भीष्मपर्व

अध्यायः १३

Bhishma Parva (Sanskrit) · Adhyaya 13
अक्षर का आकार

वैशंपायन उवाच।

अथ गावल्गणिर्विद्वान्संयुगादेत्य भारत।
प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित् ।।

ध्यायते धृतराष्ट्राय सहसोत्पत्य दुःखितः ।
आचष्ट निहतं भीष्मं भरतानां पितामहम् ।।

सञ्जय उवाच।

सञ्जयोऽहं महाराज नमस्ते भरतर्षभ।
हतो भीष्मः शान्तनवो भरतानां पितामहः ।।

ककुदं सर्वयोधानां धाम सर्वधनुष्मताम्।
शरतल्पगतः सोऽद्य शेते कुरुपितामहः।।

यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत्।
स शेते निहतो राजन्संख्ये भीष्मः शिखण्डिना ।।

यः सर्वान्पृथिवीपालान्समवेतान्महामृधे ।
जिगायैकरथेनैव काशिपुर्यां महारथः ।।

जामदग्न्यं रणे रामं योऽयुध्यदपसंभ्रमः ।
न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना ।।

महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव ।
समुद्र इव गाम्भीर्यो सहिष्णुत्वे धरासमः ।।

शरदंष्ट्रो धनुर्वक्रः खङ्गिजिह्वो दुरासदः।
नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः ।।

पाण्डवानां महासैन्यं यं दृष्ट्वोद्यतमाहवे।
प्रावेपत भयोद्विग्नं सिंह दृष्ट्वेव गोगणः ।।

परिरक्ष्य स सेनां ते दशरात्रमनीकहा ।
जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ।।

यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः।
जघान युधि योधानामर्बुदं दशभिर्दिनैः ।।

स शेते निहतो भूमौ वातभग्न इव द्रुमः।
तव दुर्मन्त्रिते राजन्यथा नार्हः स भारत ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि
भगवद्गीतापर्वणि त्रयोदशोऽध्यायः ।।