद्यत्तन्निबोध युधिष्ठिर।।
नारद उवाच।
`त्यज शोकं महाराज वैक्लब्यं त्यज बुद्धिमन्।
न मृतः शोचतो जीवेन्मुह्यतो वा नराधिप।।
त्यज शोकं नृपश्रेष्ठ न शोचन्ति भवद्विधाः।
वीरो भवान्महाराज ज्ञानवृद्धोऽपि मे मतः'।
कामानामवितृप्तस्त्वं सृञ्जयेह मरिष्यसि।।
यस्य चैते वयं गेहे उषिता ब्रह्मवादिनः।
आविक्षितं मरुत्तं च मृतं सृञ्जय शुश्रुम।।
संवर्तो याजयामास स्पर्धया वै बृहस्पतेः।
यस्मै राजर्षये प्रादाद्धनं स भगवान्प्रभुः।
हैमं हिमवतः पादं यियक्षोर्विविधैः सवैः।।
यस्य सेन्द्रामरगणा बृहस्पतिपुरोगमाः।
देवा विश्वसृजः सर्वे यजनान्ते समासते।
यज्ञवाटस्य सौवर्णाः सर्वे चासन्परिच्छदाः।।
यस्य सर्वं तदा ह्यन्नं मनोभिप्रायगं शुचि।
कामतो बुभुजुर्विप्राः सर्वे चान्नार्थिनो द्विजाः।
पयो दधि घृतं क्षौद्रं भक्ष्यं भोज्यं च शोभनम्।।
यस्य यज्ञेषु सर्वेषु वासांस्याभरणानि च।
ईप्सितान्युपतिष्ठन्ते प्रहृष्टान्वेदपारगान्।।
मरुतः परिवेष्टारो मरुत्तस्याभवन्गृहे।
आविक्षितस्य राजर्षेर्विश्वेदेवाः सभासदः।।
यस्य वीर्यवतो राज्ञः सुवृष्ट्या सस्यसम्पदः।
हविर्भिस्तर्पिता येन सम्यक्क्लृप्तैर्दिवौकसः।।
ऋषीणां च पितॄणां च देवानां सुखजीविनम्।
ब्रह्मचर्यश्रुतिमुखैः सर्वैर्दानैश्च सर्वदा।।
शयनासनपानानि स्वर्णराशीश्च दुस्त्यजाः।
तत्सर्वममितं वित्तं दत्तं विप्रेभ्य इच्छया।।
सोनुध्यातस्तु शक्रेण प्रजाः कृत्वा निरामयाः।
श्रद्दधानो जिताँल्लोकान्गतः पुण्यदुहोऽक्षयान्।।
सप्रजः सनृपामात्यः सदारापत्यबान्धवः।
यौवनेन सहस्राब्दं मरुत्तो राज्यमन्वशात्।।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
षोडशराजकीये पञ्चपञ्चाशत्तमोऽध्यायः।। 55 ।।