द्रोणपर्व
अध्यायः १९५
धृतराष्ट्र उवाच।
अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन सञ्जय।
ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत्।।
मानवं वारुणाग्नेयं ब्राह्ममस्त्रं च वीर्यवान्।
ऐन्द्रं नारायणं चैव यस्मिन्नित्यं प्रतिष्ठितम्।।
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे।
श्रुत्वा निहतमाचार्यं सोऽश्वत्थामा किमब्रवीत्।।
येन रामादवाप्येह धनुर्वेदं महात्मना।
प्रोक्तान्यस्त्राणि दिव्यानि पुत्राय गुणकाङ्क्षिणा।।
एकमेव हि लोकेऽस्मिन्नात्मतो गुणवत्तरम्।
इच्छन्ति पुरुषाः पुत्रं लोके नान्यं कथञ्चन।।
आचार्याणां भवन्त्येव रहस्यानि महात्मनाम्।
तानि पुत्राय वा दद्युः शिष्यायानुगताय वा।।
स शिष्यः प्राप्य तत्सर्वं सविशेषं च सञ्जय।
शूरः शारद्वतीपुत्रः सङ्ख्ये द्रोणादनन्तरः।।
रामस्य तु समः शस्त्रे पुरन्दरसमो युधि।
कार्तवीर्यसमो वीर्ये बृहस्पतिसमो मतौ ।।
महीधरसमः स्थैर्ये तेजसाऽग्निसमो युवा।
समुद्र इव गाम्भीर्ये क्रोधे चाशीविषोपमः।।
स रथी प्रथमो लोके दृढधन्वा जितक्लमः।
शीघ्रोऽनिल इवाक्रन्दे चरन्क्रुद्ध इवान्तकः।।
अस्यता येन सङ्ग्रामे धरण्यभिनिपीडिता।
`मेघस्तनितनिर्घोषं कम्पते भयविह्वलाः'।
यो न व्यथति सङ्ग्रमे वीरः सत्यपराक्रमः।।
वेदस्नातो व्रतस्नातो धनुर्वेदे च पारगः।
महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा।।
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे।
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत्।।
धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना।
यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत्।।
तं नृशंसेन पापेन क्रूरेणादीर्घदर्शिना।
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि
पञ्चदशदिवसयुद्धे पञ्चनवत्यधिकशततमोऽध्यायः।। 195 ।।