द्रोणपर्व
अध्यायः १८६
सञ्जय उवाच।
ततो दुर्योधनो द्रोममभिगम्याब्रवीदिदम्।
अमर्षवशमापन्नो जनयन्हर्षतेजसी।।
दुर्योधन उवाच।
न मर्षणीयाः सङ्ग्रामे विश्रमन्तः श्रमान्विताः।
सपत्ना ग्लानमनसो लब्धलक्षा विशेषतः।।
यत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया।
त एते परिविश्रान्ताः पाण्डवा बलवत्तराः।।
सर्वथा परिहीनाः स्म तेजसा च बलेन च।
भवता पाल्यमानास्ते विवर्धन्ते पुनःपुनः।।
दिव्यान्यस्त्राणि सर्वाणि ब्राह्मादीनि च यानि ह।
तानि सर्वामि तिष्ठन्ति भवत्येव विशेषतः।।
न पाण्डवेया न वयं नान्ये लोके धनुर्धराः।
युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते।।
ससुरासुरगन्धर्वानिमाँलोकान्द्विजोत्तम।
सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशयः।।
स भवान्मर्षयत्येनांस्तव तुल्यानवेत्य च।
शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम्।।
सञ्जय उवाच।
एवमुद्धर्षितो द्रोणः कोपितश्च सुतेन ते।
समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः।।
स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे।
अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना।
अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः।।
0
यद्भवान्मन्यते चापि शुभं वा यदि वाऽशुभम्।
तद्वै कर्ताऽस्मि कौरव्य वचनात्तव नान्यथा।।
निहत्य सर्वपाञ्चालान्युद्धे कृत्वा पराक्रमम्।
विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे।।
मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे।
तस्य वीर्यं महाबाहो शृणु सत्येन कौरव।।
तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः।
उत्सहन्ते रणे जेतुं कुपितं सव्यसाचिनम्।।
खाण्डवे येन भगवान्प्रत्युद्यातः सुरेश्वरः।
सायकैर्वारितश्चापि वर्षमाणो महात्मना।।
यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः।
निहताः पुरुषेन्द्रेण तच्चापि विदितं तव।।
गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः।
यूयं तैर्ह्रियमाणाश्च मोक्षिता दृढधन्वना।।
निवातकवचाश्चापि देवानां शत्रवस्तथा।
सुरैरवध्याः सङ्ग्रामे तेन वीरेण निर्जिताः।।
दानवानां सहस्राणि हिरण्यपुरवासिनाम्।
विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम्।।
प्रत्यक्षं चैव ते सर्वं यथा बलमिदं तव।
क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशाम्पते।।
सञ्जय उवाच।
तं तदाऽभिप्रशंसन्तमर्जुनं कुपितस्तदा।
द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत्।।
अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे।
हनिष्यामोऽर्जुनं सङ्ख्ये द्विधा कृत्वाऽद्य भारतीम्।
`तिष्ठ स त्वं महाबाहो नित्यं शिष्यः प्रियस्तव'।।
तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव।
अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत्।।
को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा।
अक्षयं क्षपयेत्कश्चित्क्षत्रियः क्षत्रियर्षभम्।।
तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः।
नासुरोरगरक्षांसि क्षपयेयुः सहायुधम्।।
मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत।
युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान्।।
त्वं तु सर्वाभिशङ्कित्वान्निष्ठुरः पापनिश्चयः।
श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि।।
गच्छ त्वमपि कौन्तेयमात्मार्थे जहि माचिरम्।
त्वमप्याशंससे योद्धुं कुलजः क्षत्रियो ह्यसि।।
इमान्किं क्षत्रियान्सर्वान्घातयिष्यस्यनागसः।
त्वस्य मूलं वैरस्य तस्मादासादयार्जुनम्।।
एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः।
दुर्द्युतदेवी गान्धारे प्रयात्वर्जुनमाहवे।।
एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः।
देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान्।।
त्वया कथितमत्यर्थं कर्णेन सह हृष्टवत्।
असकृच्छून्यवन्मोहाद्वृतराष्ट्रस्य शृण्वतः।।
अहं च तात कर्णश्च भ्राता दुःशानश्च मे।
पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः।।
इति ते कत्थमानस्य श्रुतं संसदिसंसदि।
अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैः सह।।
एष ते पाण्डवः शत्रुरविशङ्कोऽग्रतः स्थितः।
क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात्।।
दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम्।
कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम्।।
इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे।
द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि
चतुर्दशरात्रियुद्धे षडशीत्यधिकशततमोऽध्यायः।। 186 ।।