आश्वमेधिकपर्व
अध्यायः ११८
युधिष्ठिर उवाच।
देशान्तरगते विप्रे संयुक्ते कालधर्मणा।
शरीरनाशे संप्राप्ते कथं प्रेतत्वकल्पना।।
भगवानुवाच।
श्रूयतामाहिताग्नेस्तु तथाभूतस्य संस्क्रिया।
पालाशबृन्दैः प्रतिमा कर्तव्या कल्पचोदिता।।
त्रीणि षष्टिशतान्याहुरस्थीन्यस्य युधिष्ठिर।
तेषां विकल्पना कार्या यथाशास्त्रं विनिश्चितम्।।
अशीत्यर्धं शिरसि च ग्रीवायां दश एव च।
बाह्वोश्चापि शतं दद्यादङ्गुलीषु पुनर्दश।।
उरसि त्रिंशतं दद्याज्जठरे वाऽपि विंशतिम्।
वृषणे द्वादशार्धं तु शिश्ने चाष्टार्धमेव च।।
दद्यात्तु शतमूर्वोस्तु षष्ट्यर्थं जानुजङ्घयोः।
दश दद्याच्चरणयोरेषा प्रेतस्य निष्कृतिः।।
युधिष्ठिर उवाच।
विशेषतीर्थं सर्वेषामशक्तानामनुग्रहात्।
भक्तानां तारणार्तं तु वक्तुमर्हसि धर्मतः।।
भगवानुवाच।
पावनं सर्वतीर्थानां सत्यं गायन्ति सामगाः।
सत्यस्य वचनं तीर्थमहिंसा तीर्थमुच्यते।।
तपस्तीर्थं दया तीर्थं शीलं तीर्थं युधिष्ठिर।
अल्पसंतोषकं तीर्थं नारी तीर्थं पतिव्रता।।
संतुष्टो ब्राह्मणस्तीर्थं ज्ञानं वा तीर्थमुच्यते।
मद्भक्तः सततं तीर्थं शङ्करस्य विशेषतः।।
यतयस्तीर्थमित्येवं विद्वांसस्तीर्थमुच्यते।
शरण्यपुरुषस्तीर्थमभयं तीर्थमुच्यते।।
त्रैलोक्येऽस्मिन्निरुद्विग्नो न बिभेमि कुतश्चन।
न दिवा यदि वा रात्रावुद्वेगः शूद्रलङ्घनात्।।
न भयं देवदैत्येभ्यो रक्षोभ्यश्चैव मे नृप।
शूद्रवक्त्राच्च्युतं ब्रह्म भयं तु मम सर्वदा।।
तस्मात्सप्रणवं शूद्रो मन्नामापि न कीर्तयेत्।
प्रणवं हि परं लोके ब्रह्म ब्रह्मविदो विदुः।।
द्विजशुश्रूषणं धर्मः शूद्राणां भक्तितो मयि।
तेन गच्छन्ति ते स्वर्गं चिन्तयन्तो हि मां सदा।।
द्विजशुश्रूषया शूद्रः परं श्रेयोऽधिगच्छति।
द्विजशुश्रूषणादन्यन्नास्ति शूद्रस्य निष्कृतिः।।
रागो द्वेषश्च मोहश्च पारुष्यं चानृशंसता।
शाठ्यं च दीर्घवैरित्वमतिमानमनार्जवम्।।
अनृतं चापवादं च पैशुन्यमतिलोभता।
हिंसा स्तेयो मृषावादो वञ्चना रोषलोभता।।
अबुद्धिता च नास्तिक्यं भयमालस्यमेव च।
अशौचं चाकृतज्ञत्वं डंभता स्तंभ एव च।
निकृतिश्चाप्यविज्ञानं जातके शूद्रमाविशेत्।।
सृष्ट्वा पितामहः शूद्रमभिभूतं तु तामसैः।
द्विजशुश्रूषणं धर्मं शूद्राणां तु प्रयुक्तवान्।
नश्यन्ति तामसा भावाः शूद्रस्य द्विजभक्तितः।।
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति।
तदहं भक्त्युपहृतं मूर्ध्ना गृह्णामि शूद्रतः।।
अग्रजो वाऽपि यः कश्चित्सर्वपापसमन्वितः।
यदि मां सततं ध्यायेत्सर्वपापैः प्रमुच्यते।।
विद्याविनयसंपन्ना ब्राह्मणा वेदपारगाः।
मयि भक्ति न कुर्वन्ति चण्डालसदृशा हि ते।।
वृथा दानं वृथा तप्तं वृथा चेष्टं वृथा हुतम्।
वृथाऽऽतिथ्यं च तत्तस्य यो न भक्तो मम द्विजः।।
यत्कृतं च हुतं चापि यदिष्टं दत्तमेव च।
अभक्तिमत्कृतं सर्वं राक्षसा एव भुञ्जते।।
स्थावरे जङ्गमे वाऽपि सर्वभूतेषु पाण्डव।
समत्वेन यदा कुर्यान्मद्भक्तो मित्रशत्रुषु।।
आनृशंस्यमहिंसा च यथा सत्यं तथाऽऽर्जवम्।
अद्रोहश्चैव भूतानां मद्गतानां व्रतं नृप।।
नम इत्येव यो ब्रूयान्मद्भक्तं श्रुद्धयाऽन्वितः।
तस्याक्षयाऽभवँल्लोकाः श्वपाकस्यापि पार्थिव।।
किं पुनर्ये यजन्ते मां सदारं विधिपूर्वकम्।
मद्भक्ता मद्गतप्राणाः कथयन्तश्च मां सदा।।
बहुवर्षसहस्राणि तपस्तप्यति यो नरः।
नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते।।
मामेव तस्माद्राजेन्द्र ध्यायन्नित्यमतन्द्रितः।
अवाप्स्यति ततः सिद्धिं द्रक्ष्यत्येव परं पदम्।।
अपार्थकं प्रभाषन्तः शूद्रा भागवता इति।
न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः।।
द्वादशाक्षरतत्वज्ञश्चतुर्व्यूहविभागवित्।
अच्छिद्रपञ्चकालज्ञः स वै भागवतः स्मृतः।।
ऋग्वेदेनैव होता च यजुषाऽध्वर्युरेव च।
सामवेदेन चोद्गाता पुण्येनाभिष्टुवन्ति माम्।।
अथर्वशिरसा चैव नित्यमाथर्वाणा द्विजाः।
स्तुवन्ति सततं ये मां ते वै भागवताः स्मृताः।।
वेदाधीनाः सदा यज्ञा यज्ञाधीनास्तु देवताः।
देवता ब्राह्मणाधीनास्तस्माद्विप्रास्तु देवताः।।
अनाश्रित्योच्छ्रयं नास्ति मुख्यमानश्रयमाश्रयेत्।
रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः।।
ब्रह्मा मामाश्रितो राजन्नाहं कंचिदुपाश्रितः।
ममाश्रयो न कश्चित्तु सर्वेषामाश्रयो ह्यहम्।।
एवमेतन्मया प्रोक्तं रहस्यमिदमुत्तमम्।
धर्मप्रियस्य ते नित्यं राजन्नेवं समाचर।।
इदं पवित्रमाख्यानं पुण्यं वेदेन संमितम्।
यः पठेन्मामकं धर्ममहन्यहनि पाण्डव।।
धर्मोति वर्धते तस्य बुद्धिश्चापि प्रसीदति।
पापक्षयमुपेत्यैवं कल्याणं च विवर्धते।।
एतत्पुण्यं पवित्रं च पामनाशनमुत्तमम्।
श्रोतव्यं श्रद्धया युक्तैः श्रोत्रियैश्च विशेषतः।।
श्रावयेद्यस्त्विदं भक्त्या प्रयतोथ शृणोति वा।
स गच्छेन्मम सायुज्यं नात्र कार्या विचारणा।।
यश्चेमं श्रावयेच्छ्राद्धे मद्भक्तो मत्परायणः।
पितरस्तस्य तृप्यन्ति यावदाभूतसंप्लवम्।।
वैशम्पायन उवाच।
श्रुत्वा भागवतान्धर्मान्साक्षाद्विष्णोर्जगद्गुरोः।
प्रहृष्टमनसो भूत्वा चिन्तयन्तोद्भुताः कथाः।।
ऋषय पाण्डवाश्चैव प्रणेमुस्तं जनार्दनम्।
पूजयामास गोविन्दं धर्मपुत्रः पुनः पुनः।।
देवा ब्रह्मर्षयः सिद्धा गन्धर्वाप्सरसस्तथा।
ऋषयस्च महात्मानो गुह्यका भुजगास्तता।।
वालखिल्या महात्मानो योगिनस्तत्वदर्शिनः।
तथा भागवताश्चापि पञ्चकालमुपासकाः।।
कौतूहलसमायुक्ता भगवद्भक्तिमागताः।
श्रुत्वा तु परमं पुण्यं वैष्णवं धर्मशासनम्।।
विमुक्तपापाः पूतास्ते संवृत्तास्तत्क्षणेन् तु।
प्रणम्य शिरसा विष्णु प्रतिनन्द्य च ताः कथाः।।
द्रष्टारो द्वारकायां वै वयं सर्वे जगद्गुरुम्।
इति प्रहृष्टमनसो ययुर्देवगणैः सह।
सर्वे ऋषिगणा राजन्ययुः स्वंस्वं निवेशनम्।।
गतेषु तेषु सर्वेषु केशवः केशिहा हरिः।
सस्मार दारुकं राजन्स च सात्यकिना सह।
समीपस्थोऽभवत्सूतो याहि देवेति चाब्रवीत्।।
ततो विषण्णवदनाः पाण्डवाः पुरुषोत्तमम्।
अञ्जलिं मूर्ध्नि संधाय नेत्रैरश्रुपरिप्लुतैः।
पिबन्तः सततं कृष्णं नोचुरार्ततरास्तदा।।
कृष्णोपि भगवान्देवः पृथामामन्त्र्य चार्तवत्।
धृतराष्ट्रं च गान्धारीं विगदुरं द्रौपदीं तथा।।
कृष्णद्वैपायनं व्यासमृषीनन्यांस्च मन्त्रिणः।
सुभद्रामात्मजयुतामुत्तरां स्पृश्य पाणिना।
निर्गत्य वेश्मनस्तस्मादारुरोह तदा रथम्।।
वाजिभिः शैव्यसुग्रीवमेघपुष्पबलाहकैः।
युक्तं तु ध्वजभूतेन पतगेन्द्रेण धीमता।।
अन्वारुरोह चाप्येन प्रेम्या राजा युधिष्ठिरः।
अपास्य चाशु यन्तारं दारुकं सूतसत्तमम्।
अभीशून्प्रतिजग्राह स्वयं कुरुपतिस्तदा।।
उपारुह्यार्जुनश्चापि चामरव्यजनं शुभम्।
रुक्मदण्डं बृहन्मूर्ध्नि दुधावाभिप्रदक्षिणम्।।
तथैव भीमसेनोपि रथमारुह्य वीर्यवान्।
छत्रं शतशलाकं च दिव्यमाल्योपशोभितम्।।
वैडूर्यमणिदण्डं च चामीकरविभूषितम्।
दधार तरसा भीमश्छत्रं तच्छार्ङ्गधन्वनः।।
उपारुह्य रथं शीघ्रं चामरव्यजने सिते।
नकुलः सहदेवश्च धूयमानौ जनार्दनम्।।
भीमसेनोऽर्जुनश्चैव यमावप्यरिसूदनौ।
पृष्ठतोऽनुययुः कृष्णं माशब्द इति हर्षिताः।।
त्रियोजने व्यतीते तु परिष्वज्य च पाण्डवान्।
विसृज्य कृष्णस्तान्सर्वान्प्रणतान्द्वारका ययौ।।
तथा प्रणम्य गोविन्दं तदाप्रभृति पाण्डवाः।
कपिलाद्यानि दानानि ददुर्धर्मपरायणाः।।
मधुसूदनवाक्यानि स्मृत्वास्मृत्वा पुनःपुनः।
मनसा पूजयामासुर्हदयस्थानि पाण्डवाः।।
युधिष्ठिरस्तु धर्मात्मा हृदि कृत्वा जनार्दनम्।
तद्भक्तस्तन्मना युक्तस्तद्याजी तत्परोऽभवत्।।
एवमुक्तं पुरावृत्तं वैष्णवं धर्मशासनम्।
मया ते कथितं राजन्पिवित्रं पापनाशनम्।।
तच्छृणुष्व महाराज विष्णुप्रोक्तं कुरूद्वह।
तेन गच्छसि नान्येन तद्विष्णोः परमं पदम्।।
।। इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां आश्वमेधिकपर्वणि
वैष्णवधर्मपर्वणि अष्टादशाधिकशततमोऽध्यायः।। 118 ।।
इत्याश्वमेधिकपर्व कुंभघोणस्येन टी.आर्.कृष्णाचार्येण टी.आर्.व्यासाचार्येण च मुंबय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम्। शकाब्दाः 1832 सन 1910.