द्रोणपर्व
अध्यायः ३८
धृतराष्ट्र उवाच।
तथा प्रमथमानं तं महेष्वासानजिह्मगैः।
आर्जुनिं मामकाः सङ्ख्ये के त्वेनं समवारयन्।।
सञ्जय उवाच।
शृणु राजन्कुमारस्य रणे विक्रीडितं महत्।
बिभित्सतो रथानीकं भारद्वाजेन रक्षितम्।।
मद्रेशं सादितं दृष्ट्वा सौभद्रेणाशुगै रणे।
शल्यादवरजः क्रुद्ध क्रिन्बाणान्समभ्ययात्।।
स विद्ध्वा दशभिर्बाणैः साश्वयन्तारमार्जुनिम्।
उदक्रोशन्महाशब्दं तिष्ठतिष्ठेति चाब्रवीत्।।
तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हयान्।
छत्रं ध्वजं नियन्तारं त्रिवेणुं चाप्युपस्करम्।।
चक्रं युगं च तूणीरं ह्यनुकर्षं सायकैः।
पताकां चक्रगोप्तारौ सर्वोपकरणानि च।।
लघुहस्तः प्रचिच्छेद ददृशे तं न कश्चन।
स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः।।
वायुनेव महाचैत्यः समूलं चित्रवेदिकः।
अनुगास्तस्य वित्रस्ताः प्राद्रवन्सर्वतो दिशः।।
आर्जुनेः कर्म तद्दृष्ट्वा सम्प्रणेदुः समन्ततः।
नादेन सर्वभूतानि साधुसाध्विति भारत।।
शल्यभ्रातर्यथारुग्णे बहुशस्तस्य सैनिकाः।
कुलाधिवासनामानि श्रावयन्तोऽर्जुनात्मजम्।।
अभ्यधावन्त सङ्क्रुद्धा विविधायुधपाणयः।
रथैरश्वैर्गजैश्चान्ये पद्भिश्चान्ये बलोत्कटाः।।
बाणशब्देन महता रथनेमिस्वनेन च।
हुंकारैः क्ष्वेडितोत्कृष्टैः सिंहनादैः सगर्जितैः।।
ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम्।
ब्रुवन्तश्च न नो जीवन्मोक्ष्यसे जीवितादिति।।
तांस्तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव।
यो योस्मै प्राहरत्पूर्वं तं तं विव्याध पत्रिभिः।।
सन्दर्शयिष्यन्नस्त्राणि विचित्राणि लघूनि च।
आर्जुनिः समरे शूरो मृदुपूर्वमयुध्यत।।
वासुदेवादुपात्तं यदस्त्रं यच्च धनञ्जयात्।
अदर्शयत तत्कार्ष्णिः कृष्णाभ्यामविशेषवत्।।
दूरमस्य गुरुं भारं साध्वसं च पुनः पुनः।
सन्दधद्विसृजंश्चेषून्निर्विशेषमदृश्यत।।
चापमण्डलमेवास्य विस्फुरद्दिक्ष्वदृश्यत।
सुदीप्तस्य शरत्काले सवितुर्मण्डलं यथा।।
ज्याशब्दः शुश्रुवे तस्य तलशब्दश्च दारुणः।
महाशनिमुचः काले पयोदस्येव निःस्वनः।।
हीमानमर्षी सौभद्रो मानकृत्प्रियदर्शनः।
सम्मिमानयिषुर्वीरानिष्वस्त्रैश्चाप्ययुध्यत।।
मृदुर्भूत्वा महाराज दारुणः समपद्यत।
वर्षाभ्यतीतो भगवाञ्शरदीव दिवाकरः।।
शरान्विचित्रान्सुबहून्रुक्मपुङ्खाञ्शिलाशितान्।
मुमोच शतशः क्रुद्धो गभस्तीनिव भास्करः।।
क्षुरप्रैर्वत्सदन्तैश्च विपाठेश्च महायशाः।
नाराचैरर्धचन्द्राभैर्भल्लैरञ्जलिकैरपि।।
अवाकिरद्रथानीकं भारद्वाजस्य पश्यतः।
ततस्तत्सैन्यमभवद्विमुखं शरपीडितम्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
त्रयोदशदिवसयुद्धे अष्टत्रिंशोऽध्यायः।। 38 ।।