भीष्मपर्व
अध्यायः ८९
धृतराष्ट्र उवाच।
दृष्ट्वा मे निहतान्पुत्रान्बहूनेकेन सञ्जय ।
भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे।।
अहन्यहनि मे पुत्राः क्षयं गच्छन्ति सञ्जय ।
मन्येऽहं सर्वथा पुत्रान्दैवेनोपहतान्भृशम् ।।
यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत ।
यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः ।।
सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः ।
अश्वत्थाम्नस्तथा तात शूराणामनिवर्तिनाम् ।।
अन्येषां चैव शूराणां मध्यगास्तनया मम ।
यदहन्यन्त संग्रामे किमन्यद्भागधेयतः ।।
न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत ।
वार्यमाणो मया तात भीष्मेण विदुरेण च ।।
गन्धार्या चैव दुर्मेधाः सततं हितकाम्यया ।
नाबुध्यत पुरा मोहात्तस्य प्राप्तमिदं फलम् ।।
यद्भीमसेनः समरे पुत्रान्मम विचेतसः ।
अहन्यहनि संक्रुद्धो नयते यमसादनम् ।।
इदं तत्समनुप्राप्तं क्षत्तुर्वचनमुत्तमम् ।
न बुद्धवानस्मि विभो प्रोच्यमानमिदं तदा ।।
निवारय सुतं द्यूतात्पाण्डवान्मा द्रुहेति च ।
सुहृदां हितकामानां ब्रुवतां तत्तदेव च ।।
न शृणोमि पुरा वाक्यं मर्त्यः पथ्यमिवौषधम् ।
तदिदं समनुप्राप्तं वचनं साधु भाषितम् ।।
विदुरद्रोणभीष्माणां तथाऽन्येषां हितैषिणाम् ।
अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः ।।
तदेतत्समतिक्रान्तं पूर्वमेव हि सञ्जय।
तस्मान्मे वद तत्त्वेन यथा युद्धमवर्तत ।।
सञ्जय उवाच।
मध्याह्ने मुमहारौद्रः संग्रामः समुपद्यत।
लकक्षयकरो राजंस्तन्मे निगदतः शृणु ।।
ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्।
संरब्धान्यभ्यवर्तन्त भीष्ममेव जिघांसया ।।
धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः ।
युक्तानीका महाराज भीष्ममेव समभ्ययुः ।।
विराटो द्रुपदश्चैव सहिताः सर्वसोमकैः ।
अभ्यद्रवन्त संग्रामे भीष्ममेव महारथम् ।।
केकया धृष्टकेतुश्च कुन्तिभोजश्च दंशितः ।
शुक्तानीका महाराज भीष्ममेव समभ्ययुः ।।
अर्जुनो द्रौपदश्चैव कुन्तिभोजश्च दंशितः ।
दुर्योधनसमादिष्टान्राज्ञः सर्वान्समभ्ययुः ।।
अभिमन्युस्तथा शूरो हैडिम्बश्च महारथः ।
भीमसेनश्च संक्रुद्धस्तेऽभ्यधावन्त कौरवान् ।।
त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि।
तथैव कौरवै राजन्नवध्यन्त परे रणे ।।
द्रोणस्तु रथिनां श्रेष्ठः सोमकान्सृञ्जयैः सह ।
अभ्यधावत संक्रुद्धः प्रेषयिष्यन्यमक्षयम् ।।
तत्राक्रन्दो महानासीत्सृञ्जयानां महात्मानाम् ।
वध्यतां समरे राजन्भारद्वाजेन धन्विना ।।
द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे।
विचेष्टन्तो हृदृश्यन्त व्याधिक्लिष्टा वरा इव ।।
कूजतां क्रन्दतां चैव स्तनतां चैव भारत।
अनिशं शुश्रुवे शब्दः क्षुत्क्लिष्टानां नृणामिव ।।
तथैव कौरवेयाणां भीमसेनो महाबलः ।
चकार कदनं घोरं क्रुद्धः काल इवापरः ।।
वध्यतां तत्र सैन्यानामन्योन्येन महारणे ।
प्रावर्तत नदी घोरा रुधिरौघपरवाहिनी ।।
स संग्रामो महाराज घोररूपोऽभवन्महान् ।
कुरूणां पाणडवानां च यमराष्ट्रविवर्धनः ।।
ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः।
गजानीकं समासाद्य प्रेषयामास मृत्यवे ।।
तत्र भारत भीमेन नाराचाभिहता गजाः ।
पेतुर्नेदुश्च सेदुश्च दिशश्च परिबभ्रमुः ।।
छिन्नहस्ता महानागाश्छिन्नगात्राश्च मारिष ।
क्रौञ्चवद्व्यनदन्भीताः पृथिवीमधिशेरते ।।
नकुलः सहदेवश्च हयानीकमभिद्रुतौ।
ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः ।।
वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः।
पतिद्भिस्तुरगै राजन्समास्तीर्यत मेदिनी ।।
निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः ।
हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा ।।
अर्जुनेन हतैः सङ्ख्ये तथा भारत राजभिः ।
प्रबभौ वसुधा घोरा तत्रतत्र विशांपते ।।
रथैर्भग्नैर्ध्वजैश्छिन्नैर्निकृत्तैश्च महायुधैः ।
चामरैर्व्यजनैश्चैव च्छत्रैश्च सुमहाप्रभैः ।।
हरैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः ।
उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वशः ।।
अनुकर्षैः शुभै राजन्योक्रैश्चैव सरश्मिभिः ।
संकीर्णा वसुधा भाति वसन्ते कुसुमैरिव ।।
एवमेष क्षयो वृत्तः पाण्डूनामपि भारत।
क्रुद्धे शान्तनवे भीष्मे द्रोणे च रथसत्तमे ।।
अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि।
तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः ।।
।। इति श्रीमन्महाभरते भीष्मपर्वणि भीष्मवधपर्वणि
अष्टमदिवसयुद्धे एकोननवतितमोऽध्यायः ।।