भीष्मपर्व

अध्यायः ८७

Bhishma Parva (Sanskrit) · Adhyaya 87
अक्षर का आकार

सञ्जय उवाच।

परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः।
कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः ।।

ततः शब्दो महानासीत्सेनयोरुभयोर्नृप ।
निर्गच्छमानयोः सङ्ख्ये यथा सागरयोरिव ।।

ततो दुर्योधनो राजा चित्रसेनो विविंशतिः।
भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः ।।

एकीभूताः सुसंयत्ताः कौरवाणां महाचमूम् ।
व्यूहाय विदधू राजन्पाण्डवान्प्रतिदंशितान् ।।

कूर्मव्यूहं ततः कृत्वा पिता तव विशांपते ।
सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम् ।।

अग्रतः सर्वसैन्यानां भीष्मः शान्तनवो ययौ ।
मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः ।।

ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान ।
पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः ।।

द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान् ।
मगधैश्च कलिङ्गैश्च पिशाचैश्च विशांपते ।।

प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः ।
मेकलैः कुरुविन्दैश्च त्रैपुरैश्च समन्विताः ।।

बृहद्बलादनु नृपस्त्रिगर्तः प्रस्थलाधिपः।
काम्भोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः ।।

द्रौणिस्तु रभसः शूरस्त्रैगर्तादनु भारत।
प्रययौ सिंहनादेन नादयानो धरातलम् ।।

तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा।
द्रौणेरनन्तरं प्रायात्सोदर्यैः परिवारितः ।।

दुर्योधनादनु ततः कृपः शारद्वतो ययौ।
एवमेष महाव्यूहः प्रययौ सागरोपमः ।।

रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि भारत ।
अङ्गदान्यत्र चित्राणि महार्हाणि धनूंषि च ।।

तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः ।
युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतनापतिम् ।।

पश्य व्यूहं महेष्वास निर्मितं सागरोपमम् ।
प्रतिव्यूहं रणे शूर कुरु क्षिप्रं महारथ ।।

ततः स पार्षतः क्रूरो व्यूहं चक्रे सुदारुणम् ।
श्रृङ्गाटकं महाराज परव्यूहविनाशनम् ।।

श्रृङ्गाभ्यां भीमसेनश्च सात्यकिश्च महारथः ।
रथैरनेकसाहस्रैस्तथा हयपदातिभिः ।।

नाभावभून्नरश्रेष्ठः श्वेताश्वः कृष्णसारथिः ।
मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ ।।

अथेतरे महेष्वासाः सहसैन्या नराधिपाः ।
व्यूहं तं पूरयामासुर्व्यूहशास्त्रविशारदाः ।।

अभिमन्युस्ततः पश्चाद् विराटश्च महारथः ।
द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः ।।

एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः ।
अतिष्ठन्समरे शूरा योद्धुकामा जयैषिणः ।।

भेरीशब्दैश्च विमलैर्विमिश्रैः शङ्खनिःस्वनैः ।
क्ष्वेडितास्फोटितोत्क्रुष्टैर्नादिताः सर्वतो दिशः ।।

ततः शूराः समासाद्य समरे ते परस्परम।
नेत्रैरनिमिषै राजन्नवैक्षन्त परस्परम् ।।

`मनोभिस्ते मनुष्येन्द्र युद्धं योधाः प्रचक्रिरे ।'
पुनराहूय तेऽन्योन्यं शरीरैरपि चक्रिरे ।।

ततः प्रववृते युद्धं घोररूपं भयावहम् ।
तावकानां परेषां च निघ्नतामितरेतरम् ।।

नाराचा निशिताः सङ्ख्ये संपतन्ति स्म भारत ।
व्यात्तानना भयकरा उरगा इव सङ्घशः ।।

निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः ।
अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः ।।

गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः।
पतन्त्यस्तत्र दृस्यन्ते गिरिशृङ्गोपमाः शुभाः ।।

निस्त्रिंशाश्च व्यदृश्यन्त विमलाम्बरसन्निभाः ।
आर्षभाणि च चर्माणि शतचन्द्राणि भारतत ।।

अशोभन्त रणे राजन्पात्यमानानि सर्वशः ।
तेऽन्योन्यं समरे सेने युध्यमाने नराधिप ।।

अशोभेतां यथा देवदैत्यसेने समुद्यते।
अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः ।।

रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे।
युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः ।।

दन्तिनां युध्यमानानां संघर्षात्पावकोऽभवत् ।
दन्तेषु भरतश्रेष्ठ सधूमः सर्वतो दिशम् ।।

प्रासैरभिहताः केचिद्गजयोधाः समन्ततः ।
पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव ।।

पादाताश्चाप्यदृश्यन्त निघ्नन्तोऽथ परस्परम् ।
चित्ररूपधराः शूरा नखरप्रासयोधिनः ।।

अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः ।
अस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम् ।।

ततः शान्तनवो भीष्मो रथघोषेण नादयन् ।
अभ्यागमद्रणे पार्थान्धनुःशब्देन मोहयन् ।।

पाण्डवानां रथाश्चापि नदन्तो भैरवं स्वनम् ।
अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः ।।

ततः प्रववृते युद्धं तव तेषां च भारत।
नराश्वरथनागानां व्यतिषक्तं परस्परम् ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
अष्टमदिवसयुद्धे सप्ताशीतितमोऽध्यायः ।।