द्रोणपर्व
अध्यायः २७
सञ्जय उवाच।
यन्मां पार्थस्य सङ्ग्रामे कर्माणि परिपृच्छसि।
तृच्छृणुष्व महाबाहो पार्थो यदकरोद्रणे।।
रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिःस्वनम्।
भगदत्ते विकुर्वाणे कौन्तेयः कृष्णमब्रवीत्।।
यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन।
त्वरमाणोऽभिनिष्क्रान्तो ध्रुवं तस्यैष निःस्वनः।।
इन्द्रादनवरः सङ्ख्ये गजयानविशारदः।
प्रथमो गजघोधानां पृथिव्यामिति मे मतिः।।
स चापि द्विरदश्रेष्ठः सदाऽप्रतिगजो युधि।
सर्वशस्त्रातिगः सङ्ख्ये कृतकर्मा जितक्लमः।।
सहः सस्त्रनिपातानामग्निस्पर्शस्य चानघ।
स पाण्डवबलं सर्वमद्यैको नाशयिष्यति।।
`सिंहनादं महत्कृत्वा धनुर्बाणरवैः सह।
विद्राव्यमाणं सम्पश्य हतभूयिष्ठनायकम्।
दृष्ट्वा विनद्य सहसा मम सेनां प्रमृद्गति'।।
न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम्।
त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः।।
दृप्तं सङ्ख्ये द्विपबलाद्वयसा चापि विस्मितम्।
अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम्।।
वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः।
दीर्यते भगदत्तेन यत्र पाण्डववाहिनी।।
तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः।
संशप्तकाः समारोहन्सहस्राणि चतुर्दश।।
दशैव तु सहस्राणि त्रिगर्तानां महारथाः।
चत्वारि च सहस्राणि वासुदेवस्य चानुगाः।।
दीर्यमाणां चमूं दृष्ट्वा भगदत्तेन मानिष।
आहूयमानस्य च तैरभवद्धृदयं द्विधा।।
किन्नु श्रेयस्करं कर्म भवेदद्येत्यचिन्तयत्।
इह वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम्।।
तस्य बुद्ध्या विचार्यैवमर्जुनस्य कुरूद्वह।
अभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा।।
स सन्निवृत्तः सहसा कपिप्रवरकेतनः।
एको रथसहस्राणि निहन्तुं वासवी रणे।।
सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः।
अर्जुनस्य वधोपाये या वै द्वैधमकल्पयत्।।
स तु दोलायमानोऽबूद्द्वैधीभावेन पाण्डवः।
वधेन तु नराग्र्याणामकरोत्तां मृषा तदा।।
ततः शतसहस्राणि शराणां नतपर्वणाम्।
असृजन्नर्जुने राजन्संशप्तकमहारथाः।।
नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः।
न हया न रथो राजन्दृश्यन्ते स्म शरैश्चिताः।।
तदा मोहमनुप्राप्तः सिष्विदे हि जनार्दनः।
ततस्तान्प्रायशः पार्थो ब्रह्मास्त्रेण निजघ्निवान्।।
शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः।
केतवो वाजिनः सूता रथिनश्चापतन्क्षितौ।।
द्रुमाचलाग्राम्बुधरैः समकायाः सुकल्पिताः।
हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः।।
विप्रविद्धकुथा नागाश्छिन्नभाण्डाः परासवः।
सारोहास्तु रणे पेतुर्मथिता मार्गणैर्भृशम्।।
सर्ष्टिप्रासासिनखराः समुद्गरपरश्वथाः।
विच्छिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना।।
बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष।
संच्छिन्नान्यर्जुनशरैः शिरांस्युर्वी प्रपेदिरे।।
जज्वालालङ्कृता सेना पत्रिभिः प्राणिभोजनैः।
नानारूपैस्तदाऽमित्रान्क्रुद्धेनिघ्नति फल्गुने।।
क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव।
धनञ्जयं भूतगणाः साधुसाध्वित्यपूजयन्।।
दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवः।
विस्मयं परमं गत्वा प्राञ्जलिस्तमुवाच ह।।
कर्मैतत्पार्थ शक्रेण यमेन धनदेन च।
दुष्करं समरे यत्ते कृतमद्येति मे मतिः।।
युगपच्चैव सङ्ग्रामे शतशोऽथ सहस्रशः।
पतिता एव मे दृष्टाः संशप्तकमहारथाः।।
संशप्तकांस्ततो हत्वा भूयिष्ठा ये व्यवस्थिताः।
भगदत्ताय याहीति कृष्णं पार्थोऽभ्यनोदयत्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि
द्वादशदिवसयुद्धे सप्तविंशोऽध्यायः।। 27 ।।