द्रोणपर्व

अध्यायः १२६

Drona Parva (Sanskrit) · Adhyaya 126
अक्षर का आकार

सञ्जय उवाच।

व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः।
सुदूरमन्वयुः पार्थाः पाञ्चालाः सह सोमकैः।।

वर्तमाने तथा रौद्रे सङ्ग्रामे रोमहर्षणे।
सङ्क्षये जगतस्तीव्रे युगान्त इव भारत।।

द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः।
पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु।।

नापश्यच्छरणं कञ्चिद्वर्मराजो युधिष्ठिरः।
चिन्तयामास राजेन्द्र कथमेतद्भविष्यति।।

ततो विक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया।
युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम्।।

सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम्।
गाण्‍डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रियः।।

अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम्।
चिन्तयाभिपरीताङ्गो धर्मराजो युधिष्ठिरः।
नाध्यगच्छत्तदा शान्ति तावपश्यन्नरोत्तमौ।।

लोकोपक्रोशभीरुत्वाद्वर्मराजो महामनाः।
अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति।।

पदवीं प्रेषितश्चैव फल्गुनस्य मया रणे।
शैनेयः सात्यकिः सत्यो मित्राणामभयङ्करः।।

तदिदं ह्येकमेवासीद्द्द्विधा जातं ममाऽद्य वै।
सात्यकिश्च हि विज्ञेयः पाण्डवश्च धनञ्जयः।।

सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम्।
सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम्।।

परिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि।
युयुधानमनन्विष्य लोको मां गर्हयिष्यति।।

भ्रातुरन्वेषणं कृत्वा धर्मपुत्रो युधिष्ठिरः।
परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम्।।

लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम्।
पदवीं प्रेषयिष्यामि माधवस्य महात्मनः।।

यथैव च मम प्रीतिरर्जुने शत्रुमूदने।
तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे।।

अतिभारे नियुक्तश्च मया शैनेयनन्दनः।
स तु मित्रोपरोधेन गौरवात्तु महाबलः।
प्रविष्टो भारतीं सेनां मकरः सागरं यथा।।

असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम्।
मिथः संयुध्यमानानं वृष्णिवीरेण धीमता।।

प्राप्तकालं सुबलवन्निश्चितं बहुधा हि मे।
तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः।
गमनं रोचते मह्यं यत्र यातौ महारथौ।।

न चाप्यसह्यं भीमस्य विद्यते भुवि किञ्चिन।।

शक्तो ह्येष रणे यत्तः पृथिव्यां सर्वधन्विनाम्।
स्वबाहुबलमास्थाय प्रतिव्यूहितुमञ्जसा।।

यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः।
वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः।।

इतो गते भीमसेने सात्वतं प्रति पाण्‍डवे।
सनाथौ भवितारौ हि युधि सात्वतफल्गुनौ।।

कामं त्वशोचनीयौ तौ रणे सात्वतफल्गुनौ।
रक्षितौ वासुदेवेन स्वयं शस्त्रविशारदौ।।

अवश्यं तु मया कार्यमात्मनः शोकनाशनम्।
तस्माद्भीमं नियोक्ष्यामि सात्वतस्य पदानुगम्।।

ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति।।
एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः।

यन्तारमब्रवीद्राजा भीमं प्रति नयस्व माम्।।

धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः।
रथं हेमपरिष्कारं भीमान्तिकमुपानयत्।।

भीमसेनमनुज्ञाप्य प्राप्तकालमचिन्तयत्।
कश्मलं प्राविशद्राजा बहु तत्र समादिशत्।।

स कश्मलसमाविष्टो भीममाहूय पार्थिवः।
अब्रवीद्वचनं राजन्कुन्तीपुत्रो युधिष्ठिरः।

अब्रवीद्वचनं राजन्कुन्तीपुत्रो युधिष्ठिरः।।
यः सदेवान्सगन्धर्वान्दैत्यांश्चैकरथोऽजयत्।

तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते।।

सञ्जय उवाच।

ततोऽब्रवीद्धर्मराजं भीमसेनस्तथागतम्।
नैवाद्राक्षं नचाश्रौषं तव कश्मलमीदृशम्।।

पुरातिदुःखदीर्णानां भवान्गतिरभूद्धि नः।
उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते।।

न ह्यसाध्यमकार्यं वा विद्यते मम मानद।
आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः।।

सञ्जय उवाच।

तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन्।
भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः।।

श्रूयते पाञ्चजन्यस्य यथा शङ्खस्य निस्वनः।
पूरितो वासुदेवेन संरब्धेन यशस्विना।।

नूनमद्य हतः शेते तव भ्राता धनञ्जयः।
तस्मिन्विनिहते नूनं युध्यतेऽसौ जनार्दनः।।

यस्य सत्ववतो वीर्यं ह्युपजीवन्ति पाण्डवाः।
यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः।।

स शूरः सैन्धवप्रेप्सुरन्वयाद्भारतीं चमूम्।
तस्य वै गमनं विद्मो भीम नावर्तनं पुनः।।

श्यामो युवा गुडाकेशो दर्शनीयो महारथः।
व्यूढोरस्को महाबाहुर्मत्तद्विरदविक्रमः।।

चकोरनेत्रस्ताम्रास्यो द्विषतां भयवर्धनः।
`मम प्रियहितार्थं च शक्रलोकादिहागतः।।

वृद्धोपसेवी धृतिमान्कृतज्ञः सत्यसङ्गरः।
प्रविष्टो महतीं सेनामपर्यन्तां धनञ्जयः।।

प्रविष्टे च चमूं घोरामर्जुने शत्रुनाशने।
प्रेषितः सात्वतो वीरः फल्गुनस्य पदानुगः।।

तस्याभिगमनं जाने भीम नावर्तनं पुनः'।
तदिदं मम भद्रं ते शोकस्थानमरिन्दम।।

अर्जुनार्थे महाबाहो सात्वतस्य च कारणात्।
वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः।।

तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम्।
तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम्।।

स तं महारथं पश्चादनुयातस्तवानुजम्।
तमपश्यन्महाबाहुमदं विन्दामि कश्मलम्।।

`अथैनं पुनराचक्ष्व लोहिताक्षं सकेशवम्।
दृष्ट्वा कुशलिनं पार्थं सैन्धवान्ते ससात्यकिम्।।

संविदं मम कुर्यास्त्वं सिंहनादेन पाण्डव।।

नूनं विनिहतः शूरः सव्यासाची परन्तप'।
पार्थे तस्मिन्हते चैव युध्यते गरुडध्वजः।।

सहयो नास्य वै कश्चित्तेन विन्दामि कश्मलम्।
तस्मात्कृष्णो रणे नूनं युध्यते युद्धकोविदः।।

न हि मे शुध्यते भावस्तयोरेव परन्तप।
स तत्र गच्छ कौन्तेय यत्र यातो धनञ्जयः।।

सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे।
वचनं मम धर्मज्ञ भ्राता ज्येष्ठो भवामि ते।।

न मेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा।।

चिकीर्षुर्मत्प्रियं पार्थ स यातः सव्यसाचिनः।
पदवीं दुर्गमां घोरामगम्यामकृतात्मभिः।।

दृष्ट्वा कुशलिनौ कृष्णौ सात्वतं चैव सात्यकिम्।
संविदं चैव कुर्यास्त्वं सिंहनादेन पाण्‍डव।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे षड्विंशत्यधिकशततमोऽध्यायः।। 126 ।।