भीष्मपर्व

अध्यायः २

Bhishma Parva (Sanskrit) · Adhyaya 2
अक्षर का आकार

वैशंपायन उवाच।

ततः पूर्वापरे सैन्ये समीक्ष्य भगवानृषिः।
सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः ।।

भविष्यति रणे घोरे भरतानां पितामहः ।
प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित् ।।

वैचित्रवीर्यं राजानं रहस्स्थमिदमब्रवीत् ।
शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा ।।

व्यास उवाच।

राजन्परिकालास्ते पुत्राश्चान्ये च पार्थिवाः।
ते हिंसन्तीव सङ्ग्रामे समासाद्येतरेतरम् ।।

तेषु कालपरीतेषु विनश्यत्स्वेव भारत ।
कालपर्यायमाहाय मा स्म शोके मनः कृथा ।।

यदि चेच्छसि संग्रामं द्रुष्टुमेनं विशांपते ।
चक्षुर्ददानि ते पुत्र युद्धमेतन्निशामया ।।

धृतराष्ट्र उवाच।

न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम।

युद्धमेतत्त्वशेषेण श्रृणुयां तव तेजसा ।।

वैशंपायन उवाच।

तस्मिन्ननिच्छति द्रष्टुं संग्रामं श्रोतुमिच्छति।
वराणामीश्वरो व्यासः संजयाय वरं ददौ ।।

व्यास उवाच।

एष ते संजयो राजन्युद्धमेतद्वदिष्यति।
एतस्य सर्वं संग्रामे न परोक्षं भविष्यति ।।

चक्षुषा संजयो राजन्दिव्येनैव समन्वितः ।
कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति ।।

प्रकाशं वाऽप्रकाशं वा दिवा वा यदि वा निशि ।
मनसा चिन्तितमपि सर्वं वेत्स्यति संजयः ।।

नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः ।
गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते ।।

अहं तु कीर्तिमेतेषां करूणां भरतर्षभ ।
पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः ।।

दिष्टमेतन्नरव्याघ्र नाभिशोचितुमर्हसि ।
न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः ।।

वैशंपायन उवाच।

एवमुक्त्वा स भगवान्कुरूणां प्रतितामहः ।
पुनरेव महाभागो धृतराष्ट्रमुवाच ह ।।

इह युद्धे महाराज भविष्यति महान्क्षयः ।
तथेह च निमित्तानि भयदान्युपलक्षये ।।

श्येना गृध्राश्च काकाश्च काङ्काश्च सहिता बकैः ।
संपतन्ति ध्वजाग्रेषु समवायांश्च कुर्वते ।।

अभ्यग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः ।
क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनां ।।

कटाकटेति वाशन्तो भैरवा भयवेदिनः ।
कङ्काः क्रोशन्ति मध्याह्ने दक्षिणामभितो दिशं ।।

उभे पूर्वापरे सन्ध्ये नित्यं पश्यामि भारत ।
उदयास्तमने सूर्यं कबन्धैः परिवारितम् ।।

श्वेतलोहितपर्यन्ताः कृष्णाग्रीवाः सविद्युतः ।
त्रिवर्णाः परिघाः सन्धौ भानुमावारयन्त्युत ।।

ज्वलितार्के .......त्रं निर्विशेषदिनक्षपम् ।
चन्द्रोऽभूतग्निवर्णश्च पद्मवर्णे नभस्तले ।

आलक्षे प्रभया हीनां पौर्णमासीं च कीर्तिकीम् ।
चन्द्रोऽभूदग्निवर्णश्च पद्मवर्णे नभस्तले ।।

स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः ।
राजानो राजपुत्राश्च शूराः परिघबाहवः ।।

अन्तरिक्षे वराहस्य पृषदंशकस्य चोभयोः।
प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये ।।

देवताप्रतिमाश्चैव कम्पन्ति च हसन्ति च।
वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च।।

अनाहता दुन्दुभयः प्रणदन्ति विशांपते ।
अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः ।।

कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा ।
सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ।।

गृहीतशस्त्राः क्रोशन्ति चर्मिणो वाजिपृष्ठगाः ।
अरुणोदये प्रदृश्यन्ते शतशः शलभव्रजाः ।।

उभे सन्ध्ये प्रकाशन्ते दिशो दाहसमन्विते।
पर्जन्यः पांसुवर्षी च मांसवर्षी च भारत ।।

या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसंमता।
अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः ।।

रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः ।
व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् ।।

अनभ्रे च महाघोरस्तनितं श्रूयते भृशम् ।
वाहनानां च रुदतां निपतन्त्युश्रुबिन्दवः ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि
जम्बूखण्डविनिर्माणपर्वणि द्वितीयोऽध्यायः ।।