आश्वमेधिकपर्व
अध्यायः ३६
अर्जुन उवाच।
ब्रह्म यत्परमं ज्ञेयं तन्मे व्याख्यातुमर्हसि।
भतो हि प्रसादेन सूक्ष्मे मे रमते मतिः।।
वासुदेव उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह।।
कश्चिद्ब्राह्मणमासीनमाचार्यं संशितव्रतम्।
शिष्यः पप्रच्छ मेधावी किंस्विच्छ्रेयः परंतप।।
भगवन्तं प्रपन्नोऽहं निःश्रेयसपराणः।
याचे त्वां शिरसा विप्र यद्ब्रूयां ब्रूहि तन्मम।।
तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह।
कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज।।
इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः।
प्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते।।
शिष्य उवाच।
कुतश्चाहं कुतश्च त्वं तत्सत्यं ब्रूहि यत्परम्।
कुतो जातानि भूतानि स्थावराणि चराणि च।।
केन जीवन्ति भूतानि तेषामायुश्च किं परम्।
किं सत्यं किं तपो विप्र के गुणाः सद्भिरीरिताः।।
के पन्थानः शिवाश्च स्युः किं सुखं कि च दुष्कृतम्।
एतान्मे भगवन्प्रश्नान्याथातथ्येन सुव्रत।।
वक्तुमर्हसि विप्रर्षे यथावदिह तत्त्वतः।
त्वदन्यः कश्च न प्रश्नानेतान्वक्तुमिहार्हति।।
ब्रूहि धर्मविदां श्रेष्ठ परं कौतूहलं मम।
मोक्षधर्मार्थकुशलो भवाँल्लोकषु गीयते।।
सर्वसंशयसंच्छेत्ता त्वदन्यो न च विद्यते।
संसारभीरवश्चैव मोक्षकामास्तथा वयम्।।
वासुदेव उवाच।
तस्मै सम्प्रतिपन्नाय यथावत्परिपृच्छते।
शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने।।
छायाभूताय दान्ताय यतते ब्रह्माचारिणे।
तान्प्रश्नानब्रवीत्पार्थ मेधावी स धृतव्रतः।
गुरुः कुरुकुलश्रेष्ठ सम्यक्सर्वानरिंदम।।
गुरुरुवाच।
ब्रह्मणोक्तमिदं धर्ममृषिप्रवरसेवितम्।
वेदविद्यासमावाप्तं तत्त्वभूतार्थभावनम्।।
ज्ञानं त्वेव परं विद्यः संन्यासं तप उत्तमम्।
यस्तु वेद निराबाधं ज्ञानतत्त्वं विनिश्चयात्।
सर्वबूतस्थमात्मानं स सर्वगतिरिष्यते।।
ये विद्वान्सहसंवासं विवासं चैव पश्यति।
तथैवैकत्वनानात्वे स दुःखात्परिमुच्यते।।
यो न कामयते किञ्चिन्न किञ्चिदभिमन्यते।
इह लोकस्थ एवैष ब्रह्मभूयाय कल्पते।।
प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित्।
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः।।
अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान्।
महाहङ्कारविटप इन्द्रियाङ्कुरकोटरः।।
महाभूतविशेषश्च विशेषप्रतिशाखवान्।
सदापर्णः सदापुष्पः शुभाशुभफलोदयः।।
आजीवः सर्वभूतानां ब्रह्मबीजः सनातनः।
एतज्ज्ञात्वा च तत्त्वानि ज्ञानेन परमासिना।
छित्त्वा चामरतां प्राप्य जहाति मृत्युजन्मनी।।
भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम्।
सिद्धसङ्घपरिज्ञातं पुराकल्पं सनातनम्।।
प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य ते।
बुद्ध्वा यदिहं संसिद्धा भवन्तीह मनीषिणः।।
उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम्।
प्रजापतिभरद्वाजौ गौतमो भार्गवस्तथा।।
वसिष्ठः कश्यपश्चैव विश्वामित्रोऽत्रिरेव च।
मार्गान्सर्वान्परिक्रम्य परिश्रान्तः स्वकर्मभिः।।
ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः।
ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम्।।
तं प्रणम्य महात्मानं सुखासीनं महर्षयः।
पप्रच्छुर्विनयोपेता नैःश्रेयसमिदं परम्।।
कथं कर्म कृतं साधु कथं मुच्येत किल्बिषात्।
के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुष्कृतं।।
कौ चोभौ कर्मणां मार्गौ प्राप्नुयुर्दक्षिणोत्तरौ।
निरयं चापवर्गं च भूतानां प्रभवाप्ययौ।।
इत्युक्तः स मुनिश्रेष्ठैर्यदाह प्रपितामहः।
तत्तेऽहं सम्प्रवक्ष्यामि शृणु शिष्य यथागमम्।।
ब्रह्मोवाच।
सत्याद्भूतानि जातानि स्थावराणि चराणि च।
तपसा तानि जीवन्ति जीवितं तद्धि सुव्रतम्।
स्वां योनिं पुनरागम्य वर्तते स्वेन कर्मणा।।
सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम्।।
ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः।
सत्याद्भूतानि जातानि सत्यं भूतमयं जगत्।।
तस्मात्सत्याश्रया विप्रा नित्यं योगपरायणाः।
अतीक्रोधसंतापा नियता धर्मसेतवः।।
अन्योन्यनियतान्वैद्यान्धर्मसेतुप्रवर्तकान्।
तानहं सम्प्रवक्ष्यामि शाश्वताँल्लोकभावनान्।।
चातुर्विद्यं तथा वर्णांश्चातुराश्रमिकान्पृथक्।
धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः।।
पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः।
नियतं ब्रह्मभावाय यातं पूर्वं मनीषिभिः।।
गदन्तस्तु ममाद्येह पन्थानं दुर्विदं परैः।
निबोधत महाभागा निखिलेन परं पदम्।।
ब्रह्मचर्यमिहैवाहुराश्रमं प्रथमं पदम्।
गार्हस्थ्यं तु द्वितीयं स्याद्वानप्रस्थमतः परम्।
ततः परं तु विज्ञेयमध्यात्मं परमं पदम्।।
ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिः।
नोपैति यावदध्यात्मं तावदेतान्न पश्यति।।
तस्योपायं प्रवक्ष्यामि पुरस्तात्तं निबोधत।
फलमूलानिलभुजां मुनीनां वसतां वने।।
वानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते।
सर्वेषामेव वर्णानां गृहस्थोऽयं विशिष्यते।।
श्रद्धालक्षणमित्येकं धर्मं धीराः प्रचक्षते।
`नैष्ठिकोऽथ यतिर्वाऽपि विरक्तो ब्रह्मदर्शनः।।'
इत्येवं देवयाना वः पन्थानः परिकीर्तिताः।
सद्भिरध्यासिता धीरैः कर्मभिर्धर्मसेतवः।।
एतेषां पृथगध्यास्ते यो धर्मं संशितव्रतः।
कालात्पश्यति भूतानां सदैव प्रभवाप्ययौ।।
अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना।
विषयस्थानि सर्वाणि वर्तमानानि भागशः।।
महानात्मा तथाऽव्यक्तमहंकारस्तथैव च।
इन्द्रियाणि दशैकं च महाभूतानि पञ्च च।।
विशेषाः पञ्चभूतानामित्येषा वैदिकी श्रुतिः।
चतुर्विंशतिरेषा वस्तत्वानां परिकीर्तिता।।
तत्वानामथ यो वेद सर्वेषां प्रभवाप्ययौ।
स धीरः सर्वभूतेषु न मोऽहमधिगच्छति।।
तत्त्वानि यो वेदयते यथातथं
गुणांश्च सर्वानखिलाश्च देवताः।
विधूतपाप्मा प्रविमुच्य बन्धनं
स सर्वलोकानमलान्समश्नुते।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि षट्त्रिंशोऽध्यायः।।