द्रोणपर्व

अध्यायः १८८

Drona Parva (Sanskrit) · Adhyaya 188
अक्षर का आकार

सञ्जय उवाच।

ते तथैव महाराज दंशिता रणमूर्धनि।
सन्ध्यागतं सहस्रांशुमादित्यमुपतस्थिरे।।

उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे।
प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत।।

द्वन्द्वानि तत्र यान्यासन्संसक्तानि पुरोदयात्।
तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत।।

रथैर्हया हयैर्नागाः पादातैश्चापि कुञ्जराः।
हयैर्हयाः समाजग्मुः पादाताश्च पदातिभिः।।

रथा रथैरिभैर्नागास्तथैव भरतर्षभ।
संसक्ताश्च वियुक्ताश्च योधाः सन्न्यपतन्रणे।।

ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा।
क्षुत्पिपासापरीताङ्गा विसंज्ञा बहवोऽभवन्।।

शङ्खबेरीमृदङ्गानां कुञ्जराणां च गर्जताम्।
विष्फारितविकृष्टानां कार्मुकाणां च कूजताम्।।

शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ।
द्रवतां च पदातीनां शस्त्राणां पततामपि।।

हयानां हेषतां चापि रथानां च निवर्तताम्।
क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत्।।

विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महांस्तदा।
नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः।।

भूमावश्रूयत महांस्तदाऽऽसीत्कृपणं महत्।
पततां पात्यमानानां पत्त्यश्वरथदन्तिनाम्।।

तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः।
स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वान्परेषां परे परान्।

वीरबाहुविसृष्टाश्च योधेषु च गजेषु च।
राशयः प्रत्यदृश्यन्त वाससां नेजनेष्विव।।

उद्यतप्रतिपिष्टानां खङ्गानां वीरबाहुभिः।
स एव शब्दस्तद्रूपो वाससां निज्यतामिव।।

अर्धासिभिस्तथा खङ्गैस्तोमरैः सपरश्वथैः।
निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम्।।

गजाश्वकायप्रभवां नरदेहप्रवाहिनीम्।
शस्त्रमत्स्यसुसम्पूर्णां मांसशोणितकर्दमाम्।।

आर्तनादस्वनवतीं पताकाशस्त्रफेनिलाम्।
नदीं प्रावर्तयन्वीराः परलोकौघगामिनीम्।।

शरशक्त्यर्दिता क्लान्ता रात्रिमूढात्पचेतसः।
विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः।।

संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः।
युद्धोपकरणैश्चान्यैस्तत्रतत्र चकाशिरे।।

क्रव्यादसङ्घैराकीर्णं मृतैरर्धमृतैरपि।
नासीद्रथपथस्तत्र सर्वमायोधनं प्रति।।

मञ्जत्सु चक्रेषु रथान्सत्वमास्थाय वाजिनः।
कथञ्चिदवहन्श्रान्ता वेपमानाः शरार्दिताः।
कुलसत्वबलोपेता वाजिनो वारणोपमाः।।

विह्वलं तूर्णमुद्धान्तं सभयं भारतातुरम्।
बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ।।

तावेवास्तां निलयनं तावार्तायनमेव च।
तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम्।।

आविग्नमभवत्सर्वं कौरवाणां महद्बलम्।
पाञ्चालानां च संसक्तं न प्राज्ञायत किञ्चन।।

अन्तकाक्रीडसदृशं भीरूणां भयवर्धनम्।
पृथिव्यां राजवंश्यानामुत्थिते महति क्षये।।

न तत्र कर्णं द्रोणं वा नार्जुनं न युधिष्ठिरम्।
न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम्।।

न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ।
न कृपं मद्रराजं च कृतवर्माणमेव च।।

न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा।
पश्याम राजन्संसक्तान्सैन्येन रजसा धृतान्।।

सम्भ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते।
त्रियामामिव संप्राप्ताममन्यन्त निशाचराः।।

न ज्ञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः।
न दिशो द्यौर्न चोर्वी च न समं विषमं तथा।।

हस्तसंस्पर्शमापन्नान्परानप्यथवा स्वकान्।
न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः।।

उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च।
प्राशाम्यत रजो भौमं शीघ्रत्वादनिलस्य च।।

तत्र नागा हया योधा रथिनोऽथ पदातयः।
पारिजातवनानीव व्यरोचन्रुधिरोक्षिताः।।

ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा।
पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः।।

दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत।
वृकोदरेण राधेयो भारद्वाजेन चार्जुनः।।

तद्धोरं महदाश्चर्यं युद्धं दैवासुरोपमम्।
रथर्षभाणामुग्राणां सन्निपातममानुषम्।।

रथमार्गैर्विचित्रैस्तैर्विचित्ररथसङ्कुलम्।
अपश्यन्रथिनो युद्धं विचित्रं चित्रयोधिनाम्।।

यतमानाः पराक्रान्ताः परस्परजिगीषवः।
जीमूता इव घर्मान्ते शरवर्षैरवाकिरन्।।

ते रथान्सूर्यसङ्काशानास्थिताः पुरुषर्षभाः।
अशोभन्त यथा मेघाः शारदाश्चलविद्युतः।।

योधास्ते तु महाराज क्रोधामर्षसमन्विताः।
स्पर्धिनश्च महेष्वासाः कृतयत्ना धनुर्धराः।
अभ्यगच्छंस्तथाऽन्योन्यं मत्ता गजवृषा इव।।

न नूनं देहभेदोऽस्ति काले राजन्ननागते।
यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः।।

बाहुभिश्चपरणैश्चिन्नैः शिरोभिश्च सकुण्डलैः।
कार्मुकैर्विशिखैः प्रासैः खङ्गैः परशुपट्टसैः।।

नालीकैः क्षुद्रनाराचैर्नखरैः शक्तितोमरैः।
अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः।।

विचित्रैर्विविधाकारैः शरीरावरणैरपि।
विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः।।

शून्यैश्चैव नगाकारैर्हतयोधध्वजै रथैः।
अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः।।

वातायमानैरसकृद्धतवीरैरलंकृतैः।
व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः।।

छत्रैराभरणैर्वस्त्रैर्माल्यैश्च ससुगन्धिभिः।
हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः।।

उरस्थैर्मणिभिर्निष्कैश्चूडामणिभिरेव च।
आसीदायोधनं तत्र नभस्तारागणैरिव।।

ततो दुर्योधनस्यासीन्नकुलेन समागमः।
अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च।।

अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम्।
किरञ्छरशतैर्हृष्टस्तत्र नादो महानभूत्।।

अपसव्यं कृतं सङ्ख्ये भ्रातृव्येनात्यमर्षिणा।
नामृष्यत तमप्याजौ प्रतिचक्रे परन्तपः।
पुत्रस्तव महाराज राजा दुर्योधनो द्रुतम्।।

ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम्।
न्यवारयत तेजस्वी नकुलश्चित्रमार्गवित्।।

स सर्वतो निवार्यैनं शरजालेन पीडयन्।
विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन्।।

तिष्ठतिष्ठेति नकुलो बभाषे तनयं तव।
संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितं च तत्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि
चतुर्दशरात्रियुद्धे अष्टाशीत्यधिकशततमोऽध्यायः।। 188 ।।