द्रोणपर्व
अध्यायः ११५
सञ्जय उवाच।
शृणुष्वैकमना राजन्यन्मां त्वं परिपृच्छसि।
द्राव्यमाणे बले तस्मिन्हार्दिक्येन महात्मना।।
लज्जयावनते चापि परिहृष्टे च तावके।
द्वीपो य आसीत्पाण्डूनामगाधे गाधमिच्छताम्।।
श्रुत्वा स निनदं भीमं तावकानां महाहवे।
शैनेयस्त्वरितो राजन्कृतवर्माणमभ्ययात्।।
उवाच सारथिं तत्र क्रोधामर्षसमन्वितः।
हार्दिक्याभिमुखं सूत कुरु मे रथमुत्तमम्।।
कुरुते कदनं पश्य पाण्डुसैन्ये ह्यमर्षितः।
एनं जित्वा पुनः सूत यास्यामि विजयं प्रति।।
एवमुक्ते तु वचने सूतस्तस्य महामते।
निमेषान्तरमात्रेण कृतवर्माणमभ्ययात्।।
कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः।
अवाकिरत्सुसंक्रुद्धस्ततोऽक्रुद्ध्यत्स सात्यकिः।।
अथाशु निशितं भल्लुं शैनेयः कृतवर्मणः।
प्रेषयामास समरे शरांश्च चतुरोऽपरान्।।
ते तस्य जघ्निरे वाहान्भल्लेनास्याच्छिनद्धनुः।
पृष्ठरक्षं तथा सूतमविध्यन्निशितैः शरैः।।
ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः।
सेनामस्यार्दयामास शरैः सन्नतपर्वभिः।।
अभज्यताथ पृतना शैनेयशरपीडिता।
`पलायनकृतोत्साहा भ्रमन्ती तत्रतत्र ह'।
ततः प्रायात्स त्वरितः सात्यकिः सत्यविक्रमः।।
शृणु राजन्यदकरोत्तव सैन्येषु वीर्यवान्।
अतीत्य स महाराज द्रोणानीकमहार्णवम्।।
पराजित्य तु संहृष्टः कृतवर्माणमाहवे।
यन्तारमब्रवीच्छूरः शनैर्याहीत्यसम्भ्रमम्।।
दृष्ट्वा तु तव तत्सैन्यं रथाश्वद्वि पसङ्कुलम्।
पदातिजनसम्पूर्णमब्रवीत्सारथिं पुनः।।
यदेतन्मेघसङ्काशं द्रोणानीकस्य सव्यतः।
सुमहत्कुञ्जरानीकं यस्य रुक्मरथो मुखम्।।
एते हि बहवः सूत दुर्निवार्याश्च संयुगे।
दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः।।
राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः।
`न चाजित्वा रणे ह्येताञ्शक्यः प्राप्तुं जयद्रथः।।
नापि सूत मया पार्थः शक्यः प्राप्तुं कथञ्चन।
एते तिष्ठन्ति सहिताः सर्वविद्यासु निष्ठिताः'।।
त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः।
मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः।।
अत्र मां प्रापय क्षिप्रमश्वांश्चोदय सारथे।
त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः।।
सञ्जय उवाच।
ततः प्रायाच्छनैः सूतः सात्वतस्य मते स्थितः।
रथेनादित्यवर्णेन भास्वरेण पताकिना।।
तमूहुः सारथेर्वश्या वल्गमाना हयोत्तमाः।
वायुवेगसमाः सङ्ख्ये कुन्देन्दुरजतप्रभाः।।
आपतन्तं रणे तं तु शङ्खवर्णैर्हयोत्तमैः।
परिववुस्ततः शूरा गजानीकेन सर्वतः।
किरन्तो विविधांस्तीक्ष्णान्सायकाँल्लघुवेधिनः।।
सात्वतोऽपि शितैर्बाणैर्गजानीकमयोधयत्।
पर्वतानिव वर्षेण तपान्ते जलदो महान्।।
वज्राशनिसमस्पर्शैर्वध्यमानाः शरैर्गजाः।
प्राद्रवन्रणमुत्सृज्य शिनिवीरसमीरितैः।।
शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डिकाः।
विशीर्णकर्णास्यकरा विनियन्तृपताकिनः।।
सम्भिन्नवर्मघण्टाश्च विनिकृत्तमहाध्वजाः।
हतारोहा दिशो राजन्भेजिरे भ्रष्टकम्बलाः।।
रुवन्तो विविधान्नादाञ्जलदोपमनिःस्वनाः।
नारचैर्वत्सदन्तैश्च भल्लैरञ्जलिकैस्तथा।।
क्षुरप्रैरर्धचन्द्रैश्च सात्वतेन विदारिताः।
क्षरन्तोऽसृक्तथा मूत्रं पुरीषं च प्रदुद्रुवुः।
बभ्रुमुश्चस्खलुश्चान्ये पेतुर्मम्लुस्तथाऽपरे।।
एवं तत्कुञ्जरानीकं युयुधानेन पीडितम्।
शरैरग्न्यर्कसङ्काशैः प्रदुद्राव समन्ततः।।
तस्मिन्हते गजानीके जलसन्धो महाबलः।
यत्तः सम्प्रापयन्नागं रजताश्वरथं प्रति।।
रुक्मवर्मधरः शूरस्तपनीयाङ्गदः शुचिः।
कुण्डली मकुटी खङ्गी रक्तचन्दनरूषितः।।
शिरसा धारयन्दीप्तां तपनीयमयीं स्रजम्।
उरसा धारयन्निष्कं कण्ठसूत्रं च भास्वरम्।।
चापं च रुक्मविकृतं विधुन्वन्गजमूर्धनि।
अशोभत महाराज सविद्युदिव तोयदः।।
तमापतन्तं सहसा मागधस्य गजोत्तमम्।
सात्यकिर्वारयामास वेलेव मकरालयम्।।
नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः।
अक्रुध्यत रणे राजञ्जलसन्धो महाबलः।।
ततः क्रुद्धो महाराज मार्गणैर्भारसाधनैः।
अविध्यत शिनेः पौत्रं जलसन्धो महोरसि।।
ततोऽपरेण भल्लेन पीतेन निशितेन च।
अस्यतो वृष्णिवीरस्य निचकर्त शरासनम्।।
सात्यकिं छिन्नधन्वानां प्रहसन्निव भारत।
अविध्यन्मागधो वीरः पञ्चभिर्निशितैः शरैः।।
स विद्धो बहुभिर्बाणैर्जलसन्धेन वीर्यवान्।
नाकम्पत महाबाहुस्तदद्भुतमिवाभवत्।।
अचिन्तयन्वै स शरान्नात्यर्थं सम्भ्रमाद्बली।
धनुरन्यत्समादाय तिष्ठतिष्ठेत्युवाच ह।।
एतावदुक्त्वा शैनेयो जलसन्धं महोरसि।
विव्याध षष्ट्या सुभृशं शराणां प्रहसन्निव।।
क्षुरप्रेण सुतीक्ष्णेन मुष्टिदेशे महद्धनुः।
जलसन्धस्य चिच्छेद विव्याध च त्रिभिः शरैः।।
जलसन्धस्तु तत्त्यक्त्वा सशरं वै शरासनम्।
तोमरं व्यसृजत्तूर्णं सात्यकिं प्रति मारिष।।
स निर्भिद्य भुजं सव्यं माधवस्य महारणे।
अभ्यगाद्धरणीं घोरः श्वसन्निव महोरगः।।
निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः।
त्रिंशद्भिर्विशिखैस्तीक्ष्णैर्जलसन्धमताडयत्।।
प्रगृह्य तु ततः खङ्गं जलसन्धो महाबलः।
आर्षभं चर्म च महच्छतचन्द्रकसङ्कुलम्।
आविध्य च ततः खङ्गं सात्वतायोत्ससर्ज ह।।
शैनेयस्य धनुश्छित्त्वा स खङ्गो न्यपतन्महीम्।
अलातचक्रवच्चैव व्यरोचत महीं गतः।।
अथान्यद्धनुरादाय सर्वकायावदारणम्।
`जलसन्धमभिप्रेक्ष्य उत्स्मयित्वा च माधवः'।।
शालस्कन्धप्रतीकाशमिन्द्राशनिसमस्वनम्।
विष्फार्य विव्यधे क्रुद्धो जलसन्धं शरेण ह।।
ततः साभरणौ बाहू क्षुराभ्यां माधवोत्तमः।
साङ्गदौ जलसन्धस्य चिच्छेद प्रहसन्निव।।
तौ बाहू परिघप्रख्यौ पेततुर्गजसत्तमात्।
वसुन्धराधराद्धष्टौ पञ्चशीर्षाविवोरगौ।।
ततः सुदंष्ट्रं सुहनु चारुकुण्डलमण्डितम्।
क्षुरेणास्य तृतीयेन शिरश्चिच्छेद सात्यकिः।।
तत्पातितशिरोबाहुकबन्धं भीमदर्शनम्।
द्विरदं जलसन्धस्य रुधिरेणाभ्यषिञ्चत।।
जलसन्धं निहत्याजौ त्वरमाणस्तु सात्वतः।
विमानं पातयामास गजस्कन्धाद्विशांपते।।
रुधिरेणावसिक्ताङ्गौ जलसन्धस्य कुञ्जरः।
विलम्बमानमवहत्संश्लिष्टं परमासनम्।।
शरार्दितः सात्वतेन मर्दमानः स्ववाहिनीम्।
घोरमार्तस्वरं कृत्वा विदुद्राव महागजः।।
हाहाकारो महानासीत्तव सैन्यस्य मारिष।
जलसन्धं हतं दृष्ट्वा वृष्णीनामृपभेण तु।।
विमुखाश्चाभ्यधावन्त तव योधाः समन्ततः।
पलायनकृतोत्साहा निरुत्साहा द्विषञ्जये।।
एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः।
`सन्न्यस्य भारं सुमहत्कृतवर्मणि भारत।।
अभ्ययाज्जवनैरश्वैर्युयुधानं महारथम्।
स हि पार्थान्रणे यत्तान्दधारैको महाबलः'।।
तमुदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुङ्गवाः।
द्रोणेनैव सह क्रुद्धा सात्यकिं समुपाद्रवन्।।
ततः प्रववृते युद्धं कुरूणां सात्वतस्य च।
द्रोणस्य च रणे राजन्घोरं देवासुरोपमम्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे पञ्चदशाधिकशततमोऽध्यायः।। 115 ।।