द्रोणपर्व

अध्यायः १२८

Drona Parva (Sanskrit) · Adhyaya 128
अक्षर का आकार

सञ्जय उवाच।

समुत्तीर्णं रथानीकं पाण्डवं विहसन्रणे।
विवारयिषुराचार्यः शरवर्षैरवाकिरत्।।

पिबन्निव शरौघांस्तान्द्रोणचापपरिच्युतान्।
सोऽभ्यद्रवत सोदर्यान्मोहयन्बलमायया।।

तं मृधे वेगमास्थाय परं परमधन्विनः।
चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन्।।

स तैस्तु संवृतो भीमः क्रोधेन प्रदहन्निव।
उद्यच्छन्स गदां तेभ्यः सुघोरां सिंहवन्नदन्।
अवासृजच्च वेगेन शत्रुपक्षविनाशिनीम्।।

इन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना।
प्रामथ्नात्सा महाराज सैनिकांस्तव संयुगे।।

घोषेण महता राजन्पूरयन्तीव मेदिनीम्।
ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान्।।

तां पतन्तीं महावेगां दृष्ट्वा तेजोभिसंवृताम्।
प्राद्रवंस्तावकाः सर्वे नदन्तो बैरवान्रवान्।।

सिंहनादमसह्यं हि श्रुत्वा भीमस्य संयुगे।
प्रापतन्मुनुजास्त्रस्ता रथेभ्यो रथिनस्तदा।।

ते हन्यमाना भीमेन गदाहस्तेन तावकाः।
प्राद्रवन्त रणे भीता व्याघ्रघ्राता मृगा इव।।

स तान्विद्राव्य कौन्तेयः सङ्ख्येऽमित्रान्दुरासदान्।
सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम्।।

तथा तु विप्रकुर्वाणं रथयूथपयूथपम्।
भारद्वाजो महाराज भीमसेनं समभ्ययात्।।

भीमं तु समरे द्रोणो वारयित्वा शरोर्मिभिः।
अकरोत्सहसा नादं षाण्डूनां भयमादधत्।।

तद्युद्धमासीत्सुमहद्धोरं देवासुरोपमम्।
द्रोणस्य च महाराज भीमस्य च महात्मनः।।

यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिःसृतैः।
वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः।।

ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः।
निमील्य नयने राजन्पदातिर्द्रोणमभ्ययात्।।

अंसे शिरो भीमसेनः करौ कृत्वोरसि स्थिरौ।
वेगमास्थाय बलवान्मनोनिलगरुत्मताम्।।

यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया।
तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत्।।

स वध्यमानः समरे रथं द्रोणस्य मारिष।
ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः।।

द्रोणस्तु सत्वरो राजन्क्षिप्तो भीमेन संयुगे।
`ददृशे तावकैर्योधैर्विस्मयोत्फुल्ललोचनैः।
परिहृत्य रथं द्रोणश्चूर्णितं तं महीतले'।।

रथमन्यं समारुह्य व्यूहद्वारं ययौ पुनः।
तमायान्तं तथा दृष्ट्वा भग्नोत्साहं गुरुं तदा।।

गत्वा वेगात्पुनर्भीमो धुरं गृह्य रथस्य तु।
तमप्यतिरथं भीमश्चिक्षेप भृशरोषितः।।

एवमष्टौ रथाः क्षिप्ता भीमसेनेन लीलया।।

व्यदृश्यत निमेषेण पुनः स्वरथमास्थितः।
दृश्यते तावकैर्योधैर्विस्मयोत्फुल्ललोचनैः।।

तस्मिन्क्षणे तस्य यन्ता तूर्णमश्वानचोदयत्।
भीमसेनस्य कौरव्य तदद्भुतमिवाभवत्।।

ततः स्वरथमास्थाय भीमसेनो महाबलः।
अभ्यद्रवत वेगेन तव पुत्रस्य वाहिनीम्।।

स मृद्गन्क्षत्रियानाजौ वातो वृक्षानिवोद्धतः।
अगच्छद्दारयन्सेनां सिन्धुवेगो नगानिव।।

भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम्।
प्रमथ्य तरसा वीरस्तदप्यतिबलोऽभ्ययात्।।

सन्त्रासयन्ननीकानि तलशब्देन पाण्डवः।
अजयत्सर्वसैन्यानि शार्दूल इव गोवृषान्।।

भोजानीकमतिक्रम्य दरदानां च वाहिनीम्।
तथा म्लेच्छगणानन्यान्बहून्युद्धविशारदान्।।

सात्यकिं चैव सम्प्रेक्ष्य युध्यमानं महारथम्।
रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा।।

भीमसेनो महाराज द्रष्टुकामो धनञ्जयम्।
अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः।।

सोऽपश्यदर्जुनं तत्र युध्यमानं महारथम्।
सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी।।

तं दृष्ट्वा पुरुषव्याघ्रश्चुक्रोश महतो रवान्।
प्रावृट्‌काले महाराज नर्दन्निव बलाहकः।।

तं तस्य निनदं घोरं पार्थः शुश्राव नर्दतः।
वासुदेवश्च कौरव्य भीमसेनस्य संयुगे।।

तौ श्रुत्वा युगपद्वीरौ निनदं तस्य शुष्मिणः।
पुनः पुनः प्राणदतां दिदृक्षन्तौ वृकोदरम्।।

ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह।
अभ्ययातां महाराज नर्दन्तौ गोवृषाविव।।

भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः।
अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः।।

विशोकश्चाभवद्राजा श्रुत्वा तं निनदं तयोः।
धनञ्जयस्य समरे जयमाशास्तवान्विभिः।।

तथा तु नर्दमाने वै भीमसेने मदोत्कटे।
स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः।।

हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः।
दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा।।

न हि तेषां जयो युद्धे येषां द्वेष्टाऽसि पाण्डव।
दिष्ट्या जीवति सङ्ग्रमे सव्यसाची धनञ्जयः।।

दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः।
दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनञ्जयौ।।

येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः।
स हन्ता द्विषतां सङ्ख्ये दिष्ट्या जीवति फल्गुनः।।

यस्य बाहुबलं सर्वे वयमाश्रित्य जीविताः।
स हन्ता रि पुसैन्यानां दिष्ट्या जीवति फल्गुनः।।

निवातकवचा येन देवैरपि सुदुर्जयाः।
निर्जिता धनुषैकेन दिष्ट्या पार्थः स जीवति।।

कौरवान्सहितान्सर्वान्गोग्रहार्थे समागतान्।
योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति।।

कालकेयसहस्राणि चतुर्दश महारणे।
योऽवधीद्भुजवीर्येण दिष्ट्या पार्थः स जीवति।।

गन्धर्वराजं बलिनं दुर्योधनकृते च वै।
जितवान्योऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति।।

किरीटमाली बलवाञ्छेताश्वः कृष्णसारथिः।
मम प्रियश्च सततं दिष्ट्या पार्थः स जीवति।।

पुत्रशोकाभिसन्तप्तश्चिकीर्षन्कर्म दुष्करम्।
जयद्रथवधान्वेषी प्रतिज्ञां कृतवान्हि यः।
कच्चित्स सैन्धवं सङ्ख्ये हनिष्यति धनञ्जयः।।

कच्चित्तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम्।
अनस्तमित आदित्ये समेष्याम्यहमर्जुनम्।।

कच्चित्सैन्धवको राजा दुर्योधनहिते रतः।
नन्दयिष्यत्यमित्रान्हि फल्गुनेन निपातितः।।

कच्चिद्दुर्योधनो राजा फल्गुनेन निपातितम्।
दृष्ट्वा सैन्धवकं सङ्ख्ये शममस्मासु धास्यति।।

दृष्ट्वा विनिहतान्भ्रातॄन्भीमसेनेन संयुगे।
कच्चिद्दुर्योधनो मन्दः शममस्मासु यास्यति।।

दृष्ट्वा चान्यान्महायोधान्पातितान्धरणीतले।
कच्चिद्दुर्योधनो मन्दः पश्चात्तापं गमिष्यति।।

शेषस्य रक्षणार्थं च सन्धास्यति सुयोधनः।।
एवं बहुविधं तस्य राज्ञश्चिन्तयतस्तदा।

कृपयाऽभिपरीतस्य घोरं युद्धमवर्तत।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे अष्टाविंशत्यधिकशततमोऽध्यायः।। 128 ।।