भीष्मपर्व
अध्यायः १२२
सञ्जय उवाच।
ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः ।
तूष्णींभूते महाराज भीष्मे शन्तनुनन्दने ।।
श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः ।
ईषदागतसंत्रासस्त्वरयोपजगाम ह ।।
स ददर्श महात्मानं शरतल्पगतं तदा।
जन्मशय्यागतं वीरं कार्तिकेयमिव प्रभुम् ।।
निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषा ।
अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः ।।
राधेयोऽहं कुरुश्रेष्ठ नित्यमक्षिगतस्तव ।
द्वेष्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह ।।
तच्छ्रुत्वा कुरुवृद्धो हि शरैः संवृतलोचनः।
रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः ।।
पितेव पुत्रं गाङ्गेयः परिरभ्यैकपाणिना ।
शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत् ।।
न विप्रियं ममैवेह यत्स्पर्धेथा मया सह ।
यदि मां नाधिगच्छेथा न ते श्रेयो ध्रुवं भवेत् ।।
कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता।
सूर्यजस्त्वं महाबाहो विदितो नारदान्मया ।।
कृष्णद्वैपायनाच्चैव तेजसा च न संशयः ।
न च द्वेषोस्ति मे तात त्वयि सत्यं ब्रवीमि ते ।।
तेजोवधनिमित्तं तु परुषं त्वाहमब्रुवम्।
अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम ।।
येनासि बहुशो राज्ञा चोदितः सूतनन्दन ।
जातोऽसि धर्मलोपेन ततस्ते बुद्धिरीदृशी ।।
नीचाश्रयान्मत्सरेण द्वेषिणी गुमिनामपि ।
तेनासि बहुशो रूक्षं श्रावितः कुरुसंसदि ।।
जानामि समरे वीर्यं शत्रुभिर्दुःसहं भुवि ।
ब्रह्मण्यतां च शौर्यं च दाने च परमां स्थितिम् ।।
न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम।
कुलभेदभयाच्चाहं सदा परुषमुक्तवान् ।।
इष्वस्त्रे भारसंधाने लाघवेऽस्त्रबले तथा ।
सदृशः फल्गुनेनासि कृष्णेन च महात्मना ।।
कर्ण काशिपुरं गत्वा त्वयैकेन धनुष्मता ।
कन्यार्थे कुरुराजस्य राजानो मृदिता युधि ।।
तथा च बलवान्राजा जरासन्धो दुरासदः।
समरे समरश्लाघिन्न त्वया सदृशोऽभवत्।।
ब्रह्मण्यः सत्त्वयोधी च तेजसा च बलेन च ।
देवगर्भसमः सङ्ख्ये मनुष्यैरधिको युधि ।।
व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः ।
दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ।।
सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन।
संगच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम् ।।
मया भवतु निर्वृत्तं वैरमादित्यनन्दन ।
पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः ।।
कर्ण उवाच।
जानाम्येव महाबाहो सर्वमेतन्न संशयः।
यथा वदसि मे भीष्म कौन्तेयोऽहं न सूतजः ।।
अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः।
भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे ।।
वसुदेवसुतो यद्वत्पाण्डवाय दृढव्रतः ।
वमु चैव शरीरं च पुत्रदारं तथा यशः ।।
सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण ।
मा चैतद्व्याधिमरणं क्षत्रं स्यादिति कौरव ।।
कोपिताः पाण्डवा नित्यं मयाऽश्रित्य सुयोधनम् ।
अवश्यभावी ह्यर्थोऽयं यो न शक्यो निवर्तितुम् ।।
दैवं पुरुषकारेण को विवर्तितुमुत्सहेत्।
पृथिवीक्षयसंशीनि निमित्तानि पितामह ।।
भवद्भिरुपलब्धानि कथितानि च संसदि ।
पाण्डवा वासुदेवश्च विदिता मम सर्वशः।।
अजेयाः पुरुषैरन्यैरिति तंश्चोत्सहामहे।
विजयिष्ये रणे पाण्डूनिति मे निश्चितः मनः ।।
न च शक्यमवस्रष्टुं वैरमेतत्सुदारुणम् ।
धनंजयेन योत्स्येऽहं स्वधर्मप्रीतमानसः ।।
अनुजानीष्व मां तात युद्धाय कृतनिश्चयम् ।
अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः ।।
दुरुक्तं विप्रतीपं वा रभसाच्चापलात्तथा ।
यन्मयेह कृतं किंचित्तन्मे त्वं क्षन्तुमर्हसि ।।
भीष्म उवाच।
न चेच्छक्यमवस्रष्टुं वैरमेतत्सुदारुणम्।
अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया ।।
निर्मन्युर्गतसंरम्भः कृतकर्मा रणे स्म ह।
यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान् ।।
अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि ।
क्षत्रधर्मजिताँल्लोकानवाप्स्यसि धनंजयात् ।।
युध्यस्व निरहंकारो बलवीर्यव्यपाश्रयः ।
धर्म्याद्धि युद्धादधिकं क्षत्रियस्य न विद्यते ।।
प्रशमे हि कृतो यत्नः सुमहान्सुचिरं मया।
न चैव शकितः कर्तुं यतो धर्मस्ततो जयः ।।
सञ्जय उवाच।
इत्युक्तवति गाङ्गेये अभिवाद्योपमन्त्र्य च।
राधेयो रथमारुह्य प्रायात्तव सुतं प्रति ।।
` वैशंपायन उवाच।
इत्येतद्बहुवृत्तान्तं भीष्मपर्वाखिलं मया।
शृण्वते ते महाराज प्रोक्तं पापहरं शुभम् ।।
यः श्रावयेत्सदा राजन्ब्राह्मणान्वेदपारगान् ।
श्रद्धावन्तश्च ये चापि श्रोष्यन्ति मनुजा भुवि ।।
विधूय सर्वपापानि विहायान्ते कलेवरम् ।
प्रयान्ति तत्पदं विष्णोर्यत्प्राप्य न निवर्तते ।।
तस्मात्सर्वप्रयत्नेन भारतं भरतर्षभ।
शृणुयात्सिद्धिमन्विच्छन्निह वामुत्र मानवः ।।
भोजनं भोजयेद्विप्रान्गन्धमाल्यैरलङ्कृतान् ।
भीष्मपर्वणि राजेन्द्र दद्यात्पानीयमुत्तमम् ।।'
।। इति श्रीमन्महाभारते शतसाहस्त्र्यां संहितायां वैयासिक्यां
भीष्मपर्वणि भीष्मवधपर्वणि द्वाविंशत्यधिकशततमोऽध्यायः ।।
।। समाप्तं भीष्मवधपर्व भीष्मपर्व च ।।