आश्वमेधिकपर्व

अध्यायः १३

Aswamedhika Parva (Sanskrit) · Adhyaya 13
अक्षर का आकार

वासुदेव उवाच।

न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत।
शारीरं द्रव्यमुत्सृज्य सिद्धिर्बवति वा न वा।।

बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृह्यतः।
यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तव।।

द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्।
ममेति द्व्यक्षरो मृत्युर्नममेति च शाश्वतम्।।

ब्रह्ममृत्यू ततो राजन्नात्मन्येव व्यवस्थितौ।
अदृश्यमानौ भूतानि योधयेतामसंशयम्।।

अविनाशोऽस्य तत्त्वस्य नियतो यदि भारत।
भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते।।

लब्ध्वा हि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम्।
ममत्वं यस्य नैव स्यात्किं तया स करिष्यति।।

अथवा वसतः पार्थ वने वन्येन जीवतः।
ममता यस्य वित्तेषु मृत्योरांस्ये स वर्तते।।

ब्राह्यान्तराणां शत्रूणां स्वभावं पश्य भारत।
यन्न पश्यति तद्भूतं मुच्यते स महाभयात्।।

द्योगी योगं सारमार्गं विचिन्त्य।।

नयो धर्मो नियमस्तस्य मूलम्।।

अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः।
शृणु सङ्कीर्त्यमानास्ता अखिलेन युधिष्ठिर।।

काम उवाच।

नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित्।।

यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम्।
तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम्।।

यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः।
जङ्गमेष्विव धर्मात्मा पुनः प्रादुर्भवाम्यहम्।।

यो मां प्रयतते हन्तुं वेदैर्वेदान्तसाधनैः।
स्थावरेष्विव भूतात्मा तस्य प्रादुर्भवाम्यहम्।।

यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः।
भावो भवामि तस्याहं स च मां नावबुध्यते।।

यो मां प्रयतते हन्तुं तपसा संशितव्रतः।
ततस्पपसि तस्यथ पुनः प्रादुर्भवाम्यहम्।।

यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः।
तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च।
अवध्यः सर्वभूतानामहमेकः सनातनः।।

तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः।
धर्मे कुरु महाराज तत्र ते स भविष्यति।।

मा ते व्यथाऽस्तु निहतान्बन्धून्वीक्ष्य पुनःपुनः।
न शक्यास्ते पुनर्द्रष्ट्रं येऽहतास्मिन्रणाजिरे।।

स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः।
कीर्तिं लोके परां प्राप्य गतिमग्र्यां गमिष्यसि।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अश्वमेधपर्वणि त्रयोदशोऽध्यायः।। 13 ।।