आश्वमेधिकपर्व
अध्यायः ११
वैशम्पायन उवाच।
इत्युक्ते नृपतौ तस्मिन्व्यासेनाद्भुतकर्मणा।
वासुदेवो महातेजास्ततो वचनमाददे।।
तं नृपं दीनमनसं निहतज्ञातिबान्धवम्।
उपप्लुतमिवादित्यं सधूममिव पावकम्।।
निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः।
आश्वासनन्धर्मसुतं प्रवक्तुमुपचक्रमे।।
वासुदेव उवाच।
सर्वं जिह्मं मृत्युपदमजिह्मं ब्रह्मणः पदम्।
एतावान्ज्ञानविषयः किं प्रलापः करिष्यति।।
नैव तेऽनुष्ठितं कर्म नैव ते शत्रवो जिताः।
कथं शत्रुं शरीरस्तमात्मनो नावबुध्यसे।।
अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम्।
इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत।।
वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप।
दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हृते।
धराहरणदुर्गन्धो विषयः समपद्यत।।
शतक्रतुश्चुकोपाथ गन्धस्य विषये हृते।
वृत्रस्य सततः क्रुद्धो घोरं वज्रमवासृजत्।।
स वध्यमानो वज्रेण सुभृशं भूरितेजसा।
विवेश सहसा तोयं जग्राह विषयं ततः।।
अप्सु वृत्रगृहीतासु रसे च विषये हृते।
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत्।।
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा।
विवेश सहसा ज्योतिर्जग्राह विषयं ततः।।
व्याप्ते ज्योतिषि वृत्रेण रूपेऽथ विषये हृते।
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत्।।
स वद्यमानो वज्रेण तस्मिन्नमिततेजसा।
विवेश सहसा वायुं जग्राह विषयं ततः।।
व्याप्ते वायौ तु वृत्रेण स्पर्शेऽथ विषये हृते।
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत्।।
स वध्यगानो वज्रेण तस्मिन्नमिततेजसा।
आकाशमभिदुद्राव जग्राह विषयं ततः।।
आकाशे वृत्रभूतेऽथ शब्दे च विषये हृते।
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत्।।
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा।
विवेश सहसा शक्रं जग्राह विषयं ततः।।
तस्य वृत्रगृहीतस्य मोहः समभवन्महान्।
रथन्तरेण तं साम्ना वसिष्ठः प्रत्यबोधयत्।।
ततो वृत्रं शरीरस्थं जघान भरतर्षभ।
शतक्रतुरदृश्येन वज्रेणेतीह नः श्रुतम्।।
इदं धर्म्यं रहस्यं वै शक्रेणोक्तं महर्षिषु।
ऋषिभिश्च मम प्रोक्तं तन्निबोध जनाधिप।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अश्वमेधपर्वणि एकादशोऽध्यायः।। 11 ।।