द्रोणपर्व

अध्यायः २०२

Drona Parva (Sanskrit) · Adhyaya 202
अक्षर का आकार

सञ्जय उवाच।

तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनञ्जयः।
न्यवारयदमेयात्मा द्रोणपुत्रजयेप्सया।।

ततस्ते सैनिका राजन्सर्वे तत्रावतस्थिरे।
संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च।।

एक एव च बीभत्सुः सोमकावयवैः सह।
मात्स्यैरन्यैश्च संधाय कौरवान्सन्न्यवर्तत।।

ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम्।
सव्यसाची महेष्वासमश्वत्थामानमब्रवीत्।।

य शक्तिर्यच्च विज्ञानं यद्वीर्यं यच्च पौरुषम्।
धार्तराष्ट्रेषु या प्रीतिर्देषोऽस्मासु च यच्च ते।।

यच्च भूयोऽस्ति तेजस्ते तत्सर्वं मयि दर्शय।
स एव द्रोणहन्ता ते दर्पं छेत्स्यति पार्षतः।।

कालानलसमप्रख्यं द्विषामन्तकोपमम्।
समासादय पाञ्चाल्यं मां चापि सहकेशवम्।
दर्पं नाशयितास्म्यद्य तवोद्वृत्तस्य संयुगे।।

धृतराष्ट्र उवाच।

आचार्यपुत्रो मानार्हो बलवांश्चापि सञ्जय।
प्रीतिर्धनञ्जये चास्य प्रियश्चापि महात्मनः।।

न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम्।।
अथ कस्मात्स कौन्तेयः सखायं रूक्षमुक्तवान्।।

सञ्जय उवाच।

युवराजे हते चैव वृद्वक्षत्रे च पौरवे।
इष्वस्त्रविधिसम्पन्ने मालवे च सुदर्शने।।

धृष्टद्युम्ने सात्यकौ च भीमे चापि पारजिते।
युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते।

अन्तर्भेदे च सञ्जाते दुःखं संस्मृत्य च प्रभो।
अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत।।

तस्मादनर्हमश्लीलमप्रियं द्रोणिमुक्तवान्।
मान्यमाचार्यतनयं रूक्षं कापुरुषं यथा।।

एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप।
पार्थेन परुषं वाक्यं सर्वमर्मभिदा गिरा।।

द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः।
स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान्।।

देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे।
दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः।।

सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम्।
सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा।।

ततस्तुमुलमाकाशे शरवर्षमजायत।
पावकार्चिपरीतं तत्पार्थमेवाभिपुप्लुवे।।

उल्काश्च गगनात्पेतुर्दिशश्च न चकाशिरे।
तमश्च सहसा रौद्रं चमूमवततार ताम्।।

रक्षांसि च पिशाचाश्च विनेदुरतिसङ्गताः।
ववुश्चाशिशिरा वाताः सूर्यो नैव तताप च।।

वायसाश्चापि चाक्रन्दन्दिक्षु सर्वासु भैरवम्।
रुधिरं चापि वर्षन्तो निनेदुस्तोयदा दिवि।।

पक्षिणः पशवो गावो विनेदुश्चापि सुव्रताः।
परमं प्रयतात्मानो न शान्तिमुपलेभिरे।।

भ्रान्तसर्वमहाभूतमावर्तितदिवाकरम्।
त्रैलोक्यमभिसन्तप्तं ज्वराविष्टमिवाभवत्।।

अस्त्रतेजोभिसन्तप्ता नागा भूमिशयास्तथा।
निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः।।

जलजानि च सत्वानि दह्यमानानि भारत।
न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः।।

दिग्भ्यः प्रदिग्भ्यः खाद्भूमेः सर्वतः शरवृष्टयः।
उच्चावचा निपेतुर्वै गरुडानिलरंहसः।।

तैः शरैर्द्रोणपुत्रस्य वज्रवेगैः समाहताः।
प्रदग्धा रिपवः पेतुरग्निदग्धा इव द्रुमाः।।

दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः।
नदन्तो भैरवान्नादाञ्चलदोपमनिस्वनान्।।

अपरे प्रद्रुता नागा भयत्रस्ता विशाम्पते।
त्रेसुर्दिशो यथा पूर्वं वने दावाग्निसंवृताः।।

द्रुमाणां शिखराणीव दावदग्धानि मारिष।
अश्वबृन्दान्यदृश्यन्त रथबृन्दानि भारत।
अपतन्त रथौघाश्च तत्रतत्र सहस्रशः।।

तत्सैन्यं भयसंविग्नं ददाह युधि भारत।
युगान्ते सर्वभूतानि संवर्तक इवानलः।।

दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे।
प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे।।

ततस्तूर्यसहस्राणि नानालिङ्गानि भारत।
तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः।।

कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः।
तमसा संवृते लोके नादृश्यन्त महाहवे।।

नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम्।
यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा।।

अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत्।
सर्वास्त्रप्रतिघातार्थं विहितं पद्मयोनिना।।

ततो मुहूर्तादिव तत्तमो व्युपशशाम ह।
प्रववौ चानिलः शीतो दिशश्च विमला बभुः।।

तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम्।
अनभिज्ञेयरूपां च प्रदग्धामस्त्रतेजसा।।

ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ।
सहितौ प्रत्यदृश्येतां नभसीव तमोनुदौ।
ततो गण्डीवधनन्वा च केशवश्चाक्षतावुभौ।।

सपताकध्वजहयः सानुकर्षवरायुधः।
प्रबभौ सरथो युक्तस्तावकानां भयङ्करः।।

ततः किलकिलाशब्दः शङ्खभेरीस्वनैः सह।
पाण्डवानां प्रहृष्टानां क्षणेन समजायत।।

हताविति तयोरासीत्सेनयोरुभयोर्मतिः।
तरसाऽभ्यागतौ दृष्ट्वा सहितौ कैशवार्जुनौ।।

तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ।
दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताऽभवन्।।

विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः।
मुहूर्तं चिन्तयामास किन्त्वेतदिति मारिष।।

चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः।
निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्ततः।।

सञ्जय उवाच।

ततो द्रौणिर्धनुस्त्यक्त्वा रथात्प्रस्कन्द्य वेगितः।
धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा सम्प्राद्रवद्रणात्।।

ततः स्निग्धाम्बुदाभासं वेदावासमकल्मषम्।
वेदव्यासं सरस्वत्यावासं व्यासं ददर्श ह।।

तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वहम्।
सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत्।।

भोभो माया यदृच्छा वा दैवं वा किमिदं भवेत्।
अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः।।

अधरोत्तरमेतद्वा लोकानां वा पराभवः।
यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः।।

नासुरा न च गन्धर्वा न पिशाचा न राक्षसाः।
न सर्पा यक्षपतगा न मनुष्याः कथञ्चन।।

उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम्।
तदिदं केवलं हत्वा शान्तमक्षौहिणीं ज्वलत्।।

सर्वघानि मया मुक्तमस्त्रं परमदारुणम्।
केनेमौ मर्त्यधर्माणौ नाधाक्षीत्केशवार्जुनौ।।

एतत्प्रब्रूहि भगवन्मया पृष्टो यथातथम्।
श्रोतुमिच्छामि तत्त्वेन सर्वमेतन्महामुने।।

व्यास उवाच।

महान्तमेवमर्थं मां यं त्वं पृच्छसि विस्मयात्।
तं प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु।।

योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः।
`आदिदेवो जगन्नाथो लोककर्ता स्वयं प्रभुः।।

आद्यः सर्वस्य लोकस्य अनादिनिधनोऽच्युतः।
व्याकुर्वते यस्य तत्त्वं श्रुतयो मुनयश्च ह।।

अतोऽजय्यः सर्वभूतैर्मनसाऽपि जगत्पतिः।
तस्मादिमं जेतुकाम अज्ञानतमसा वृतः।।

मा शुचः पुरुषव्याघ्र विद्वि तद्वदिहार्जुनम्।
तस्य शक्तिरसौ पार्थास्तस्माच्छोकमिमं त्यज।।

विश्वेश्वरोऽयं लोकादिः परमात्मा ह्यधोक्षजः।
सहस्रसंहितादंशादेकांशोऽयमजायत।।

देवानां हितकामार्थं लोकानां चैव सत्तमः'।
अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत्।।

स तपस्तीव्रमातस्थे शिशिरं गिरिमास्थितः।
ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसन्निभः।।

षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च।
अशोषयत्तदाऽऽत्मानं वायुभक्षोऽम्बुजेक्षणः।।

अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत्।
द्यावापृथिव्योर्विवरं तेजसा समपूरयत्।।

स तेन तपसा तात ब्रह्मभूतो यदाऽभवत्।
ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम्।
ददर्श भृशदुर्धर्षं सर्वदेवैरभिष्टुतम्।।

अणीयांसमणुभ्यश्च बृहद्भ्यश्च बृहत्तमम्।
रुद्रमीशानवृषभं हरं शंभुं कपर्दिनम्।।

चेकितानं परां योनिं तिष्ठतो गच्छतश्च ह।
दुर्वारणं सुदुर्धर्षं दुर्निरीक्ष्यं दुरासदम्।
अतिमन्युं महात्मानं सर्वभूतप्रचेतसम्।।

दिव्यं चापमिषुधी चाददानं
हिरण्यवर्माणमनन्तवीर्यम्।
पिनाकिनं वज्रिणं दीप्तशूलं
परश्वथिं गदिनं चायतासिम्।।

वचोधिकैः सुष्टुतमिष्टवाग्भिः।।

जलं दिशं खं क्षितिं चन्द्रसूर्यौ
हुताशवायुप्रतिमं सुरेशम्।
नालं द्रष्टुं यं जना भिन्नवृत्ता
ब्रह्मद्विषघ्नममृतस्य योनिम्।।

यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः
क्षीणे पापे मनसा वीतशोकाः।
तन्निष्ठात्मा तपसा धर्ममीड्यं
तद्भक्त्या वै विश्वरूपं ददर्श।।

दृष्ट्वा चैनं वाड्मनोबुद्धिदेहैः
संहृष्टात्मा मुमुदे वासुदेवः।।

अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम्।
रुद्रं नारायणो दृष्ट्वा ववन्दे विश्वसम्भवम्।।

वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम्।
क्रीडमानं महात्मानं भूतसङ्घगणैर्वृतम्।।

अजमीशानमव्यक्तं कारणात्मानमच्युतम्।
अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने।
पद्माक्षस्तं विरुपाक्षमभितुष्टाव भक्तिमान्।।

श्रीनारायण उवाच।

न्नरान्सुपर्णानथ गन्धर्वयक्षान्।

पृथग्विधान्भूतसङ्घांश्च विश्वां--
स्त्वत्सम्भूतान्विद्म सर्वांस्तथैव।।

ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं
पैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम्।।

रूपं ज्योतिः शब्द आकाशवायुः
स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी।
कालो ब्रह्मा ब्रह्म च ब्राह्मणाश्च
त्वत्सम्भूताः स्थास्नु चरिष्णु चेदम्।।

अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं
ताथिश्चैक्यं संक्षये यान्ति भूयः।
एवं विद्वान्प्रभवं चाप्ययं च
त्वसम्भूतं तव सायुज्यमेति।।

त्वत्सम्भूतास्ते च तेभ्यः परस्त्वम्।।

भूतं भव्यं भविता चाप्रधृष्यं
त्वत्सम्भूता भुवनानीह विश्वा।
भक्तं च मां भजमानं भजस्व
प्रीत्या मां वै लोकपितामहेश।।

नभिष्टुतः प्रविकार्षीश्च मायाम्।।

व्यास उवाच।

तस्मै वरानचिन्त्यात्मा देवदेवः पिनाकधृत्।
विष्णवे देवमुख्याय प्रायच्छदृषिसंस्तुतः।।

श्रीभगवानुवाच।

मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु।
अप्रमेयबलात्मा त्वं नारायण भविष्यसि।।

न च त्वां प्रसहिष्यन्ति देवासुरमहोरगाः।
न पिशाचा न गन्धर्वा न यक्षा न च राक्षसाः।।

न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः।
न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति।।

न शस्त्रेण न वज्रेण नाग्निना न च वारिणा।
न चार्द्रेण न शुष्केण त्रसेन स्थावरेण च।।

न हस्तेन न पादेन न काष्ठेन न लोष्टुना।
कश्चित्तव रुजां कर्ता मत्प्रसादात्कथञ्चन।
अपि वै समरं गत्वा भविष्यसि ममाधिकः।।

एवमादीन्वराँल्लब्ध्वा प्रसादादथ शूलिनः।
स एष देवश्चरति मायया मोहयञ्जगत्।।

तस्यैव तपसा जातो नरो नाम महामुनिः।
तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा।।

तावेतौ पूर्वदेवानां परमोपचितादृषी।
लोकयात्राविधानार्थं दानवानां वधाय च।
धर्मसंस्थापनार्थाय सञ्जायेते युगेयुगे।।

तथैव कर्मणा कृत्स्नं महतस्तपरसोऽपि च।
तेजो वाग्भिश्च विद्वंस्त्वं जातो रुद्रान्महामते।।

स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत्।
अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया।।

शुभ्रमत्र हविः कृत्वा महापुरुषविग्रहम्।
ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद।।

स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतूतुषत्।
पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान्।।

जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः।
ताभ्यां लिङ्गेऽर्चितो देवस्त्वयाऽर्चायां युगेयुगे।
देवदेवस्त्वचिन्त्यात्मा अजेयो विष्णुसम्भवः।।

सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम्।
आत्मयोगाश्च तस्मिन्वै शास्त्रयोगाश्च शाश्वताः।।

एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः।
प्रार्थयन्ते परं लोके स्थाणुमेव च शाश्वतम्।।

[स एष* रुद्रभक्तश्च केशवो रुद्रसम्भवः।]
कृष्ण एव हि यष्टव्यो यज्ञैश्चैव सनातनः।।

सर्वभूतभवं ज्ञात्वा लिङ्गमर्चति यः प्रभोः।
तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः।।

सञ्जय उवाच।

तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः।
नमश्चकार रुद्राय बहुमेने च केशवम्।।

हष्टरोमा च वश्यात्मा सोऽभिवाद्य महर्षये।
वरूथिनीमभिप्रेक्ष्य ह्यवहारमकारयत्।।

ततः प्रत्यवहारोऽभूत्पाण्डवानां विशाम्पते।
कौरवाणां च दीनानां द्रोणे युधि निपातिते।।

युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम्।
ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि
पञ्चदशदिवसयुद्धे द्व्यधिकद्विशततमोऽध्यायः।। 202 ।।