भीष्मपर्व
अध्यायः १०५
सञ्जय उवाच।
दृष्ट्वा भीष्मं रणे युद्धं पाण्डवैरभिसंवृतम्।
यथा मेघैर्महाराज तपान्ते दिवि भास्करम् ।।
दुर्योधनो महाराज दुःशासनमभाषत।
एष शूरो महेष्वासो भीष्मः शूरनिषूदनः ।।
छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ ।
तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः ।।
रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः ।
निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह ।।
तत्र कार्यतमं मन्ये भीष्मस्यैवाभिरक्षणम् ।
गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं महाव्रतः ।।
स भवान्सर्वसैन्येन परिवार्य पितामहम् ।
समरे कर्म कुर्वाणं दुष्करं परिरक्षतु ।।
सञ्जय उवाच।
स एवमुक्तः समरे पुत्रो दुःशासनस्तव।
परिवार्य स्थितो भीष्मं सैन्येन महता वृतः ।।
ततः शतसहस्राणां हयानां सुबलात्मजः ।
विमलप्रासहस्तानामृष्टितोमरधारिणाम् ।।
दर्पितानां सुवेगानां बलस्थानां पताकिनाम् ।
शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः ।।
नकुलं सहदेवं च धर्मराजं च पाण्डवम् ।
न्यवारयन्नरश्रेष्ठान्परिवार्य समन्ततः ।।
ततो दुर्योधनो राजा शूराणां हयसादिनाम् ।
अयुतं प्रेषयामास पाण्डवानां निवारणे ।।
तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे।
खुराहता धरा राजंश्चकम्पे च ननाद च ।।
खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा।
महावंशवनस्येव दह्यमानस्य पर्वते ।।
उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः।
दिवाकररथं प्राप्य च्छादयामास भास्करम् ।।
वेगवद्भिर्हयैस्तैस्तु क्षोभिता पाण्डवीक चमूः।
निपतद्भिर्महावेगैर्हंसैरिव महत्सरः ।।
हेषतां चैव शब्देन न प्राज्ञायत किंचन ।
`अन्तर्दधे महाञ्शब्दस्तेन शब्देन मोहितः।।'
ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ।
प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम् ।।
उद्वृत्तस्य महाराज प्रावृट्कालेऽतिपूर्यतः।
पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः ।।
ततस्ते रथिनो राजञ्शरैः सन्नतपर्वभिः।
न्यकृन्तन्नुत्तमाङ्गानि शरेण हयसादिनाम् ।।
ते निपेतुर्महाराज निहता दृढधन्विभिः ।
नागैरिव महानागा यथावद्गिरिगह्वरे ।।
तेऽपि प्रासैः सुनिशितैः शरैः सन्नतपर्वभिः ।
न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश ।।
अभ्याहता हयारोहा ऋष्टिभिर्भरतर्षभ ।
अत्यजन्नुत्तमाङ्गानि फलानीव महाद्रुमाः ।।
समादिनो हया राजंस्तत्रतत्र निषूदिताः।
पतिताः पात्यमानाश्च प्रत्यदृश्यन्त सर्वशः ।।
वध्यमाना हयाश्चैव प्राद्रवन्त भयार्दिताः।
यथा सिंहं समासाद्य मृगाः प्राणपरायणाः ।।
पाण्डवाश्च महाराज जित्वा शत्रून्महामृधे ।
दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे ।।
ततो दुर्योधनो दीनो दृष्ट्वा सैन्यं पराजितम् ।
अब्रवीद्रतश्रेष्ठ मद्रराजमिदं वचः ।।
एष पाण्डुसुतो ज्येष्ठो यमाभ्यां सहितो रणे ।
पश्यतां वो महाबाहो सेनां द्रावयति प्रभो ।।
तं वारय महाबाहो वेलेव मकरालयम् ।
त्वं हि संश्रूयसेऽत्यर्थमसह्यबलविक्रमः ।।
सञ्जय उवाच।
पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान्।
स ययौ रथवंशेन यत्र राजा युधिष्ठिरः ।।
तदापतद्वै सहसा शल्यस्य सुमहद्बलम् ।
महौघवेगं समरे वारयामास पाण्डवः ।।
मद्रराजं च समरे धर्मराजो महारथः।
दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे ।
नकुलः सहदेवश्च तं सप्तभिरजिह्नगैः ।।
मद्रराजोऽपि तान्सर्वानाजघान त्रिभिस्त्रिभिः ।
युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः ।।
माद्रीपुत्रौ च संभ्रान्तौ द्वाभ्यां द्वाभ्यामताडयत्।
ततो भीमो महाबहुर्दृष्ट्वा राजनमाहवे।।
मद्रराजवशं प्राप्तं मृत्योरास्यगतं यथा।
अभ्यपद्यत संग्रामे युधिष्ठिरममित्रजित् ।।
`आपतन्नेव भीमस्तु मद्रराजमताडयत्।'
सर्वपारशवैस्तीक्ष्णैर्नाराचैर्मर्मभेदिभिः ।।
ततो भीष्मश्च द्रोणश्च सैन्येन महता वृतौ।
राजानमभ्यपद्येतामञ्जसा शरवर्षिणौ ।।
ततो युद्धं महाघोरं प्रावर्तत सुदारुणम्।
अपरां दिशमास्थाय द्योतमाने दिवाकरे ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
नवमदिवसयुद्धे पञ्चाधिकशततमोऽध्यायः ।।