द्रोणपर्व

अध्यायः १९३

Drona Parva (Sanskrit) · Adhyaya 193
अक्षर का आकार

सञ्चय उवाच।

[सात्वतस्य* तु तत्कर्म दृष्ट्वा दुर्योधनादयः।
शैनेयं सर्वतः क्रुद्धा वारयामासुरञ्जसा।।

कृपकर्णौ च समरे पुत्राश्च तव मारिष।।
शैनेयं त्वरयाऽभ्येत्य विनिघ्नन्निशितैः शरैः।।

युधिष्ठिरस्ततो राजा माद्रीपुत्रौ च पाण्डवौ।
भीमसेनश्च बलवान्सात्यकिं पर्यवारयन्।।

कर्णश्च शरवर्षेण गौतमश्च महारथः।
दुर्योधनादयस्ते च शैनेयं पर्यवारयन्।।

तां वृष्टिं सहसा राजन्नुत्थितां घोररूपिणीम्।
वारयामास शैनेयो योधयंस्तान्महारथान्।।

तेषामस्त्राणि दिव्यानि संहितानि महात्मनाम्।
वारयामास विधिवद्दिव्यैरस्त्रैर्महामृधे।।

क्रूरमायोधनं जज्ञे तस्मिन्राजसमागमे।
रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तान्पशून्पुरा।।

हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत।
छत्राणां चापविद्धानां चामराणां च सञ्चयैः।
राशयः स्म व्यदृश्यन्त तत्रतत्र रणाजिरे।।

भग्नचक्रै रथैश्चापि पातितैश्च महाध्वजैः।
सादिभिश्च हतैः शूरैः सङ्कीर्णा वसुधाऽभवत्।।

बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम।
चेष्टन्तो विविधाश्चेष्टा व्यदृश्यन्त महाहवे।।

वर्तमाने तथा युद्धे घोरे देवासुरोपमे।
अब्रवीत्क्षत्रियांस्तत्र धर्मराजो युधिष्ठिरः।।

अभिद्रवत संयत्ताः कुम्भयोनिं महारथाः।
एषो हि पार्पतो वीरो भारद्वाजेन सङ्गतः।।

घटते च यथाशक्ति भारद्वाजस्य नाशने।
यादृशानि हि रूपाणि दृश्यन्तेऽस्य महारणे।।

अद्य द्रोणं रणे क्रुद्धो घातयिष्यति पार्पतः।
ते यूयं सहिता भूत्वा युध्यध्वं कुम्भसम्भवम्।

युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः।
अभ्यद्रवन्त संयत्ता भारद्वाजजिघांसवः।।

तान्समापततः सर्वान्भारद्वाजो महारथः।
अभ्यवर्तत वेगेन मर्तव्यमिति निश्चितः।।

प्रयाते सत्यसन्धे तु समकम्पत मेदिनी।
ववुर्वाताः सनिर्घातास्त्रासयाना वरूथिनीम्।।

पपात महती चोल्का आदित्यान्निश्चरन्त्युत।
दीपयन्ती उभे सेने शंसन्तीव महद्भयम्।।

जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष।
रथाः स्वनन्ति चात्यर्थं हयाश्चाश्रूण्यवासृजन्।।

हतौजा इव चाप्यासीद्भारद्वाजो महारथः।
प्रास्फुरन्नयनं चास्य वामबाहुस्तथैव च।।

विमनाश्चाभवद्युद्धे दृष्ट्वा पार्षतमग्रतः।।

ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति।
सुयुद्धेन ततः प्राणानुत्स्रष्टुमुपचक्रमे।।]

ततश्चतुर्दिशं सैन्यैर्द्रुपदस्याभिसंवृतः।
निर्दहन्क्षत्रियव्रातान्द्रोणः पर्यचरद्रणे।।

हत्वा विंशतिसाहस्रान्क्षत्रियानरिमर्दनः।
दशायुतानि करिणामवधीद्विशिखैः शितैः।।

सोऽतिष्ठदाहवे यत्तो विधूमोऽग्निरिव ज्वलन्।
क्षत्रियाणामभावाय ब्राह्ममस्त्रं समास्थितः।।

पाञ्चाल्यं विरथं भीमो हतसर्वायुधं बली।
सुविपण्णं महात्मानं त्वरमाणः समभ्ययात्।।

ततः स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः।
अब्रवीदभिसम्प्रेक्ष्य द्रोणमस्यन्तमन्तिकात्।।

न त्वदन्य इहाचार्यं योद्धुमुत्सहते पुमान्।
त्वरस्व प्राग्वधायैव त्वयि भारः समाहितः।।

स तथोक्तो महाबाहुः सर्वभारसहं धनुः।
अभिपत्याददे क्षिप्रमायुधप्रवरं दृढम्।।

संरब्धश्च शरानस्यन्द्रोणं दुर्वारणं रणे।
विवारयिपुराचार्यं शरवर्षैरवाकिरत्।।

तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ।
उदीरयेतां ब्राह्माणि दिव्यान्यस्त्राण्यनेकशः।।

स महास्त्रैर्महाराज द्रोणमाच्छादयद्रणे।
निहत्य सर्वाण्यस्त्राणि भारद्वाजस्य पार्षतः।।

स वसातीञ्शिवींस्चैव वाह्लीकान्कौरवानपि।
रक्षिष्यमाणान्सङ्ग्रामे द्रोणं व्यधमदच्युतः।।

धृष्टद्युम्नस्तथा राजन्गभस्तिभिरिवांशुमान्।
वभौ प्रच्छादयन्नाशाः शरजालैः समन्ततः।।

तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः।
मर्माण्यभ्यहनद्भूयः स व्यथां परमामगात्।।

ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम्।
शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत्।।

यदि नाम न युध्येरञ्शिक्षिता ब्रह्मबन्धवः।
स्वकर्मभिरसन्तुष्टा न स्म क्षत्रं क्षयं व्रजेत्।।

अहिंसां सर्वभूतेषु धर्मं ज्यायस्तरं विदुः।
तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः।।

श्वपाकवन्म्लेच्छगणान्हत्वा चान्यान्पृथग्विधान्।
`भरन्ति हि सुतान्दारांस्तद्वदज्ञानमोहिताः'।।

अज्ञानान्मूढवद्ब्रह्मन्पुत्रदारधनेप्सया।
एकस्यार्थे बहून्हत्वा पुत्रस्याधर्मविद्यया।
स्वकर्मस्थान्विकर्मस्थो न व्यपत्रपसे कथम्।।

`आचारहीन निर्लज्ज ब्रह्मवन्धो वरायुध।
इदानीं तिष्ठ दुर्बुद्धे न मे जीवन्विमोक्ष्यसे।।

यस्यार्थे शस्त्रमादाय यमपेक्ष्य च जीवसि।
स चाद्य पतितः शेते पृष्टेनावेदितस्तवः।।

`स वै च निहतः शेते तव पुत्रः सुमन्दधीः'।
धर्मराजस्य तद्वाक्यं नाभिशङ्कितुमर्हसि।।

एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद्वनुः।
`सन्न्यासाय शरीरस्य योक्ष्यमाणः स वै द्विजः'।
सर्वाण्यस्त्राणि धर्मात्मा हातुकामोऽभ्यभापत।।

`कर्णं दुर्योधनं राजंस्त्वरमाणः पराक्रमम्'।
कर्णकर्ण महेष्वास कृप दुर्योधनेति च।।

सङ्ग्रामे क्रियतां यत्नो ब्रवीम्येष पुनःपुनः।
पाण्डवेभ्यः शिवं वोस्तु शस्त्रमभ्युत्सृजाम्यहम्।
इति तत्र महाराज प्राक्रोशद्द्रौणिमेव च।।

उत्सृज्य च रणे शस्त्रं रथोपस्थे निविश्य च।
अभयं सर्वभूतानां प्रददौ योगमीयिवान्।।

तस्य तच्छिद्रनाज्ञाय धृष्टद्युम्नः प्रतापवान्।
सशरं तद्वनुर्घोरं सन्न्यस्याथ रथे ततः।
खङ्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात्।।

`प्रद्रुते त्वथ द्रोणाय धृष्टद्युम्ने महारथे'।
हाहाकृतानि भूतानि मानुषाणीतराणि च।।

द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम्।
हाहाकारं भृशं चक्रुरहो धिगिति चाबुवन्।।

द्रोणोऽपि शस्त्राण्युत्सृज्य परमं साङ्ख्यमास्थितः।
तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः।।

पुराणं पुरुषं विष्णुं जगाम मनसा परम्।
मुखं किञ्चित्समुन्नाम्य विष्टब्योरस्तथाग्रतः।।

निमीलिताक्षः सत्वस्थो निक्षिप्य हृदि धारणाम्।
ओमित्येकाक्षरं ब्रह्म ज्योतिर्भूतो महातपाः।।

स्मरित्वा देवदेवेशमक्षरं परमं प्रभुम्।
दिवमाक्रामदाचार्यः साक्षात्सद्भिर्दुराक्रमाम्।।

`मूर्धानं तस्य निर्भिद्य ज्योती राजन्महात्मनः।
जगाम परमं स्थानं देहं न्यस्य रथोत्तमे'।।

द्वौ सूर्याविति नो बुद्धिरासीत्तस्मिंस्तथागते।
एकरूपमिवाभासीज्योतिर्भिः पूरितं नभः।।

समपद्यत चोल्काभं द्रोणस्य निधने तदा।
निमेषमात्रेण च तज्ज्योतिरन्तरधीयत।।

आसीत्किलकिलाशब्दः प्रहृष्टानां दिवौकसाम्।
ब्रह्मलोकगते द्रोणे धृष्टद्युम्ने च मोहिते।।

वयमेव तदाऽद्राक्ष्म पञ्च मानुषयोनयः।
योगयुक्तं महात्मानं गच्छन्तं परमां गतिम्।।

अहं धनञ्जयः पार्थः कृपः शारद्वतो द्विजः।
वासुदेवश्च वार्ष्णेयो धर्मपुत्रश्च पाण्डवः।।

अन्ये तु सर्वे नापश्यन्भारद्वाजस्य धीमतः।
महिमानं महाराज योगयुक्तस्य गच्छतः।
ब्रह्मलोकं महद्दिव्यं देवगुह्यं हि तत्परम्।।

गतिं परमिकां प्राप्तमजानन्तो नृयोनयः।
नापश्यन्गच्छमानं हि तं सार्धमृषिपुङ्गवैः।
आचार्यं योगमास्थाय ब्रह्मलोकमरिन्दमम्।।

वितुन्नाङ्गं शरव्रातैरन्यस्तायुधमसृक्क्षरम्।
विकृष्य पार्षतः खङ्गं क्रोधामर्षवशं गतः।
दृश्यमानः सर्वभूतैः केशपक्षे परामृशत्।।

तस्य मूर्धानमालम्ब्य गतसत्वस्य देहिनः।
किञ्चिदब्रुवतः कायाद्विचकर्तासिना शिरः।।

हर्षेण महता महता युक्तो भारद्वाजे निपातिते।
सिंहनादरवं चक्रे भ्रामयन्खङ्गमाहवे।।

आकर्णपलितः श्यामो वयसाऽशीतिपञ्चकः।
त्वत्कृते व्यचरत्सङ्ख्ये स तु षोडशवर्षवत्।।

उक्तवाश्च महाबाहुः कुन्तीपुत्रो धनञ्जयः।
जीवन्तमानयाचार्यं मा वधीर्द्रुपदात्मज।।

न हन्तव्यो न हन्तव्य इति ते सैनिकाश्च ह।
उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाव्रजत्।।

क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः।
धृष्टद्युम्नोऽवधीद्द्रोणं रथतल्पे नरर्षभम्।।

शोणितेन परिक्लिन्नो रथाद्भूमिमथापतत्।
लोहिताङ्ग इवादित्यो दुर्धर्षः समपद्यत।।

एवं तं निहतं सङ्ख्ये ददृशे सैनिको जनः।
धृष्टद्युम्नस्तु तद्राजन्भारद्वाजशिरोऽहरत्।।

तावकानां महेष्वासः प्रमुखे तत्समाक्षिपत्।
ते तु दृष्ट्वा शिरो राजन्भारद्वाजस्य तावकाः।।

पलायनकृतोत्साहा दुद्रुवः सर्वतोदिशम्।
द्रोणस्तु दिवमास्थाय नक्षत्रपथमाविशत्।।

अहमेव तदाऽद्राक्षं द्रोणस्य निधनं नृप।
ऋषेः प्रसादात्कृष्मस्य सत्यवत्याः सुतस्य च।।

विधूमामिह संयान्तीमुल्कां प्रज्वलितामिव।
अपश्याम दिवं स्तब्ध्वा गच्छन्तं तं महाद्युतिम्।।

हते द्रोणे निरुत्साहाः कुरुपाण्डवसृञ्जयाः।
अभ्यद्रवन्महावेगास्ततः सैन्यं व्यदीर्यत।।

निहता हतभूयिष्ठाः सङ्ग्रामे निशितैः शरैः।
तावका निहते द्रोणे गतासव इवाभवन्।।

पराजयमथावाप्य परत्र च महद्भयम्।
उभयेनैव ते हीना व्यनिन्दन्मतिमात्मनः।।

अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः।
नान्वगच्छन्महाराज कबन्धायुतसङ्कुले।।

`पतिते त्वथ संरब्धे सेनायां तत्र भारत।
उदिष्ठन्कबन्धानां सहस्राण्येकविंशतिः।।

शोणितेन परिक्लिन्ना रणभूमिश्च भारत।
लोहितार्द्र इवादित्यो दुर्दर्शश्चाभवत्तदा'।।

पाण्डवास्तु जयं लब्ध्वा परत्र च महद्यशः।
बाणशङ्खरवांश्चक्रुः सिंहनादांश्च पुष्कलान्।।

भीमसेनस्ततो राजन्धृष्टद्युम्नश्च पार्षतः।
वरूथिन्यामनृत्येतां परिष्वज्य परस्परम्।।

अब्रवीच्च तदा भीमः पार्षतं शत्रुतापनम्।
भूयोऽहं त्वां परिष्वज्य परिवक्ष्यामि पार्षत।
सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे।।

एतावदुक्त्वा भीमस्तु हर्षेण महता युतः।
बाहुशब्देन पृथिवीं कम्पयामास पाण्डवः।।

तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि।
क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः।।

पाण्डवास्तु जयं लब्धा हृष्टा ह्यासन्विशाम्पते।
अरिक्षयं च सङ्ग्रामे तेन ते सुखमाप्नुवन्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि
पञ्चदशदिवसयुद्धे त्रिनवत्यधिकशततमोऽध्यायः।। 193 ।।