आरण्यकपर्व

अध्यायः ९९

Aranyaka Parva (Sanskrit) · Adhyaya 99
अक्षर का आकार

युधिष्ठिर उवाच।

भूय एवाहमिच्छामि महर्षेस्तस्य धीमतः।
कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजात्तम ।।

लोमश उवाच।

शृणु राजन्कथां दिव्यामद्भुतामतिमानुषीम्।
अगस्त्यस्य महाराज प्रभावममितौजसः ।।

आसन्कृतयुगे घोरा दानवा युद्धदुर्मदाः।
कालकेया इतिख्याता गणाः परमदारुणाः ।।

ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः।
समन्तात्पर्यधावन्त महेन्द्रप्रमुखान्सुरान् ।।

ततो वृत्रवधे यत्नमकुर्वंस्त्रिदशाः पुरा।
पुरंदरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे ।।

कृताञ्जलींस्तु तान्सर्वान्परमेष्ठीत्युवाच ह।
विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितम् ।।

तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ।
दधीच इतिविख्यातो महानृषिरुदारधीः ।।

तं गत्वा सहिताः सर्वेवरं वै संप्रयाचत।
स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना ।।

स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाङ्क्षिभिः।
स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस् हिताय वै ।।

स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति।
तस्यास्थिभिर्महाघोरं वज्रं संस्क्रियतां दृढम् ।।

महच्छत्रुहणं घोरं ष़डश्चं भीमनिःस्वनम्।
तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः ।।

एतद्वः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम्।
एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहम् ।।

नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः।
सरस्वत्याः परे पारे नानाद्रुमलतावृतम् ।।

षट्पदोद्गीतनिनदैर्विघुष्टं सामगैरिव।
पुंस्कोकिलरवोन्मिश्रं जीवंजीवकनादितम् ।।

महिषैश्च वराहैश्च सृमरैश्चमरैरपि।
तत्र तत्रानुचरितं शार्दूलभयवर्जितैः ।।

करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः।
सरोवगाढैः क्रीडद्भिः समन्तादनुनादितम् ।।

सिंहव्याघ्रैर्महानादान्नदद्भिरनुनादितम्।
अपरैश्चापि संलीनैर्गुहाकन्दरशायिभिः ।।

तेषु तेष्ववकाशेषु शोभितं सुमनोरमम्।
त्रिविष्टपसमप्रख्यं दधीचाश्रममागमन् ।।

तत्रापश्यन्दधीचं ते दिवाकरसमद्युतिम्।
जाज्वल्यमानं वपुषा यथा साक्षात्पितामहम् ।।

तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च।
अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना ।।

ततो दधीचः परमप्रतीतः
सुरोत्तमांस्तानिदमभ्युवाच।
करोमि यद्वो हितमद्य देवाः
स्वं चापि देहंस्वयमुत्सृजामि ।।

स एवमुक्त्वा द्विपदांवरिष्ठः
प्राणान्वशी स्वान्सहसोत्ससर्ज।
ततः सुरास्ते जगृहुः परासो-
रस्थीनि तस्याथ यथोपदेशम् ।।

प्रहृष्टरूपाश्च जयाय देवा-
स्त्वष्टारमागम् तमर्थमूचुः।
त्वष्टा तु तेषां वचनं निशम्य
प्रहृष्टरूपः प्रयतः प्रयत्नात् ।।

चकार वज्रं भृशमुग्ररूपं
कृत्वा च शक्रं स उवाच हृष्टः।
अनेन वज्रप्रवरेण देव
भस्मीकुरुष्वाद्य सुरारिमुग्रम् ।।

ततो हतारिः सगणः सुखं वै
प्रशाधिकृत्स्नं त्रिदिवं दिविष्ठः।
त्वष्ट्रा तथोक्तस्तु पुरंदरस्त-
द्वज्रं प्रहृष्टः प्रयतो ह्यगृह्नात् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि एकोनशततमोऽध्यायः ।। 99 ।।